अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 105, कुल 2600 में से
संदर्भ में पढ़ें१८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ ० १ पा ० १ अ ० १ सू ० १ भाष्यप्रकाशः । एवं साङ्गेऽधीते ज्ञाते च तस्य स्वाध्यायः सिध्यति । तदोक्तं फलमपि संपद्यत इति वाक्यत्रयैक- वाक्यतयावसीयते तस्मात् प्राथमिकमध्ययनमध्यापनप्रयुक्तम्, अर्थज्ञानं च प्रत्यक्षश्रुतिलभ्य- 'मिति भाट्टप्राभाकरयोः पूर्वोक्तकल्पना असंगतैव । कृत्यप्रत्यययोर्विध्यर्थकत्वपक्षेप्युक्त एव प्रकारो युक्तः । अन्यथा विधिकौण्ठ्यप्रसङ्गात् । एवं च रामानुजाचार्यैरध्ययनविधेरक्षरग्रहणपर्य- वसायित्वं, स्वाध्यायस्य च स्वभावार्थबोधकत्वं यदुक्तं तदप्युक्तदिशैव युक्तम् । नत्वन्यथापि । एवमेव भास्कराचार्योक्ते स्वाध्यायविधेरर्थावबोधपर्यवसितत्वेपि बोध्यम् । शैवस्तु विचारसार्थक्य- मात्रमाह, न तु शास्त्रप्रयोजकं कंचन विधिमपीति तन्मते वैधत्वमेवायाति । तेन तत्तूदासीनप्रा- य