भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 104, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 104

त्वेनाङ्गीकारात् । वेदस्य गुरुमुखाद् ग्रहणदशायां तं प्रति स्वाध्यायत्वस्य भावित्वेन तदानी- मभावात् । 'वेदमन्‌च्याऽऽचार्योऽन्तेवासिनमनुशास्ति, सत्यं वद, धर्मं चर, स्वाध्यायान्मा प्रमद', इति तैत्तिरीयाणां शिक्षोपनिषच्छ्रुत्या तथानिश्चयात् । आधानाग्निहोत्रादिविधीनामपि तत्र तदाक्षेपकत्वस्याध्ययनविधिप्रसादलभ्यत्वोपगमेन प्रसादस्य च माणवके सामर्थ्याभावादभावेन तेषामप्याक्षेपकतायां कौण्ठ्यात् । आश्रिते चैकवाक्यत्वे, ज्ञेयश्चेति विध्यन्तरस्यापि संप्राह्यत्वात् तद्बलादेवार्थज्ञानमङ्गीकार्यम् । अन्यथा तद्वैयर्थ्यादिति । अत एव प्राथमिकाध्ययनस्यापि तदर्थत्वमसङ्गतम् । किंत्वध्यापनप्रयुक्तत्वं यदुक्तं तन्मात्रं युक्तम् । ज्ञातृनियोज्यस्याचार्यत्व- कामिनस्तत्रैव विधौ सत्त्वेन लिङ्‌प्रयोगेण च तत्र विधित्वस्यासंदिग्धत्वात् । कृत्यानां त्वाव- श्यकार्थेऽप्यनुशासनात् । वयसा जातस्नातकियाणां त्रैवर्णिकानामध्ययनस्यावश्यकत्वबोधनेन वाक्यसार्थक्यसिद्धेः । एवं च यद्यप्यध्यापनविधावध्यापनमात्रं श्रुतं, तथापि, 'साङ्गो वेदोऽध्येयो ज्ञेयश्च' इतिभावनावद् गुरुणाङ्गापाठनेऽर्थाज्ञापने च तदसिद्ध्या वैयर्थ्ये वाक्यस्य प्रसक्ते तद्वारणार्य तथाध्यापनमङ्गीकरणीयम् । आचार्यलक्षणस्मृतौ वेदस्य 'सकल्पं सरहस्यं च' इति विशेषणाच्च । रश्मिः । प्रकृतमनुसरामः । दूषणमाहुः वेदस्येत्यादि । अभावादिति । तथा च माणवकं प्रति स्वाध्यायसमाख्यासामर्थ्यविरहेणार्थज्ञानस्याप्यनुपलभ्भेन तदर्थत्वकल्पनमिति भावः । ननु स्वस्वसाधारण्याेन पितृपितामहादिपरंपराप्राप्ता शाखा स्वाध्याय इति योगस्य सायणीयेऽङ्गीकारात्, पूर्वोक्तं न साधीय इति शङ्कामपनुदन्तो वेदे स्वाध्यायत्वस्य भावित्वं श्रौतमित्याहुः वेदमन्- च्येत्यादि । तथानिश्चयादिति वेदे स्वाध्यायत्वस्य भावित्वनिश्चयादित्यर्थः । अन्यथा स्वाध्यायमन्‌च्येत्येव वदेदिति भावः । तदाक्षेपकत्वस्येति विद्वच्चैवर्णिकाक्षेपकत्वस्येत्यर्थः । आक्षे- पकतायामिति अर्थज्ञानाक्षेपकतायामित्यर्थः । अतः परमवशिष्टमर्थज्ञानांशे नियमविधित्वम्, तदपि प्राभाकरमतदूषणेन दूषितं भविष्यतीत्याशयेनाहुः आश्रिते चेति । इतीति । अयमत्र प्रकर्षं श्रूते । तथा च विधिवैयर्थ्यं प्रकृष्टो हेतुरित्यर्थः । प्रत्यक्षश्रुतिलभ्यत्वसंभवे चोदकप्राप्तस्रवस्वीकार- स्यानुचितत्वादित्यपरः । एतच्च पूर्वतन्त्रे द्वादशस्य चतुर्थे पादे 'विप्रतिषेधे परम्' इत्यधिकरणे चिन्ति- तम् । यत्रात्विज्ययाजमानयोः कर्मणोर्युगपदालम्भास्तत्र ये यजमानास्ते ऋत्विज इति विहित- मार्त्विज्यं चोदकप्राप्तयाजमानाद् बलीय इति । विधाविति उपनयीतेति विधावित्यर्थः । पूर्व- तन्त्रे अपूर्वत्वोपपादनाक्षादध्ययनविधिप्रयोजनमाहुः कृत्यानामित्यादि । अनुशासनादिति । 'आवश्यकाधमर्णयोर्णिनि'रित्येतदनन्तरं 'कृत्याश्च'इत्यनुशासनादित्यर्थः । वाक्यसार्थक्यसिद्धेरिति । तेन नात्र नित्यानुवादगन्धोपीत्याशयः विधिपक्षेप्युपादेय इति वक्ष्यन्ति । न चैवमनधीयाना ब्रात्या भवन्तीति वाक्यवैयर्थ्यम् । 'तयोरेव कृत्यक्तखलर्थाः' 'प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च'इत्यादिसूत्रैराने- कार्थेषु प्राप्तस्य तव्यस्यावश्यकार्थत्वावेदकत्वात् । वाक्यत्रयैकवाक्यतया यत्सिद्धं तदाहुः एवं चेत्यादि । विशेषणाच्चेति । अनेनाध्यापनविधौ नियोज्याभावादध्यापनसमभिव्याहृतेनोपनयी- तेत्यात्मनेपदेनाचार्यकरणलाभे तत्कामिना नियोज्याकाङ्क्षा पूरणीया । तथा सत्यध्यापनसाचार्यत्व- सिद्धिः प्रयोजनं नत्वर्थज्ञापन्नमपि, ततश्च सिद्धे आचार्यत्वे तस्यार्थज्ञापनानावश्यकत्वान्माणव- १ तै० आ० १०।२०

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 104, कुल 2600 में से · BharatKosha