अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1070, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९३१ भाष्यप्रकाशः । ब्रह्मोपदेशं स्वकीयेर्थे स्वत एवागतः आदित्यचन्द्रविद्युत्स्तनयित्नुवाय्वाकाशाग्नयादर्शच्छायाप्रति- श्रुत्काहृन्मण्डलशरीरदक्षिणाक्षिसव्याक्षिषु यः पुरुषस्तत्पर्यन्तं यान्युपासनान्युक्तवान् यथा आदित्य- निष्ठपुरुषस्य बृहत्पाण्डरवासा अतिष्ठाः सर्वेषां भूतानां मूर्धेत्येवं गुणकोपासने अतिष्ठाः सर्वेषां मूर्धा भवतीति परिच्छिन्नं फलम् । तथान्यत्रापि तत्तद्गुणकोपासने तत्तत्परिच्छिन्नफलमजातशत्रुणा तस्मा उक्तमिति तादृशानि परिच्छिन्नब्रह्मोपासनानि तान्युक्त्वा ततो राज्ञा उक्तप्रकारेण तदुक्ते प्रकारे निराकृते बालाकिस्तमेव पूर्णब्रह्मज्ञानार्थमुपससाद शिष्यत्वेन समित्पाणिर्निकटे गतः । ततो राजा स्नेहेन हस्ते तं गृहीत्वा सभात उत्थाय क्वचिदेकान्ते सुप्तपुरुषसमीपमुभावागत्य, बृहत्पाण्डरवासः सोमराजमित्यादिभिः संबोधनैरेतं राजा संबोधयाञ्चक्रे तदापि तं सुप्तं दृष्ट्वा रश्मिः । प्रवृत्तिरित्यगतिकगतिः न च वंशब्राह्मणे । बलाकाकौशिकाद्बलाकाकौशिक इति बलाकाशब्दो न बलाक- शब्द इति शङ्क्यम् । समाप्तौ काश्यपीबालाक्यमाढरीपुत्रात् काश्यपीबालाक्यमाढरीपुत्र इत्यत्र बलाक- शब्दस्य स्वार्थे ण्यन्तस्य सत्त्वात् । स्त्रीलिङ्गशब्दात् ण्यञः प्रसिद्धेः । स्वेति दृप्तबालाकिमेकवाक्यार्थं वक्ष्यन्ति 'अन्वयार्थं तु जैमिनिः' इति सूत्रे तत्रत्यदर्पसत्त्वं ब्रह्मवित्त्वाद्दर्पित्वं तदत्राप्येकवाक्यार्थत्वाय च वक्तव्यमित्याशयेन स्वकीयेर्थमिति । आदित्यचन्द्रेत्यादिभाष्यार्थमाहुः आदित्येति सहोवाच गार्ग्यः य एवादित्ये पुरुषः एतमेव ब्रह्मोपास इत्येवंविधेषु । अत्र पुरुषपर्यन्तमिति भाष्याद्य एवादित्ये पुरुष इत्युपासना तमेव ब्रह्मोपास इति तदनुवाद उपासनाव्याख्यानादवग्रह इतिवत् ज्ञानमुपासना । आदित्यपुरुष इति श्रुतं श्रवणं प्रति उल्लीकृत्य यः शब्दः स प्रतिश्रुत् स इवेति प्रतिश्रुत्कः स च शब्दश्चेति स च दृप्तबालाकिब्राह्मणे य एवायं यन्तं पश्चाच्छब्दोऽनुदेत्येतमेवाहं ब्रह्मोपासे इत्युक्तः । यन्तं गच्छन्तं पुरुषं अनुदेति उत्पद्यते प्रतिश्रुत्का शब्देति पाठे प्रतिश्रुत्का टाप् । शब्दश्च । यानीति दृप्तबालाकिब्राह्मणे च स होवाच गार्ग्यः य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपासे इति । खसंघाते कर्ता भोक्तेत्येवमुपासे । स यश्चायं पुरुषे यश्चासावादित्ये स एक इति भृगूपनिषत्कात् । तान्होवाच मा मैतस्मिन् संवदिष्ठा इति । एतस्मिन् संघाते । यानि अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपासे इत्युपासनान्यजातशत्रुरुक्तवानित्यर्थः । बृहत्पाण्डरवासा इति दृप्तबालाकिब्राह्मणे । अतिष्ठाः सर्वेषां भूतानामिति श्रुतौ बृहत्पाण्डरवासा नास्ति । अतिष्ठा इति स य एतमेवमुपास्ते इति श्रुतेः अस्याः श्रुतेः शेषश्रुतिमाहु अतिष्ठा इति । परिच्छिन्नमिति । सर्वभूतातीतत्वं सर्वपूज्यत्वं राजत्वं च । अतीत्य सर्वाणि भूतानि तिष्ठतीत्यतिष्ठाः सोऽतिक्रान्तो तिष्ठ इति वा । अन्यत्रेति चन्द्रादिषु । तत्तद्गुणकेति । यथा दृप्तबालाकिब्राह्मणे बृहत्पाण्डरवासाः सोमो राजेत्येवंगुणकोपासने परिच्छिन्नफलं तु अहरहःसुतः प्रसुतो भवतीति श्रुत्युक्ता अस्योपासकस्य प्रकृत्यात्मके यज्ञे अहरहः किल सोमः सुतः कृताभिषवो भवति विकृत्यात्मके च यज्ञे प्रसुतः प्रकृष्टं सुतरां स्तुतो भवति सुतो भवतीति वा । उभ- यविषयानुष्ठानसामर्थ्यं भवतीत्यर्थः । एवमन्यत्र विद्युदादिषु । तस्मा इति बालाक्ये । परिच्छिन्न- मेति भाष्यं विवृण्वन्ति स्म परिच्छिन्नेति । तथा निराकृत इति भाष्यार्थमाहुः तत इति । उक्तेति यथा आदित्यनिष्ठपुरुषस्येत्याद्युक्तप्रकारेण । तदुक्त इति बालाक्युक्ते कर्तृभोक्तृत्वेन खसंघात उपासनप्रकारे निराकृते । तमेवेति भाष्यार्थमाहुः बालाकिरिति । तमजातशत्रुम् । उपेति यच्च दृप्तबालाकिब्राह्मणे स होवाच गार्ग्य उप त्वायानीति त्वा त्वामजातशत्रुम् । ततः सुप्तेति भाष्यं विवृण्वन्ति स्म । ततो राजेति । बृहत्पाण्डरवासः शुक्लावासः । इत्यादीभिरिति कौष