अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1077, कुल 2600 में से
संदर्भ में पढ़ेंप्रकृत्यंशोऽतो जडादेव प्रधानात् सुषुप्तावपि सर्वोत्पत्तिः। अतोऽस्मात् प्रकरणाज्जी- वद्वारा साक्षाद्वा प्रकृतेः कारणत्वमित्येवं प्राप्ते उच्यते तद्व्याख्यातम् । एतयो- रुभयलिङ्गत्वमेव नास्तीति, आश्रितत्वादिति तयोगादित्यत्र सर्वमेव कार्यं भगवत एव नान्यस्यादिति। अतोऽस्माद् ब्रह्मवाद एव सिद्ध्यति, न प्रकृतिवादः ॥ १७ ॥ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १८ ॥ स्वमतेन परिहारमुक्त्वा नियतधर्मवादेनापि परिहारमाह । स्वापप्रति- बोधौ जीवधर्मावेव । चक्षुरादिलयाधारत्वं प्राणस्येति । तस्मिन्नपि पक्षे अन्यार्थं तद्धर्मकीर्तनम् । भेदे हि तन्निराकरणमवश्यं कर्तव्यमिति तुशब्दः। ब्रह्मप्रति- स्यात्वमित्युपरम्यते ॥ १७ ॥ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १८ ॥ अत्र सांख्यमतमाचार्यदेशीयानामन्येषामप्यनुमतं न भवतीति ज्ञापनार्थं सूत्रप्रयोजनमाहुः स्वमतेने- त्यादि । नियतधर्मवादस्वरूपमाहुः स्वापेत्यादि । परिहारमाहुः तस्मिन्नित्यादि । यस्मिन् पक्षे देवा देवेभ्यो लोका इति च। प्राणवृत्तयोऽपानादयः प्रतिष्ठन्ते जागरिते परीक्ष्यकैरुपलभ्यन्ते । ननु प्राणोऽस्तु परं तु ब्रह्मणोऽनुप्रवेश उक्तः। तस्मादेवात्मनः सकाशात्प्राणप्रतिष्ठायुक्तम् । तथा च शंकराचार्यभाष्यं 'परस्माच्च ब्रह्मणः प्राणादिकं जगज्जायते' इति वेदान्तमर्यादेति चेत्तत्राहुः विद्यमानादिति । प्राणादिति वृत्तौ मरीचिकाख्यायां लालुभट्टकृतायां वृत्तावप्येवम्। प्राणे विद्य- मानाद् ब्रह्मणः सत्यत्वादिवत् कर्तृत्वरूपमादित्यर्थः अत एव एतस्मादात्मन इति श्रुतावात्मपदं प्राणेष्वात्मपदाभावात् । भाष्यं चातः सुषुप्तावपि ब्रह्मण्येव लयस्तस्मादेव सर्वं ज्ञातव्यमिति स च प्राणः प्रकृत्यंशः । प्रकृतेर्मायारूपाया महत्तत्त्वं महत्तत्त्वादहंतत्त्वं तस्मात्तामसाहंकाराच्छब्दः ततः खं ततः स्पर्शस्ततो वायुरिति प्रकृत्यंशः समष्टिप्राणः व्यष्टीनां प्राणा अपि प्रकृत्यंशाः । सांख्य आह अत इति यतो भवतामेवमतोऽस्माकमपि जडादेवेत्यादिः। अतोऽस्मादिति । कौषीतकिप्रकरणात् । जीवद्वारेति प्रकृतौ प्रतिबिम्बो जीवस्तस्मात्सर्वम् । साक्षादिति 'प्रधानाज्जगज्जायते' इति । एतयोरिति लिङ्गयोः । प्रकरणस्योपपादने उभयलिङ्गत्वमेव नास्तीति उभयलिङ्गत्वाभावो व्याख्यातः केत्याकाङ्क्षायामनुगमा- धिकरण इत्याहुः आश्रितत्वादिवेति कथं व्याख्यातमित्याहुः सर्वमिति । नन्वेवं सति प्रतर्दन- वाक्यनिर्णयेनैवेदमपि वाक्यं निर्णीयेत न निर्णीयते यस्य वै तत्कर्मेत्यस्य वाक्यस्य ब्रह्मविषयत्वेन तन्नान्यथाचरितत्वात् तस्मादत्र जीवमुख्यप्राणाशङ्का पुनरुत्पद्यमाना निवर्त्यते । सिद्धमाहुः अत इति शक्त्यार्थादसाधारणत्वात् । एवं निगदव्याख्यातमित्यर्थः ॥ १७ ॥ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १८ ॥ अत्र जैमिनिम- तोक्तेः प्रयोजनं वक्तुमाहुः अत्र सांख्येति । आचार्यदेशीयानामिति ईषदूना आचार्या आचार्यादेशीयाः 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' इति सूत्रेण देश्यप्रत्ययः। अन्येषामित्याचार्यदेश्यत्वं प्रलविकर्तुं स्फुटमेव दूषणात् । अन्येषामिति जैमिनीयानाम् । नियतेति स्वापप्रतिबोधौ जीवस्यैव चक्षुरादिलयाधारत्वं प्राणस्येति नियतधर्मवादः 'तत्वभावं बादरायणस्तथाद्युपलब्धेश्च' इति सूत्रे