अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1069, कुल 2600 में से
संदर्भ में पढ़ें११० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० ६ सू० १६ जगद्वाचित्वात् ॥ १६ ॥ (१।४।६) एवं शब्दविप्रतिषेधं परिहृत्यैार्थविप्रतिषेधं परिहरति कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे । बालाकिरजातशत्रवे ब्रह्मोपदेष्टुमागतः । आदित्यादि- दक्षिणेक्षिपुरुषपर्यन्तं परिच्छिन्नब्रह्मोपासनान्युक्त्वा तथा निराकृते तमेव ज्ञानार्थमुपससाद । ततः सुप्तपुरुषसमीपमुभावागत्य ब्रह्मवादं चक्रतुः । भाष्यप्रकाशः । जगद्वाचित्वात् ॥ १६ ॥ अधिकरणप्रयोजनमाहुः एवमित्यादि । शब्दविरोधकृतो यो ब्रह्मणि कारणत्वप्रतिषेधस्तं परिहृत्य अर्थविरोधकृतं तमनेनाधिकरणेन परिहरतीत्यर्थः । विषयमाहुः कौषीतकीत्यादि । गार्ग्यनामा बालाकिर्बलाकापुत्रोऽजातशत्रवे काशिराजाय रश्मिः । 'परस्य वाचकाः शब्दाः समाख्यान्तरेष्वपि । व्यवह्रियन्ते सततं लोकवेदानुसारतः' ॥ इति । 'वेदो य आकाशे तिष्ठन्नित्याद्यन्तर्यामिब्राह्मणम् । तत्कारणत्वेनेति पूर्वसूत्रे तथाहि । आकाशादिष्ववान्तरकारणत्वेनापि स एव स्थितः । यथा व्यपदिष्टसैव परस्य य आकाशे तिष्ठन्नित्या- दिना आकाशादिश्रुतेरिति जगति तु जगद्वाचित्वादिति सूत्रे तथाहि । तर्हि कथं तेषां शब्दानां जगति प्रसिद्धिः ॐ जगद्वाचित्वात् ॐ ......... जगति हि व्यवहारो लोकस्य न तु परमात्मनि तथा । अतो जगति प्रसिद्धिः शब्दानामिति । तथेति प्रसिद्धः प्रकारो दूषणं बोध्यम् । अयमभिप्रायो द्रष्टव्यः । मण्डूकोपनिषदि ॐ इत्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोंकार एव यच्चान्यत्त्रिकालातीतं तदप्योंकार एव सर्वं ह्येतद्ब्रह्म अयमात्मा ब्रह्मेति श्रुतेः । उक्त प्रकारः प्रसिद्धो न विषयः सूत्राणामिति संदिग्धस्यैव विषयत्वात् ॥ १५ ॥ इति पञ्चमाधिकरणम् ॥ ५ ॥ जगद्वाचित्वात् ॥ १६ ॥ शब्देति असदादिशब्दविरोधकृतः । अर्थेति जीवरूपोर्थः । कर्तृत्वकर्मत्वविरोधकृतम् । तमिति ब्रह्मणि कारणत्वप्रतिषेधम् । कौषीतकीत्यादीति कौषीतकिन इति रामानुजाचार्यभाष्यात्कौषीतकाः केचन सामवेदभेदाः सन्ति । तथा च चरणव्यूहे सामवेदस्य सहस्रमासीत्तेष्वनध्यायेष्वधीयानास्ते शतक्रतुना वज्रेणाभिहताः । शेषांस्त्वाख्यास्यामः तत्र राणायनी- यानां सप्तभेदा भवन्ति राणायनीयाः शाठ्याः मुग्ध्याः कौलोपाः महाकौलोपा लाङ्गलीयनाः शार्दूलाः कौथुमाश्चेति अत्र कौषीतका न गणिताः अतः शतक्रतुहतेषु भेदोयं द्रष्टव्यः । इदं यत्पूर्वं ब्राह्मणं कौषीतक्याख्यं तदधुना शंकराचार्यादिभाष्येषु प्रसिद्धम् । न च बालाकिब्राह्मणमिदमग्रे एकदेशस्य व्याख्याने पृथक्तया तस्योपादानात् । ते च कौषीतकिनः केशधारिणः । 'कौषातकः कपेः' इति विधानात् । तालव्यस्य मूर्धन्यः आकारस्येकारश्चान्दसौ यथा लोके शाण्डिल्यपदं वेदे तु षाण्डिल्यपदं तद्वत् । लोके मूर्द्धन्यादिर्वेदे तालव्यादिरेवमत्र वेदे मूर्धन्यषकारमध्ये । लोके तु तालव्यशकारमध्ये इत्यपि द्रष्टव्यम् । गार्ग्योपनामेति गर्गसगोत्रापत्यं गार्ग्यः तन्नाम गर्ग इति तत् षष्ठब्राह्मणे ब्राह्मणे नैकवाक्यताप्यत्रोक्ता गार्ग्यपदेन दृप्तबालाकिर्हानूचानो गार्ग्य आस इति श्रुतेः । बलाकेति अत इञ् । बलाकाया अपत्यमिति विग्रहे स्त्रीभ्यो ढक् स्यात् कश्चित्सामणिको ज्यानंण्ड