अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1104, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९५५ गौणप्रियवैराग्यार्थं च जीवोपक्रमः कर्तव्य एवेति औडुलोमिराचार्यो मन्यते । तस्माद् भिन्नजीवपक्षेऽपि नात्र दूषणम् ॥ २१ ॥ अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥ लिङ्गमित्येव । भगवत एवावस्था जीव इति । अतः संसारदशायामपि जीवो ब्रह्मेति नानोत्क्रमणमनुपचारो वा । अन्यथा कथमात्मनस्तु कामाय सर्वं भाष्यप्रकाशः । प्रक्षिप्यते तदा गृहस्थं भवति । तथा जीवोऽपि संघाताद् बहिर्भूय यदा साक्षात्संबद्धः स्यात् तदा मुच्येतेति संघाताद् भिन्नत्वबोधनार्थमेव जीवोपक्रमः । सा हि मोक्षेच्छुर्विद्यां पृच्छति । तद् यदि तस्यै मोक्षयोग्यं जीवस्वरूपं न ज्ञापयेत् सैव कथममृता भवेत् । अतो, येनाहं नामृता स्यामित्यादिकं तद्वाक्यमेवैवं कथनस्य युक्तिलिङ्गत्वे गमकमित्यर्थः । त