भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1107, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1107

भाष्यप्रकाशः । 'यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतो देव एकः समावृणोति स नो दधातु ब्रह्माव्य- यम्' इति तत्रत्यवाक्यान्तरे तन्तुनामशरीरस्य दृष्टान्तितत्वेन तन्तूनां प्रधानजत्वकथनेन च ईश्वरशरीरात्मकप्रधानांशैः शरीरैर्जीवानावृणोतीति सिध्यति । अत एव, 'कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः' इत्यपि कचिदुच्यते तेन शुद्धसत्त्वात्मिका ईश्वरोपाधिः । रजस्तमोमिश्र- मलिनसत्त्वात्मिका जीवोपाधिरित्युपाधिविभागोऽपि युज्यते । अत ईश्वराऽधिष्ठिता तच्छरीरभूता प्रकृतिरपि कारणम् । नच सा प्रथमकार्यरूपेति युक्तम् । चूलिकोपनिषदि, 'विकारजननीं मायामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासितां तेन तन्यते प्रेर्यते पुनः ॥ सूयते पुरुषार्थश्च तेनैवाधिष्ठिता जगत् । गौरनाद्यन्तवती जनित्री भूतभाविनी' ॥ इति । श्रावणेन तद्विरोधात् । नच माया काचिदतिरिक्तेवेति वाच्यम् । विकारजननी- मित्यनेन षोडशविकारजनकत्वस्य, अष्टरूपामित्यनेन प्रकृतिप्रकृतिविकृतिभेदेनाष्टरूपत्वस्य प्रकृतिधर्मस्य तस्यां श्रावणेन, श्वेताश्वतरे 'मायां तु प्रकृतिं विद्यात्' इति श्रावणेन, गीतायामपि, 'दैवी ह्येषा गुणमयी मम माया' इति, 'सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः' इति स्मरणेन च मायाशब्दस्य पर्यायतायामेव पर्यवसानात् । श्वेताश्वतरे, 'कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम्' इति सर्वान् वादानपास्य, 'ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम्' इति परमेश्वरशक्तेः स्वगुणनिगूढत्वश्रावणान्मैत्रायणीयोपनिषदि च, 'तमो वा इदमग्र आसीदेकं तत्परे स्यात् तत्परेणेरितं विषमत्वं प्रयात्येतद्रूपं वै रजस्तद्रजः खल्वीरितं विषमत्वं प्रयात्येतद्वै सत्त्वस्य रूपम्' इति श्रावणाद् गुणा अपि सत्त्वाद्य एव ग्राह्याः । अतः पूर्वोक्तन्यायैः सिद्धेऽपि ब्रह्मणः कारणत्वे शरीराख्यशक्तिरूपां तां विना कारणत्वानिर्वाहाद्भावादर्धजरतीयतया मायायाः समवायित्वं, ब्रह्मणो निमित्तत्वमित्युभयकारणत्वस्थापनपक्षपरिहारः प्रयोजनमित्यर्थः । एवं सति श्रुत्युक्तत्वाविशेषात् समवायिकारणं, प्रकृतिर्निमित्तकारणं ब्रह्म ? उत सर्वविधं कारणं रश्मिः । 'रूपकातिशयोक्तिः स्यान्निगीर्णाध्यवसानतः । पश्य नीलोत्पलद्वन्द्वात्रिःसरन्ति शिताः शराः' ॥ इति । ननूक्तमजापदं सृष्टिलक्षकमिति चेत्तत्राहूः यदि चेदमिति । कचिदिति तत्त्वानुसंधान- ग्रन्थादावुच्यते । अष्टरूपां गीतोक्ताम् । अध्यासितामिति ब्रह्मणाऽध्यासाख्यसंबन्धेन संबद्धाम् । अथ वा अन्यसंबन्धेन संबद्धाम् । गौरिति गौरनादवती सा त्विति पाठस्त्वन्यतः । प्रकृतीति एका प्रकृतिः सप्तप्रकृतिविकृतयः । इति श्रावणेनेति अभेदश्रावणेन । न्यायाः सूत्राणि । कारणतेति कुठालादौ तथाऽदर्शनादिति भावः । अर्धजरतीयेति समन्वये सति जीवपरमात्मा श्लक्ष्ण तलक्षणं जगदभिन्ननिमित्तोपादानत्वमत्रार्धजरतीयम् । अर्धनारीश्वरवत् । निमित्तं ब्रह्म समवायी 1010