भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1065, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1065

एवमिति अनेके विरुद्धाः सदसदादयः शब्दास्तद्भाव्यत्वमपीत्यर्थः । लोकेति भाष्यं विवृण्वन्ति लोकप्रसिद्ध इति लोकः स्मृतिः मेनेऽसन्तमिवात्मानमिति तत्सिद्धो यस्तादृशः असत्स्वरूपो धर्मः तद्विशिष्टोयोऽसद्रूपः स्पष्टमन्यत् । तं यथेति भाष्यमवतारयन्ति लोकप्रसिद्धयेति लोकसिद्धार्था- ऽभावनेन । तेनेति असत्त्वेन प्रकारेण । तद्भावने ब्रह्मभावने । तादृशेति 'मृत्युरत्यन्तविस्मृतिः' इत्यत्यन्तविस्मरणरूपफलाप्तिः । न च लोकोक्तासच्छब्दे प्रतिपाद्यासत्त्वेन प्रकारेण ब्रह्मभावने तादृशफलामस्त्विति वाच्यम् । तादृशफलाभावप्रसङ्गात् । पुराणस्य क्षत्रतत्त्वेन तद्गुरुरीत्या भावनेनौप- निषदपुष्टिरूपं फलं भवेत् । असन्निति भाष्यं विवरीतुमाहुः तन्नोदाहरणमिति । मारक इति आदिपदेनाम्बष्ठचाणूरशलानां मारकः । मृत्युरपदार्थः मृत्युर्भोजपतेरिति वाक्यात् । मारकोपि भावना- न्वयीत्यभेदान्वयः । असन्त्स्यूरिरिति बृहदारण्यकात् । निगमयांबभूवुः एवमसत्त्वेनेति एवं पूर्वोक्तप्रकारेण एवं चासन्निति श्रुतौ स परमात्मा असन्मृत्युर्भवति योऽसद्ब्रह्म मृत्युरिति वेद स्मरति स भावयति स्मेति यावत् । स वेत्तेति नार्थः । 'ॐ तत् सत्' इति त्रिविधब्रह्मनिर्देशात् । नित्यानित्यसंयोगापत्तेश्च । न च य इत्यत्र नित्यानित्यसंयोग इति वाच्यम् । वेदसाधिदैविक- प्रतिपादकत्वात् । तद्धैक इत्यादीति । भाष्ये । सर्वप्रपञ्चवैलक्षण्यमसच्छब्दप्रवृत्तिनिमित्तम् । सत् सर्वप्रपञ्चः नञो वैलक्षण्यमर्थः । सद्विलक्षणत्वम् । तत् सत् असत् सर्वप्रपञ्चवैलक्षण्यविशिष्टम् । इदमित्युक्तप्रपञ्चाभेदकथनात् प्रपञ्चरूपोपि स इत्यर्थः । प्रकृते । इत्युक्तः पक्ष इति सत्पदोक्त- ब्रह्मणो विरुद्धधर्माश्रयत्वेन एके इत्यस्य मुख्यार्थकत्वेन च प्रथम इत्यर्थः । भाष्ये । अरूपवत्सूत्रोक्तं द्वितीयपक्षमाहुः अव्याकृतमिति । इदं रूपमिदं नाम इदमित्यव्याकृतम् । प्रकृते । वैलक्षण्यबोध- कमिति तथा च न तृतीयः पक्ष इति भावः । भाष्ये । नासदासीदिति न बसत् सद्विलक्षणो मृत्युः नो निषेधे न सद्ब्रह्मासीत् इति द्वयोर्निषेधेन हेतुना मनोरग्राह्यम् । नैवेह किंचनाग्र आसीत् । मृत्युनैवेदमावृतमासीत् इति काठकाग्रपदेन मृत्योश्च मृत्युरपदेनाभिधानात् । तदुक्तं बृहदारण्यके मनोमयब्राह्मणे मनोमयोयं पुरुषः भाः सत्यः तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा एवमय मन्तररात्मन् पुरुषः स एष सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किं च य एवं वेदेति मनोमयो मनःप्रायः भाः सत्यस्वरूपं यस्य स भाः सत्यः अन्तररात्मन् इत्यत्र सप्तम्या लुक् । वेदेत्यस्य सस्मार इत्यप्यर्थः । मनःप्रायपदेन टीकासनेन मनु अवबोधने असुन् । एवं भूतेन सत्यं ज्ञानमनन्तं ब्रह्म ज्ञानप्रधानम् न चान्नमयप्राणमयविज्ञानमयानन्दमयाः कुतो न गृहीता इति शङ्क्यम् । बृहदारण्यक एव अन्नं ब्रह्मेत्येक आहुः तन्न तथा पूयति वा अन्नमृते प्राणात् प्राणो ब्रह्मेत्येक आहुः तन्न तथा शुष्यति प्राणमृतेन्नादेते ह त्वेव देवते एकधामूयं भूत्वा परमतां गच्छत इति एकेनैत्रे दूषणात् । तत्तया न ग्रहीतव्यम् यथा प्राणाद्ब्रह्मकास्ते विनान्नं नै पूयति क्लिद्यत इति प्रसिद्धं तथा प्राणो ब्रह्मेत्येकेऽन्य आहुः तदपि न तथा न ग्राह्यम् । अतोन्नादहनीयात् कृमीरूपाद्वा ऋते प्राणः शुष्यति वै ह शोषमुपेतीति प्रसिद्धम् । ब्रह्म तु हेयदोषविवर्जितम् । एत एव तु देवते अन्नप्राणलक्षणे एकधामूयं एकभावं भूत्वा गत्वा परमतां महतां गच्छतः प्राप्तवत इत्यर्थः । विज्ञानमयो जीवो न सृष्टिकर्ता इत्यनुपयुक्तः । आनन्दमयस्तु नित्यलीलायां 'ब्रह्मन्नद्ये न जानन्ति नाहं तेभ्यो मनागपि' इति स्मृतेः । सृष्टिकर्तापि । विरुद्धधर्माश्रयत्वात् । इदमित्यत्रया ह्याप्रत्वाच्च । यत उक्तं तदपि ब्रह्मेति । तथा च श्रुतिः मनो ब्रह्मेति व्यजानात् मनसो ह्येव खल्विमानि