अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1106, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९५७ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥ (१।४।८) एवं प्रकृतिकारणवादनिराकरणेन ब्रह्मण एव कारणत्वे सिद्धेऽप्यर्धजरती- यतयोभयस्थापनपक्षं परिहर्तुमधिकरणमारभते । भाष्यप्रकाशः । प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥ अधिकरणप्रयोजनमाहुः एवं प्रकृती- त्यादि । आनुमानिकाधिकरणमारभ्य वाक्यान्वयाधिकरणान्तग्रन्थे आद्यैस्त्रिभिः सांख्यमतस्या- शब्दत्वसाधनात् प्रकृतिकारणवादनिराकरणेन, यथाव्यपदिष्टाद्यधिकरणत्रये श्रुतिविप्रतिषेधपरि- हाराद्, वाक्यान्वयाधिकरणे जीवब्रह्मवादनिराकरणात् पुरुषच्छायायुक्तप्रकृतिकारणवादनिराकरणेन ब्रह्मण एव जगत्कारणत्वे सिद्धेऽपि ब्रह्मणो निर्विकारत्वात् कार्ये त्रिगुणात्मकत्वादिसंदर्शनाच्च ब्रह्मणो निमित्तत्वं, स्मृतिसिद्धस्य प्रधानस्य समवायित्वमित्यभ्युपेयम् । यदि च श्रौत एवाग्रहस्तदाऽपि श्वेताश्वतरादावजावाक्यस्थस्याजापदस्य छागीशरीराभिधायकत्वाच्छागीशरीरां यथा तदधिष्ठातृ- च्शरीरात्मकशक्तिविधया नानाप्रजाजनकं, तथा सांख्योक्तं प्रधानमपीश्वरोपाधिभूतं समाना- विधप्रजाजनकमित्येतमर्थं रूपकातिशयोक्त्या बोधयितुं शक्नोति । यदि चेदं नोपेयते तदापि, रश्मिः । प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥ सांख्यसिद्धान्तीयप्रकृतिनिराकरणात् स्मृताया गीतोक्तायाः 'अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूताम्'इति जीवरूपायाः उपेक्षानर्हत्वात् प्रसङ्गसंगत्या निरूपणमित्याहुः वाक्यान्वयाधिकरण इति । जीवब्रह्मेति । 'भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा' ॥ इति गीतायामष्टसु प्रकृतिपदम् । कपिलसांख्यप्रवचनसूत्रवृत्तौ विषयाध्याये 'सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान् महतोऽहंकारात् पञ्चतन्मात्राण्युभयमिन्द्रियं स्थूलभूतानि पुरुष इति पञ्चविंशतिगुणाः' इति सूत्रम् । तत्र पुरुषो जीवः । गीतायाम् 'अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत्' ॥ इति नवमी प्रकृतिः । स जीवब्रह्मवादः अंशत्वाज्जीवस्य तदभेदेनोपक्रम्य मैत्रेयीब्राह्मणे तस्य निराकरणात् । पुरुषच्छायेति पुरुषो जीवः सांख्योक्तः । छायाऽर्कयोषिद् युक्ता प्रकृतिर्जगत्कर्त्री व्यामोहिका च ताभ्यां युक्तो यः प्रकृतिकारणवादः तस्य निराकरणेन । यद्वा । पुरुषो महत्तत्त्वं तस्य छाया प्रतिबिम्बो जीवः तेन युक्तो यः प्रकृतिकारणवादस्तस्य निराकरणेन । अर्धजरतीयतयेत्यादि भाष्यं विशदयन्ति ब्रह्मणो निर्विकारत्वादिति । एवमपि चिन्तामण्यादिवदविकृतं ब्रह्म कारणमिति चेत्तत्राह कार्ये त्रिगुणेति । स्मृतीति सांख्यस्मृतिसिद्धस्य 'प्रधानाज्जगज्जायत इति' इति सूत्रं स्मृतिः। अभ्युपेयमिति कार्ये त्रिगुणात्मकत्वायाभ्युपेयम् । अजेति अजामेकां लोहितेत्यादिवाक्यस्थस्य । छागेति कल्पनोपदेशसूत्रभाष्ये व्युत्पादितम् । छागीति पाठे जातित्वं विवक्ष्य यथाकथंचित्प्रयोगः । अजा शरीराधिष्ठाता जीवः तस्य शरीरालम्बशक्तिस्तत्कर्मार्जितत्वात् । अतस्तद्विधया । रूपकेति १२१ ब्र० सू० २० 1009