अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 112, कुल 2600 में से
संदर्भ में पढ़ेंसंदेहनिवृत्तेरभावात् । नच देहादिरेवात्मेति युक्तम् । देहस्यावस्थाभेदेषु परिणामान्तरदर्शनेन नश्वरत्वनिश्चयात् । अहंवित्तिवेद्ये त्वात्मनि, यः कृशः पूर्वं स इदानीं स्थूल इति पूर्वापरकाले ऐक्यभानेन तदभावात् । नच सोऽहमिति प्रत्यभिज्ञया देहादेरात्मत्वं वक्तुं शक्यम् । प्रत्यभि- ज्ञायाः सोयं दीपस्तदिदं जलमितिवत् सजातीयविषयत्वेन पूर्वापरकालकतदैक्यानिश्चायकतया तदविषयत्वात् । एवं तत्तदिन्द्रियनाशेष्वपि जीवनदर्शनाच्छ्वासोच्छ्वासयोर्बहिरागच्छतः प्राण- स्यापि ज्ञानादर्शनेनाचेतनत्वनिश्चयाद् बुद्धिमनसोरपि करणत्वेन सिद्धतया कर्तृत्वेनासिद्धत्वाद् विषयपार्थक्यस्य सर्वानुभवसाक्षिकत्वात् सर्वेषामिदंकाराऽऽस्पदत्वाच्च । नचेदंकारास्पदानामात्मत्वं युज्यते । पुरोऽवस्थित एव विषये तथाप्रयोगदर्शनात् । आत्मनश्च प्रत्यग्वित्तिवेद्यत्वेन तथात्वा- [L