भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 107, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 107

२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ अर्थज्ञानार्थं विचार आरम्भणीयः । तस्य च ब्रह्मरूपत्वात् तज्ज्ञाने पुरुषार्थो भवतीति न मन्तव्यम् । विचारं विनापि वेदादेव साक्षादर्थप्रतीतेः । भाष्यप्रकाशः। विशेषबोधनाय श्लोकं विभजते अर्थज्ञानेत्यादि । सर्वोऽपि प्रयोजनमुद्दिश्य कार्यमारभते । तत्रास्य विचारस्य प्रयोजनं वेदार्थज्ञानं वाऽन्यद् वा । तत्रान्यस्यादर्शनाद्, 'वेदान्तविज्ञानसुनि- श्चितार्थाः' इतिवाक्यबोधितमाद्यमेवादर्तव्यम् । तत्रापि तस्य स्वतोऽपुरुषार्थत्वात् प्रयोजनान्तर- मेष्टव्यम् । तच्च प्रयोजनमनन्तविधमप्यैहिकामुष्मिकपुरुषार्थेष्वन्तर्भूतत्वात् पुरुषार्थरूपम् । तच्च वेदार्थज्ञानेन भवतीति तदर्थं विचार आरम्भणीयो, न तु स्वतःपुरुषार्थत्वात् । वेदार्थश्च, 'सर्वे वेदा यत्पदमामनन्ति' इति, 'वेदैश्च सर्वैरहमेव वेद्यः,' 'वेदास्त्रिकाण्डविषया ब्रह्मात्मविषया इमे, परोक्षवादा ऋषयः परोक्षं च मम प्रियम्' इत्यादिश्रुतिस्मृतिभिर्ब्रह्मरूपः । नच 'वेदोऽखिलो धर्ममूलम्'इत्यादिस्मृतिभिर्धर्मरूप इति वाच्यम् । 'यज्ञो वै विष्णुः' इति, 'धर्मो यस्यां मदात्मकः' इति श्रुतिस्मृतिभ्यां धर्मस्यापि ब्रह्मरूपत्वबोधनात् तद्रूपेणैवार्थत्वात् । ब्रह्मणस्तु ज्ञानादेव पुरुषार्थसिद्धिः । 'ब्रह्मविदामोति परम्' 'आनन्दं ब्रह्म'इत्युपक्रम्य, 'य एवं वेद प्रतितिष्ठति, अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या' । दहरविद्यायां दहरपुण्डरीकवेश्मस्थितस्याकाशस्यैतदमृतमभय- मेतद् ब्रह्मेत्यनेन ब्रह्मत्वमुक्त्वा, एवंवित् स्वर्गं लोकमितीत्येवंविधेषु वाक्येष्वैहिकामुष्मिकपुरुषा- र्थस्य ज्ञानमात्रेणैव श्रावणात् तावतापि पुरुषार्थसिद्धेर्ब्रह्म न मन्तव्यं न विचार्यमित्यर्थः । रश्मिः । भेदकथनात् । महाभाष्येपि 'व्यत्ययो बहुलम्' इति योगविभागेन 'सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति परिभाषासाधितोक्तवेदेषु कल्पनादिविधिमलक्ष्यलक्षणसमुदायसत्त्वे शब्दाद्वेदे आयान्त्येव । तथा वेदेषु योगरूढिः, वेदान्ते तु योगः । तदुक्तं पत्रावलम्बने 'लौकिको वैदिकश्चैव व्यवहारो द्विधा मतः । लोकसिद्धं पुरस्कृत्य वैदिको बोध्यते यथा ॥ लोके शब्दार्थसंबन्धो रूपं तेषां च यादृशम् । न विवादस्तत्र कार्यो लोकोच्छित्तिस्तथा भवेत् ॥ ब्रह्मवादे निरुक्तिस्तु न वक्तव्यैव कुत्रचित् । वस्तुतो ब्रह्म सर्वं हि व्यवहारस्तु लोकतः ॥ ये धातुशब्दा यत्रार्थ उपदेशे प्रकीर्तिताः । तयैवार्थो वेदराशेः कर्तव्यो नान्यथा क्वचित् ॥ इति योगकथनात् । पूर्वमीमांसाकारिकासु तु लौकिकवैदिकव्यवहारकथनावसरे 'जलाग्न्योरिव संरक्षा तयोः कार्या मनीषिभिः' इत्युक्तम् । 'विचारो योगरूढितः' इत्यपि तत्र । श्लोकमिति स्वेन कारि- कयोक्तमित्यर्थः । प्रयोजनमिति फलमित्यर्थः । तस्य इति वेदार्थज्ञानस्येत्यर्थः । तस्य चेत्या- दिभाष्यं विवृण्वन्ति वेदार्थश्चेत्यादि । मीमांसाकशङ्कामनूद्य निषेधन्ति न चेत्यादि । तज्ज्ञान इत्यादि भाष्यं विवृण्वन्ति ब्रह्मणस्त्विति । वाक्यान्तरेण प्राप्तं ब्रह्मविचारं प्रत्याख्याति 20