अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1109, कुल 2600 में से
संदर्भ में पढ़ें९१० श्रीमद्वल्लभाचार्यभाष्यम् । [अ० १ पा० ४ अ० ८ सू० २३ ब्रह्म निमित्तकारणमित्येवं प्राप्ते उच्यते । प्रकृतिश्च निमित्तकारणं, समवा- यिकारणं च ब्रह्मैव । प्रकृतिपदप्रयोगात् स्मृतिसिद्धतृतीयसर्वधर्मापदेशः । चकाराद् यत्रेत्यादिसर्वसंग्रहः । कुत एतत् ? । प्रतिज्ञादृष्टान्तानुपरोधात् । भाष्यप्रकाशः । अत्र सिद्धान्तं वक्तुं सूत्रं व्याकुर्वन्ति प्रकृतिश्चेत्यादि । ईक्षतिना ईक्षत्यादिभिर्वा कर्तृत्वेन ब्रह्म सिद्धमेवेति न तत्रेदानीं शङ्का । अतः परं लोकन्यायेन कर्तुरुपादानोपकरणासापेक्षत्वादिह तदाकाङ्क्षायां पूर्वपक्षिणा प्रकृतिरुपस्थाप्यते । सा निमित्तकारणभूता समवायिकारणभूता च प्रकृतिरत्र ब्रह्मैव । न तु ततोऽतिरिक्ता प्रकृतिशब्दश्च स्वरूपे रूढो मृत्प्रकृतिर्घटः कार्पास- प्रकृतिः पट इत्यादिप्रयोगदर्शनात् समवायिकारणमभिधत्ते, प्रकृष्टा कृतिर्येनेति योगमहिम्ना च निमित्तम् । अतः प्रकृतिपदप्रयोगात् स्मृतिसिद्धा ये तृतीयकारणात्मका असमवायिनः सर्वे धर्माः संयोगादयस्तेषामपदेशः कथनम् । चकारात् पुराणोक्तानां, 'यत्र येन यतो यस्य यस्मै यद् यद् यथा यदा । स्यादिदं भगवान् साक्षात् प्रधानपुरुषेश्वरः' ॥ रश्मिः । पूर्वोक्तम् । ब्रह्मैवेति आकाशस्तल्लिङ्गादित्यधिकरणे उक्तत्वात् । हन्तैतमेव पुरुषं सर्वाणि नामान्य- भिवदन्ति इति भाष्यभाष्योक्तवाक्यादेवकारः । प्रतिज्ञासूत्राद्ब्रह्मेत्यनुवर्तते । न स्विति 'स पतिः पत्नी चाभवताम्' इति पुरुषविधाब्राह्मणे 'प्राप्तं तन्निजरूपाय गोविन्दाय नमो नमः' इति श्रीविठ्ठलेशदीक्षिताः अर्धनारीश्वरोपि । सांख्यमतेनोक्तत्वाऽधुना प्रकृतिपदं प्रयुक्तं न प्रधानपदं तदाशयमाहुरित्याशयेन प्रकृतिपदेत्यादिभाष्यं विवृण्वन्ति स्म प्रकृतिशब्द इति । अयमर्थः । सत्यं प्रधानपदं प्रयोक्तव्यं 'प्रधानाज्जगज्जायत इति' क्षीरवच्चेहितं प्रधानस्य' इति चातः पुरुषोऽसङ्गः प्रधानं चक्षदमिश्रनिमित्तोपा- दानं तद्वाचकं आकाशस्तल्लिङ्गादिति न्याये ब्रह्मवाचकमिति तथापि तस्य न प्रसिद्धमीश्वरवाचकत्वं प्रकृतिपदस्य तु 'प्रणवत्वेन प्रकृतित्वं वदन्ति ब्रह्मवादिनः' इति गोपालातापिनये 'प्रकृतिमगन् किल वत्स गोपवध्वः' इति च प्रसिद्धमतः प्रधानपदमतिहाय प्रकृतिपदमुपात्तमिति तदेतदुक्तं प्रकृती- त्यारभ्य रूढ इत्यन्तेन । यद्यपि वेदान्ते रूढिर्नास्ति तथापि ब्रह्मवादिनो वदन्तीति संहिताश्रुतेः ब्रह्मवाचकप्रकृतिपदरूढिः । यद्वा । योगमात्रं ब्रह्मज्ञानमित्यदोषः । यद्यपि यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । आविर्भावकशक्त्याधारत्वं वा कारणत्वं तद् ब्रह्मसामानाधिकरण्यादुपपन्नं तथापि योगार्थं प्रयोगादाहुः मृत्प्रकृतिरिति । अभीति । स्वरूपप्रकृतिपदार्थः 'प्रकृतिमगन् किल वत्स गोपवध्वः' इति स्मृतौ । अतः प्रयोगादिप्रसिद्ध्या प्रकृतिपदं ब्रह्मणि प्रयुक्तं न ज्ञानिनामिव घटपटादिपदवत् । प्रकृष्टेति व्यवहारोपयोगित्वं प्रकृष्टत्वं न तु बालुक्रीडार्थं मृदादिवद्धा कृतिः । संयोगादय इति सिद्धान्ते विभागात्सृष्टिः सृष्टिमैदवाद् एभिः भाष्यप्रकाशकुकृिरुक्ता सा । नेर्षा निमित्तान्तर्भूतानाम् । अत्र यद्यपि तृतीयपदार्थः सुषुप्तिः कामश्च संयोगादीनां चकारार्थे संग्रहात् तथा च कामसुषुप्त्योः सर्वधर्मापदेश इति भाष्यार्थो भवेत् कामाकामरूपं भवेदभ्योपि बोध्युपलक्षकविषयास्तु न च वैराग्याय भाष्यप्रकाशीयोर्थः । स च सुषुप्तिव्याख्यानेपि तस्ये सुषुप्ति- स्त्वकामरूपो भगवानिति भाष्यादिति वाच्यम् । विरुद्धधर्माश्रयत्वेन कामस्फूर्तेः । चकारादि- 1012