भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1105, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1105

९५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० ७ सू० २२ प्रियं भवतीति । न ह्यन्यस्य सर्वं प्रियं भवति । मोक्षस्तु ज्ञानमेव । उत्तरत्र कर्त्तव्याभावात् । अवस्थया व्यवसायात् सिद्धान्ताद्विशेषः । इतिशब्देनैतावदरे खल्वमृतत्वमित्युपसंहारो हेतुरस्य पक्षस्येति काशकृत्स्नो मन्यते । तस्माज्जीवो- पक्रमो, भगवत एवावस्थाविशेषो जीव इत्यस्य पक्षस्य लिङ्गम् । तस्मान्मैत्रेयी- ब्राह्मणेनापि जीवद्वारा प्रकृतिकारणत्ववादिसिद्धिरिति सिद्धम् ॥ २२ ॥ इति प्रथमाध्याये चतुर्थपादे सप्तमं वाक्यान्वयाधिकरणम् ॥ ७ ॥ भाष्यप्रकाशः । बोधनीयं न स्यात् तदा, आत्मनस्तु कामाय सर्वं प्रियं भवतीति सर्वभोक्तृत्वमात्मनो न वदेत् । ब्रह्मातिरिक्तस्य सर्वभोक्तृत्वाभावेन सर्वस्मिन् प्रियत्वाभावात् । अतः सर्वभोक्त्र्येकस्मिन्नात्मनि वक्तव्ये प्रतिनियततत्तद्विषयभोक्तारं तदवस्थाविशेषमुपक्रमे वदति । तथाच सर्वप्रियत्ववाक्यमेव तद्गमकमित्यर्थः । येनाहं नामृता स्यामिति मोक्षार्थं पृष्टात् तत्रानुत्तरे तदपूर्तिरित्याशङ्कायां तन्मतेन समाधिमाहुः मोक्ष इत्यादि । सिद्धान्ताद् विशेष इति सिद्धान्ते [तूपपत्तिपक्षादरात्सर्वं नित्यं यथास्थितमेव ब्रह्मरूपं तेन कालकृतविशेषरूपयाऽवस्थया न तादृशरूपव्यवसायः । अत्र त्ववस्थया व्यवसाय इति सिद्धान्ताद्विशेष इत्यर्थः ] स्वंशत्वे व्यवसाय इति तथा । अस्य पक्षस्येति ज्ञानमेव मोक्ष इति पक्षस्य । शेषमतिरोहितार्थम् ॥ २२ ॥ इति सप्तमाधिकरणम् ॥ ७ ॥ रश्मिः । जीवे । प्रकृते । न ह्यन्यस्येति भाष्यं विवृण्वन्ति ब्रह्मातीति । प्रियत्वेति भोक्तृत्वनिबन्धनप्रि- यत्वाभावात् । भाष्ये । अस्य पक्षात्पूर्वत्वाद्धेतुमाहुः इतिशब्देनेति । हेतुरिति । इति शब्दार्थे तृतीयार्थः । प्रकृते । ज्ञानमेवेति श्रुतावेतावत्पदेन पूर्वोक्तज्ञानमनूद्यामृतत्वविधानात् । 'आत्मा वा अरे द्रष्टव्यः' इति ब्रह्ममात्रविषयकं तत् । इति पक्षस्येति इत्येवं सर्वस्य काशकृत्स्नपक्षस्य आश्मरथ्यौडुलोमिमतयोः सूत्रान्तरसत्त्वात् । अतिरोहितेति भाष्ये । काशकृत्स्नमतसिद्धमाहुः तस्मादिति उपसंहारस्यार्थनिर्णायकत्वात् । अधिकरणसिद्धमर्थमाहुः तस्मादिति । ब्रह्मैकदे- शिवादात् । जीवद्वारेति 'अपरेयमितस्त्वन्यां' 'जीवभूताम्' इति गीतायाः काशकृत्स्नमते त्वियं शक्तिः संसारदशापन्नापि इत्येवमतिरोहितार्थम् । शंकराचार्यमते पूर्वसूत्र एव पूर्वपक्षः सिद्धान्त- स्त्वृषिमतभेदात् । मध्वास्त्वत्राध्यायसमाप्तिवाक्यशब्दाक्षराणां ब्रह्मणि समन्वयमाहुः । रामानुजा- चार्यास्तु सांख्यात्मा वा परमात्मा वेति संशयमाहुः । भास्कराचार्यास्तु शंकराचार्यवत् पूर्वसूत्रं व्याख्याय वाक्यं नामैकार्थप्रतिपादनपरं विभज्यमानमाकाङ्क्षावत्पदं पदजातमुच्यत इति वाक्य- लक्षणमुक्त्वा त्रिसूत्र्यां भेदाभेदावुक्त्वा प्रतिपादिता भेदे भेदोपीत्याहुः भेदोप्यस्ति यतः संसारी न कदाचिन्मुक्तपूर्वः । तस्य मुक्त्यर्थं विश्वोपदेशोर्थवानिति त देतन्नातिविरुद्धम् । माध्वोक्तवाक्यान्वयः श्रुतिषु स्मृतिषु च स्पष्ट इति न सूत्रविषयवाक्यत्वमर्हतीति भाष्ये प्रकाशे नानूदितानि मतानीति ज्ञेयम् । रामानुजभाष्ये तु काशकृत्स्नमतेन व्याससिद्धान्तसमाप्तिस्तदेकदेशिमतवाक्यं विरुणद्धि । भास्करभाष्येपि 'आसीज्ज्ञानमयो ह्यर्थः' इत्यस्य विरोधः । जीवानार्माप सत्त्वात् ॥ २२ ॥ इति सप्तममधिकरणम् ॥ ७ ॥ 1008