अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 109, कुल 2600 में से
संदर्भ में पढ़ें२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ व्याकरणादिना निर्णीयते । यथा लौकिकवाक्ये तथा वेदेऽपि । न च तद्विरुद्धं निर्णेतव्यम्, । अप्रामाणिकत्वप्रसङ्गात् । तस्माद् वेदार्थज्ञानार्थं विचारो नारम्भणीयः । स्यादेतत् भाष्यप्रकाशः । अतोऽनेकार्थत्वादिसंकटेऽपि व्याकरणोक्तस्वरादिना सुखेन तन्निरासात् । किंच । लोके प्रत्यक्षादि- संक्रमान्न तथा व्याकरणापेक्षेति तद्विरुद्धमपि क्वचिन्निर्णीयते । अत एव लौकिकशब्दार्थनिर्णाय- कत्वेऽपि न तत्र तेषामङ्गत्वप्रसिद्धिः । वेदे तु तेषामङ्गत्वस्य शास्त्रप्रसिद्धत्वात् प्रमेयस्य चात्यन्ता- लौकिकत्वेन विचारवादिनोऽपि तेषामाश्रयणीयत्वात् तद्धेतुन्यायेन तैरेवार्थज्ञानसिद्धेः कृतमजाग- लस्तनप्रायेण विचारेणेति । तदिदमुक्तं नचेत्यादिना । अत्रैकदेशी स्वमतेन विचारकर्तव्यतामुपपादयति स्यादेतदिति वक्ष्यमाणप्रकारेण विचार- रश्मिः । विवृण्वन्ति अत इति । व्याकरणेत्यादि । तथा च शिक्षायाम् । 'मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्' ॥ इति । यथा दत्त इत्युक्ते, प्रत्ययार्थसहितं दानं संज्ञाश्चेति । संकटे आद्युदात्तत्वात्संज्ञाशब्दोऽयमिति तथा च सूत्रम् 'निष्ठा च द्व्यजनात्' इति । अथवा 'इन्द्रशत्रो' इत्यत्र स्वरेण समासनिर्णय आद्युदात्तत्वाद् बहुव्रीहिरिति, आदिना पदान्तरसमभिव्याहारादि पदान्तरसमभिव्याहार आदिर्येषां साम- र्थ्यादीनां, पदान्तरसमभिव्याहारस्यादयः पदान्तरसमभिव्याहारादयः संयोगादयः, ते च ते तेषां समाहारः पदान्तरसमभिव्याहारादि, तेन 'सशङ्खचक्रो हरिः' इत्यत्र हरिशब्दो विष्णुवचन इति । न चेत्यादिभाष्यतात्पर्यमाहुः किंचेति । क्वचिदिति घटपटकालीनादिप्रयोगेषु इत्यर्थः । व्याकरणे तु घट चेष्टाभासचलनपरिमाणेषु, पट गतिभासप्रभृतिषु, कालाट्ठन् इति । तेषामिति । छन्दःकल्प- शिक्षानिरुक्तज्योतिषव्याकरणानामित्यर्थः । तद्धेतुन्यायेनेति । 'हेतुहेतुमतो हेतौ तद्धेतोरेव हेतुता' इत्यर्थः । तदिदमिति । किंचेत्यारभ्य विवृतमित्यर्थः । अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रति- पत्तये सर्वे वेदान्ता आरभ्यन्त इति वदन्तो विप्लववादिनो निरसितुमिदमित्याहुः । यद्वा । केवल- वैदिककृतपूर्वपक्षे षडङ्गैर्निर्वाहः, परंतु 'स्वाध्यायोऽध्येतव्यः' इति श्रुतिविरोधः, वक्ष्यमाणमा- ध्याह्निकमध्ययनाभावात् । इति केवलवैदिकं प्रति वैदिकश्चेत् मीमांसकः, स एकदेशी तस्याक्षेपस्त- माहुः अत्रैकदेशीति । ब्रह्मपुच्छश्रद्धालुत्वाध्यासी पूर्वमीमांसको वैदिकैकदेशीति हार्दः । 22