भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1111, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1111

१६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० ८ सू० २३ प्रतिज्ञामात्रत्वे अदृष्टद्वारापि भवेत् । दृष्टान्तमात्रत्वे त्वनुमानविषया स्यात् तथा सति सर्वसमानधर्मवद्ब्रह्म स्यान्न समवायिकारणम् । उभयोर्ग्रहणे तु प्रतिज्ञाया दृष्टमेव द्वारमिति समवायित्वसिद्धिः । भाष्यप्रकाशः । दृष्टान्तयोरैकार्थ्येनेत्यत उभयोर्ग्रहणमित्यर्थः । तदेतदुपपादयन्ति प्रतिज्ञामात्रत्व इत्यादि । हेतोरिति शेषः । तथा च हेतुश्चेत् प्रतिज्ञामात्रमत्रोच्येत तदा अदृष्टा वा योगजप्रत्यासत्तिस्त- द्वाराऽप्येकविज्ञानेन सर्वज्ञानं भवेत् । यथा, 'विश्वं पश्यति दूरतः' इति । 'अनागतमतीतं च वर्तमानमतीन्द्रियम् । विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः' ॥ इत्यादिवाक्योक्तम् । तथा सति न तेन समवायित्वसिद्धिः । यदि च दृष्टान्तमात्रं हेतुः स्यात् तदा, सर्वं वाच