अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1110, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९९१ प्रतिज्ञा, 'अपि वा तमादेशमप्राक्षो येनाश्रुतं श्रुतं भवत्यमतं मतं अविज्ञातं विज्ञातं भवति' इति । दृष्टान्तो यथा 'एकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात्' इत्यादि । प्रतिज्ञादृष्टान्तयोरनुपरोधोऽबाधनं, तस्मात् । समवायिकारण- ज्ञाने हि कार्यज्ञानम् । उभयोर्ग्रहणमुपचारव्यावृत्त्यर्थम् । उपक्रमोपसंहारवत् । भाष्यप्रकाशः। इत्याधारादीनां सर्वेषां संग्रहः । तथाच जगतः सर्वविधं कारणं भगवानेवेत्यर्थः । हेतुं व्याकुर्वन्ति प्रतिज्ञेत्यादि । अपि वेत्युतशब्दस्यार्थः पाठान्तरं वा । प्रतिज्ञा तु नियमः । 'संवि- दागूः प्रतिज्ञानं नियमाभवसंभवा' इति कोशात् । स चात्रैकविज्ञानेन सर्वविज्ञानं भवतीत्याकारको निश्चय इति तद्बोधकं वाक्यमिह वाच्यवाचकयोरभेदविवक्षया प्रतिज्ञापदेनोच्यते । एवं दृष्टा- [L1