अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1061, कुल 2600 में से
संदर्भ में पढ़ेंसमाकर्षात् ॥ १५ ॥ (१।४।५) पुनरन्यथाशङ्क्य परिहरति । ननु क्वचित् 'असद्वा इदमग्र आसीत्' इति क्वचित्, 'सदेव सोम्येदमग्र आसीत्' । तद्धैक आहुरसदेवेदमग्र आसीत् । अव्या- कृतमासीत् । 'नासदासीन्नो सदासीत्' 'तम आसीत्' इत्यादिवाक्येषु ब्रह्मणोऽपि विगानं श्रूयते । तद्धैक आहुरितिवत् पक्षान्तरं संभवति । न ह्यसत्तमःशब्दैर्ब्रह्म भाष्यप्रकाशः। समाकर्षात् ॥ १५ ॥ सूत्रमवतारयन्ति पुनरित्यादि । प्रकारान्तरेण श्रुतिविप्रतिषेध- माशङ्क्य परिहरतीत्यर्थः । अत्रापि संशयस्तद्बीजं च पूर्ववदेव । एकस्य ब्रह्मणः कारणत्वे वक्तव्ये नाना शब्दानां कारणे प्रयोगादनिर्णायिकां श्रुतिं विहायेत्येतावान् विशेषः । पूर्वपक्षमाहुः ननु क्वचिदित्यादि । विगानमिति विरुद्धं गानम् । कै गै शब्दे । विरुद्धः शब्दः कारणान्तरद्यु- रश्मिः । माए मातः अनेन सुखानुज्ञानार्थे प्रियोक्तिः सूच्यते । घरोव अरणं गृहोपकरणं तण्डुलादि, अनेनावश्यकरणीयत्वं सूच्यते । अज्जः अद्य, अनेन शीघ्रत्वं सूच्यते । खलु ण त्थिित्ति नास्तीति साहियं कथितम्, तुमए त्वया । अनेन मया व्याजो नोत्पादितः इति सूच्यते, ता तस्मात् भण, [L15