अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 108, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २१ नचार्थज्ञानमविहितम्, अविचारिताश्च शब्दा नार्थं प्रत्याययन्तीति वाच्यम्, ज्ञेयश्चेति विधानात् । 'गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः । अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः' इति बाधोपलब्धेश्च । शब्दश्चाक्षुरादिवन्न संदिग्धार्थप्रतिपादकः । तदर्थश्च भाष्यप्रकाशः । न च श्रोतव्य इति विधिना श्रवणं विधाय तदर्थमननाय मन्तव्य इति विध्यन्तरदर्शनादवबो- धसामान्यस्य तदर्थत्वेनाशक्यवचनत्वाद् युक्तिभिरनुचिन्तनमेव मननपदार्थो वक्तव्य इति विचा- रोऽपि प्राप्त एवेति वाच्यम् । तस्य शारीरपरत्वात् । प्रियत्वलिङ्गेन तथा निश्चयात् । नच वाक्यार्थः शारीरः परमात्मा वेति संदेहे लिङ्गादिनिमित्तनिश्चितावबोधार्थमेव विचार आक्षेप्य इति वाच्यम् । वेदे सा