अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1066, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९१७ सर्वप्रपञ्चवैलक्षण्यम् । प्रपञ्चरूपोऽपि स इति प्रथमः पक्षः । अव्याकृतमसत्पक्षेण तुल्यम् । नासदासीदिति मनस्तदपि ब्रह्म, तम आसीदित्यनभिव्यक्तम् । कर्मणोऽपि भगवत्त्वात् । पूर्वकाण्डेऽपि तस्मादेव सृष्टिः । न हि तमसः स्वेन गूढत्वं लोके संभवति । अतः क्वचिद् विलक्षणात् क्वचिदविलक्षणाद् ब्रह्मणो जगत् । भगवत्त्वादेव स्वयं कर्तृकता च । संभवति चैकवाक्यत्वे भाष्यप्रकाशः। प्रथमः पक्ष इति सदेव सोम्येत्युक्तः पक्षः । असत्पक्षेण तुल्यमिति बैलक्षण्यबोधकम् । तमःशब्देन कर्माप्युच्यते । पूर्वमनभिव्यक्तत्वादित्यभिप्रेत्याहुः कर्मण इत्यादि । कर्मणस्तमः- शब्दवाच्यत्वे युक्तिः न हीत्यादि । शेषं स्फुटम् । एतेनैव यत्राधिकरणे शिवरुद्रभगवती- रश्मिः।