भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1099, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1099

९५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० ७ सू० १९ सर्वव्यवहारस्य तन्मूलकत्वेन पूर्वमुक्तत्वात् । विषयस्पर्शो विज्ञातृत्वमपि तस्यैव । भाष्यप्रकाशः। उदाहृतजातीयैः श्रुतिसहस्रैस्तथा प्रतिपादनादिदमपि वाक्यं ब्रह्मपरमेवोचितमित्यर्थः । ननु सुखमेवं, तथापि मात्रासंसर्गस्त्वस्य भवतीति विषयसंसर्गरूपेण लिङ्गेनात्र जीव एव वक्तव्योऽन्यथा तद्विरोधस्य दुर्वारत्वादित्यत आहुः सर्व्वेत्यादि । पूर्वमिति । जीवमुख्यप्राण- लिङ्गादिति । तथाच जीवस्य ब्रह्माभितत्वान्‍जीवधर्मा ब्रह्मण्युच्यन्त इति विषयस्पर्शोऽप्युपपद्यते । न त्वेतावतात्र जीववाक्यत्वम् । विज्ञातृत्वं तु ब्रह्मधर्म एव । नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतेः । रश्मिः । च रसरूपत्वमेतस्य ज्ञानं तु भक्त्येत्युक्त्यान्यनिष्ठभक्तिरसविषयं च शास्त्रार्थनिरूपकद्वितीयस्कन्ध- नवमाध्यायोक्तमिति आनन्दाद्ध्येवेति कार्यं माहात्म्यज्ञानाय तेन सुबोधिन्‍युक्तस्य— 'माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्न चान्यथा' ॥ इति श्रुतिवाक्यद्वयेन सिद्धम् । आनन्दस्य प्रियशिरस्त्वादिकमानन्दमयाधिकरणे प्रपञ्चितम् । सर्व एवात्मान इत्यांशाः आत्मपदवाच्या जीवाः अंशो नानाव्यपदेशादिति सूत्रात् । एष ह्येवा- नन्दयातीति फलमानन्दस्य फलत्वात् । एतच्चतुष्टयादित्यर्थः । सजातीयैरिति सजातीयत्वं च भक्तिरसविषयब्रह्म-भक्तिजनकमाहात्म्य-जीव-फलेतिचतुष्टयप्रतिपादकत्वेन । श्रुतीति यथा अन्तस्त- द्धर्माधिकरणे छान्दोग्ये प्रथमप्रपाठके य एषोन्तर्रादित्ये हिरण्मयः पुरुषो दृश्यते इति स एष सर्वेभ्यः पाप्मभ्य उदित इति भक्तिजनकमाहात्म्यं, उदेति ह वै सर्वेभ्यः पाप्मभ्य इति फलम् । य एवं वेदेति जीवः । तमेव विदित्वेति समानम् । यथा तल्लिङ्गाधिकरणे छान्दोग्ये प्रथमप्रपाठके सर्वाणि ह इमानि भूतानि आकाशादेव समुत्पद्यन्त इति भक्तिजनकमाहात्म्यं परोवरीयसो ह लोकान् जयति इति फलं य एतदेवं विद्वान् परोवरीयांसमुद्गीथमुपास्ते इति जीवः । तमेव विदित्वेति समानम् । यत्रातिदेशाधिकरणे तत्रैव कतमा सा देवता प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमे- वाभिसंविशन्ति प्राणमुज्जिहते इति भक्तिजनकमाहात्म्यं तांश्चेदविद्वान् प्रस्तोष्यसि इति जीवः, मूर्द्धा ते व्यपतिष्यदिति फलम् । लृट् । न त्वं प्रस्तोष्यसि न ते मूर्द्धा व्यपतिष्यतीत्यर्थः । तमेव विद्वानिति समानं इत्येवं श्रुतिसहस्रैरित्यर्थः । तैश्चासंदिग्धैः निःसंदिग्धत्वमिति भाष्यात् पूर्वं संदिग्धत्वेपि केषुचिच्छ्रुतिवाक्येषु न्याय(सूत्र)प्रापणानन्तरमंसदिग्धत्वमिति श्रुतिसहस्राणां निःसंदिग्धैरितिभाष्ये विशेषणं तथा भाष्ये ब्रह्मणः स्वरूपं तमेव विदित्वेति श्रुत्युक्तं भक्तिविषयं तं लोकवेदप्रसिद्धं पुरुषोत्तममिति पुरुषोत्तमरूपम् । ॐ स्वराट् जन्माद्यस्य यतोन्वयादितरतश्चेति वाक्यात् । इमानि भूतानीति कार्यं प्रसिद्धमंशा जीवा इति प्रसिद्धं चकारेण फलम् । तत्परं ब्रह्मपरम् । प्रकृते । तद्विरोधस्येति विषयवाचकमात्रापदवाच्यमात्रासंसर्गविरोधस्य । सर्व्वेत्यादीति सर्वो यो 'व्यवहारः सन्निपातो मनोमात्रेन्द्रियासुभिः' अहंममेति मतिः अहमित्यस्मत्प्रत्ययः ममेत्यस्मत्प्रत्ययगोचरसंबन्धिनो जीवजडधर्मांस्ते तत्रैव 'जीवमुख्यप्राणलिङ्गादिति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्' इति सूत्रभाष्ये दर्शिततद्विषयिणी मतिर्या सापि व्यवहारस्तस्य ब्रह्म मूलं परंपरा च यत्साक्षात्साक्षात्कारणं व्याख्यानात् स तन्मूलको व्यवहारस्तस्येत्यर्थः । अत्रेति मैत्रेयीब्राह्मणद्वये । विज्ञातृत्वमितिभाष्यं विवृण्वन्ति विज्ञातृत्वमिति । अत इति ब्रह्मणः । भाष्ये । तस्येति साकारब्रह्मणः । अत्र पक्षे तन्मूलकत्वेनेति भाष्यस्य तानि ब्रह्मणः स्वरूपकार्यांशफलानि मूलानि कारणानि यस्य व्यवहारस्य स 1002