अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1108, कुल 2600 में से
संदर्भ में पढ़ेंननु ब्रह्मकारणतां न निराकुर्मः श्रुतिसिद्धत्वात् । किंतु समवायिकारणं प्रकृतिरेव । कार्यकारणयोर्वैलक्षण्यात् । समवायिकारणानुरोधि हि कार्यम् । अन्यत् सर्वं भगवानस्तु । अपेक्ष्यते च समवायिनिमित्तयोर्भेदः । कर्मण्यपि श्रुतिस्मृतिसमवायो धर्मे । एवं ब्रह्मवादेऽपि स्मृत्युक्ता प्रकृतिः समवायिकारणम् । भाष्यप्रकाशः । ब्रह्मेति संशयः । स च प्रयोजनकथनादर्थादेव लभ्यते इत्यतो नोक्तः । पूर्वपक्षमाहुः नन्वित्या- दीत्यादि । कार्यकारणयोर्वैलक्षण्यं व्युत्पादयति समवायीत्यादि । तथाच कार्येषु कचिद् रजसः, क्वचित् तमसः क्वचित् त्रयाणामपि गुणानां प्रकाशप्रवृत्तिनियमादिभिरनुवृत्तिदर्शनाद्देवत्वतुच्छत्वा- देर्दर्शनाच्च कार्यमात्रं प्रकृत्यनुरोधीत्यतः प्रकृतिरेव समवायिकारणमित्यर्थः । ननु सत्तायाः सर्वत्रानुवृत्तिदर्शनाद् ब्रह्मणोऽपि समवायित्वमस्तु, किं बाधकमित्यत आह अपेक्ष्यते चेत्यादि । यदि हि भगवतः समवायित्वं स्यात् तद्गुणा अपहतपाप्मत्वादयः स्वरूपधर्माः सच्चिदानन्दाश्चानुवर्तेरन् । नचात्र भगवत्सत्तानुवर्तते । प्रतीयमानायास्तस्या भावविकारत्वेन ब्रह्मधर्मत्वाभावात् । किंच । यदि भगवान्नेव समवायी निमित्तं च स्यात् सर्वं कार्यं सर्वदा स्यात् । अपेक्षितस्य सामग्रीमात्रस्य भगवद्रूपतया सत्त्वात् । नचेयं लौकिकी युक्तिर्न वैदिकै- रादरणीयेति वाच्यम् । यतः कर्मकाण्डेऽपि श्रुतिस्मृतिसमवायो धर्मेऽङ्गीक्रियते । अस्मदा- दिकृतेश्च निमित्तत्वम् । एवं ब्रह्मवादेऽपि स्मृत्युक्ता प्रकृतिः समवायिकारणं, ब्रह्म निमित्तकारण- मित्येवाङ्गीकार्यम् । न चैवं तस्याः श्रौतत्वहानिः । यथा हि ब्रह्मणोऽनुमानगम्यत्वेऽपि मुख्यतया उपनिषद एव गमयन्तीत्यौपनिषदत्वमेवं प्रकृतिं मुख्यतया स्मृतिरनुमानं च गमयतीति तस्या आनुमानिकत्वं स्मार्तत्वं चाभिलप्यत इति तावन्मात्रेण तद्धानेरभावादित्येवं प्राप्ते इत्यर्थः । रश्मिः । जीव इति । इत्युभयकारणव्यवस्थापनपक्षो मैत्रेयीब्राह्मणे तस्य परिहारः । प्रयोजनेति । तदुक्तं पूर्व- पक्षमवेति । पूर्वोक्तसंशयप्रकारं स्फुटं सूचयन्तः पूर्वपक्षमाहुरित्यर्थः । भाष्ये । न निराकुर्म इति । मैत्रेयीब्राह्मणविचारेण न निराकुर्म इति । किंतु समन्वयसूत्रे तेन ब्राह्मणेनार्धजरतीयमुच्यते इत्यर्थः । किंतु समवायीति । अत्र सूत्रे पदार्थमहिम्ना एकसम्बन्धिज्ञानमपरसम्बन्धि स्मारकमिति 'प्रधानाज्जगज्जायत इति' इति सूत्रस्मरणात् । प्रकृतिः समावायिनी चेति स्फूर्त्या समन्वयसूत्रे मैत्रेयीब्राह्मणेन किंतु समवायिकारणं प्रकृतिरेवेत्यर्थः । यद्यपि 'न समवायोस्ति प्रमाणाभावात्' इति सांख्यसूत्रं तथापि प्रसिद्धाभिप्रायेण तदुक्तिरतो न व्याससूत्रविरोधः । प्रकृते । प्रकाशे- त्यादि । तथा च सूत्रं 'प्रकृतेराद्योपादानतामन्येषां कार्यत्वश्रुतेः' 'प्रकाशस्तत्सिद्धौ कर्मकर्तृत्व- विरोधः' । तत्सिद्धौ जीवसिद्धौ । कर्म जीवः कर्त्री प्रकृतिः प्रवृत्तौ रजसानियमश्चादिनाऽप्रकाशस्तमः- कार्यम् । अनुवर्तेरन्निति ब्रह्मवादाननुसंधायकोक्तिरतो न समन्वयाधिकरणविरोधः । जायतेऽस्ति विपरिणमति^१ वर्धतेऽपक्षीयते नश्यतीति षड् भावविकाराः प्रकृतिधर्माः सांख्ये । कर्मण्यपीति भाष्यं विवृ- ण्वन्ति न चेयमिति कर्मणीत्यस्यार्थमाह कर्मकाण्ड इति । श्रुतिस्मृती विधिपादे श्रुतयः स्मृतिपादे स्मृतयः इति । समवायो नित्यसंबन्धः । धर्मे नित्यधर्मव्यञ्जकक्रियारूपे धर्मे । एवं ब्रह्मेति भाष्यं विवृण्वन्ति एवं ब्रह्मेति । श्रौतत्वेति प्रधानाज्जगजायते इति श्रौतत्वं चूलिकोपनिषदाद्युक्तं च १. विपरिणमते । 1011