अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 111, कुल 2600 में से
संदर्भ में पढ़ें२४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
भाष्यप्रकाशः ।
विचारो न प्रतिषेद्धुं शक्यः । नच संदिग्ध एव विषये विचारस्य प्रवृत्तेरात्मनश्चाहंप्रत्ययगो- चरत्वेनासंदिग्धत्वादेवमप्यविचार्यत्वमेवेति शङ्क्यम् । अहंप्रत्ययस्य स्थूलोऽहं कृशोऽहं बधिरो- ऽहं गच्छाम्यहं श्वसिम्यहं जानाम्यहमित्यादौ देहाद्युपाधिगोचरत्वेन विपर्यस्तत्वात् तेन
रश्मिः ।
न प्रतिज्ञातत्वेपि चरममींसापादकत्वाभावादिति भाष्यार्थे संभवान्मास्तु वेदार्थमात्रत्वेत्यादिः कुत इति वाच्यम् । वेदा वेदान्तास्तदर्थज्ञानं तदपि ब्रह्म 'वेदैश्च सर्वैरहमेव वेद्यः' इति वाक्यात् । तथा च वेदार्थमात्रत्वेन ज्ञानमात्राय ब्रह्मज्ञानाय विचारः इत्यर्थः संपन्नः । यद्वा, जैमिनीर्या- सशिष्य इति धर्मजिज्ञासाया भाविनीत्वाद्देहवदेकार्थत्वेन ज्ञानमात्ररूपाय ब्रह्मज्ञानायेत्यर्थः । अयमेव भाष्यार्थः । कर्ममार्गस्यापि भाष्ये दर्शनात् । यथा व्याकरणकात्स्न्र्यं निरुक्ते तथा वेदार्थकात्स्न्र्यं ब्रह्मज्ञाने तस्मै विचार इत्यर्थः । व्याख्यानतो विशेषप्रतिपत्तेर्न हि संदेहादलक्षणमिति महाभाष्यात् । इदमपि मास्तु शुद्देशस्त्वेपि पूर्वमींसावत् सर्वविचाराभावात् । न चैतावदेव विचारः विस्तृतविचारस्य पूर्वमींसायां दर्शनेनोत्तरमींसाविचारमात्रायतैतावतोऽसंभवात् । किंतु ब्रह्मे- त्यादिभाष्यार्थमाहुः परंस्त्विति । नन्वत्रापि प्रतिज्ञातब्रह्मज्ञानायेति भाष्यार्थः संभवतीति चेन्न । ब्रह्मशब्दः सोपि वेदान्तरूपः सोपि ब्रह्म, तद्व्यावृत्त्यर्थत्वादित्याहुरात्मत्वेनेति । ब्रह्म आत्मा, तस्य चात्मरूपत्वादिति भाष्यात् । ब्रह्म ब्रह्मत्वमिति निर्विकल्पज्ञानं ब्रह्म, ब्रह्मब्रह्मत्वब्रह्म- त्वस्वरूपसंबंधावगाहि ज्ञानमात्मा । तथा च ब्रह्मणो वेदार्थत्वेपि तत्त्वेन ज्ञानं नासंभाव- नाविपरीतभावनानिवर्तकं मींमांसासहितमात्मत्वेन, ब्रह्मज्ञानं तु ह्यसंभावनाविपरीतभावनानिवृ- त्युत्तरत्वेन तन्निवर्तकम् । आत्मत्वेनेति 'आत्मा देहो मनो ब्रह्म' इति विश्वात् ब्रह्म प्रोक्तम् । तथाध्यात्मदेवजातिषु सूरिभिरिति च । अहंप्रत्ययेति । सुखी अहमिति प्रत्ययगोचरत्वेनेत्यर्थः । अहंप्रत्ययस्याहंकारविषयत्वमपि यतः कर्ताहमिति प्रत्ययात् । स चिदचिद्ग्रन्थीरूपः । देहादीति । स्थूलोहं कृशोहमिति देहाध्यासः, बधिरोहमिति इन्द्रियवैकल्यम्, गच्छाम्यहमिति कार्याध्यासः, श्वसिम्यहमिति प्राणाध्यासः, त एत आत्माधिष्ठानकाः । जानाम्यहमिति अहंकारे चिदध्यासः आत्मनो ज्ञानाश्रयत्वात् । 'कामः संकल्पः' इति बृहदारण्यकात् । जीवेऽन्तःकरणाध्यासो वा तदात्ममप्यात्माधिष्ठानकः । अहंकारानतिरिक्तजीववादिमतेनाह । जगदान्ध्यापत्तिभिया नायमहंकार- मात्राश्रयः । अहंकारमात्राश्रयत्वे जडत्वेनाहंकारस्य तथा जडाश्रितस्य गोलकाश्रितव्यतिरिक्तस्वप्रकाश- कत्वनियमात् । यद्वा, अहंकारस्य 'आत्मा मनसा संयुज्यते' इत्यादिप्रणाड्याभावात्, तेन जानाम्यहमित्यत्र ज्ञानकर्ताहमिति बुद्धिर्नतु ज्ञानाश्रयोऽहमिति । अन्त्यायाः प्रत्यगात्मविषयत्वात् । पूर्वस्याहंकारवि- षयत्वात् । विपर्यस्तत्वादिति । 'शङ्खः पीतः' इतिवत् 'घटो भ्रमति' इतिवच्च करणदोषविषय- दोषजन्यसंशययुक्तभिन्नार्थमात्रप्रतिपादकबाध्यज्ञानत्वादित्यर्थः । संशयस्थलवारणाय मात्रपदम् । तत्र विषयदोषजन्यत्वं वक्तुं शक्यम् । आवश्यकत्वलाघवाभ्यां तावतैव सिद्धेरिति सिद्धान्ते विशेषः । क्वचिद्विषयदोषोप्युपेयते, यथा जीवपरमाण्वोरध्यासो दोष इति । एतच्च द्वितीयाध्याये तर्कपादे 'उभयथापि न कर्मातस्तदभावः' इति सूत्रभाष्यप्रकाशे 'चरमः सन्निवेशानाम्' इति श्लोकार्थकथनावसरे
24