भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 106, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 106

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १९ शब्दाश्च बोधकाः । निःसंदिग्धं तदर्थाश्च लोकवद् व्याकृतेः स्फुटाः ॥ भाष्यप्रकाशः । स्वविषयमात्रावगतिसाधनं शास्त्रश्रवणत्वाद् वैद्यकशास्त्रश्रवणवदित्यनुमानेनापि प्राप्ततयाऽपूर्वत्वा- भावात् । न द्वितीयः । अवघातवद् दृष्टफलोपायान्तरस्याप्राप्तत्वात् । नेतरः । तथा सति श्रोतव्या एव वेदान्ता नाध्येया इति स्यात् । ततश्च विचारस्याप्ययोगात् पुरुषार्थासंभवः । एवं च वेदाध्ययनादिरपि निवर्तेतेति महानेवानर्थः स्यादिति विकल्पितवान् । ततुच्छम् । हेतोः साधारणत्वेनानुमानतोऽप्राप्तावपूर्वविधित्वस्य स्थिरत्वात् । कथं साधारणतेति चेद् वेदान्त- श्रवणं न स्वविषयावगतिसाधनं शास्त्रश्रवणत्वात् सूत्रश्रवणवदित्येवमवच्छेदे । किंच, श्रवणपदं शब्दग्रहणमात्रपरं वा, वाक्यार्थज्ञानपरं वा । आद्ये विधिवैयर्थ्यापत्तिः । स्वाध्यायविधिनेव चारितार्थ्यात् । न चाध्ययननियमाभावाय पुनर्विधानमिति वाच्यम् । आचारविरोधात् । त्रैवर्णिकाधिकारस्यापि त्यागापत्तेश्च । द्वितीये तु निराबाधं विधित्वम् । अन्यथा वाक्यवैय- र्थ्यापत्तेरिति । अतः पूर्वकाण्डविधेरर्थज्ञानमात्रार्थत्वेनोत्तरकाण्डीयस्यापि ब्राह्मणश्रमणन्यायेन विशे- षार्थतया विचारस्यावैधत्वाच्चारम्भणीयः । ननु संदेहाभावायाध्ययनादिविधौ विचार आक्षेप्य इत्यत आह शब्दाश्चेत्यादि । रश्मिः । वृत्तिपरो विधिः सा, पञ्च पञ्चनखा भक्ष्या इति । यथा । भक्षणस्य रागप्राप्तत्वात् पक्षेप्राप्तत्वाभावाच्च नापूर्वनियमोऽन्यपञ्चनखभक्षणनिवृत्तिपरत्वात् पञ्चनखापञ्चनखभक्षणस्य युगपत् प्राप्तत्वात् परि- संख्या । अत्र श्रुतस्य पञ्चनखभक्षणस्य हानाच्छ्रुतहानिः । अपञ्चनखभक्षणनिवृत्तिकल्पनादश्रुत- कल्पना । अपञ्चनखभक्षणस्य बाधनात् प्राप्तबाध इति दोषत्रयवती । ततश्चेति अध्ययनाभावा- देत्यर्थः । उभयस्य युगपत्प्राप्तावितरव्यावृत्तेरित्यर्थः । एवं चेति । पूर्वोक्तपरामर्शेनाध्यापनवि- धावपि परिसंख्यापत्येत्यर्थः । श्रवणपदमिति । इदं तव्यन्तप्रकृतिरूपं ज्ञेयम् । विधिवैयर्थ्या- पत्तिरिति श्रोतव्य इति विधिवैयर्थ्यापत्तिरित्यर्थः । चारितार्थ्यादिति शब्दग्रहणस्यैवाध्ययन- पदार्थत्वेन तथात्वादित्यर्थः । न चेत्यादि । श्रोतव्य इति पुनर्विधानं श्रवणेऽध्ययनानन्तर्यनियमा- भावायेत्यर्थः । तत्रैवाचारमाशङ्कय हेत्वन्तरमाहुः त्रैवर्णिकेत्यादि । अध्ययने त्रैवर्णिकाधिकारात् तस्य चाभावाच्छ्रवणविधिः सर्वानप्यधिकुर्यादित्यर्थः । निराबाधमिति । वाक्यार्थज्ञानस्याध्ययनविधि- नानुपलब्धेर्निराबाधं श्रोतव्य इत्यस्य विधित्वमित्यर्थः । द्वितीयार्थादरे युक्तिमप्याहुः अन्यथेति । ब्राह्मणश्रमणन्यायेनेति । ब्राह्मणाश्चेत् श्रमणास्तेन न्यायेनेत्यर्थः । यथा ब्राह्मणः सन् श्रमणो भवति, पश्चाद्भूतपूर्वगत्या श्रमण इत्युच्यते तथा । विशेषार्थेति । वेदान्तार्थज्ञानपरतयेत्यर्थः । एता- वता 'साङ्गोऽध्येयोऽथ ज्ञेयः' इति भाष्यं हेतुद्वयसमर्पकं विवृतम् । शब्दाश्चेति । शब्दाश्च निःसंदिग्धं बोधकाः लोकवत् व्याकृतेर्व्याकरणात्तदर्थाश्च स्फुटा इत्यर्थः । व्याकरणत्वं च महा