अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1068, कुल 2600 में से
संदर्भ में पढ़ेंअज्ञानान्निराकरणं चायुक्तम्। तस्माच्छन्दवैलक्षण्येन श्रुतिविप्रतिषेधो वक्तुं न शक्य इति सिद्धम् ॥ १५ ॥ इति प्रथमाध्याये चतुर्थपादे पञ्चमं समाकर्षाधिकरणम् ॥ ५ ॥ भाष्यप्रकाशः। अन्येतु स माकर्षादित्यस्य पूर्वप्रकृतपरामर्शादित्यर्थमाहुः। तन्मते भिन्नशब्दप्रयोगप्रयोजनं न किमपि स्फुटति। माध्वास्तु भगवद्रूपाणां शब्दानां जगति समाकर्षणमर्थमाहुस्तत्रापि तथा बोध्यम् ॥ १५ ॥ इति पञ्चममधिकरणम् ॥ ५ ॥ रश्मिः। वाक्यात्। शंकररामानुजभास्कराचार्यमतमाहुः अन्ये त्विति। पूर्वप्रकृतेति असद्वा इदमग्र आसीदिति नात्रासन्निरात्मकं कारणत्वेन श्राव्यते यतो— 'असन्नेव स भवति असद्ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः' ॥ इतीहासद्