अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1060, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९११ तस्यैव प्रतीतेः । सर्ववैलक्षण्यार्थं वैदिकानामबाधितार्थैकवाक्यत्वस्याभिप्रेत- त्वादिति चकारार्थः । कार्यप्रकारे भेदस्तु माहात्म्यज्ञापको न तु बाधकः । बहुधा कृतिसामर्थ्यं लोकेऽपि माहात्म्यसूचकमिति । तस्मान्न श्रुतिविप्रतिषेधात् स्मृतिपरिग्रह इति सिद्धम् ॥ १४ ॥ इति प्रथमाध्याये चतुर्थपादे एकसूत्रं यथा व्यपदिष्टाधिकरणं चतुर्थम् ॥ ४ ॥ भाष्यप्रकाशः । श्रुतिव्याकोपः । तस्य लौकिककर्तृत्वनिषेधपरत्वात् । निषेधकवाक्योत्तरार्धे 'स्वाभाविकी ज्ञान- बलक्रिया च' इति स्वाभाविकक्रियासद्भावप्रतिपादनात् । द्वितीयपादे समाभ्यधिकनिषेधाच्च । कार्यकारणसापेक्षलौकिककर्तृत्वनिषेधस्यैव प्रतीतेरिति । चकारसूचितं हेत्वन्तरमाहुः सर्ववै- लक्षण्येत्यादि । वैदिकानामिति पदवाक्यानाम् । सिद्धमाहुः तस्मादित्यादि