भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1126, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1126

योगिनां संभवति । सर्वभवनसामर्थ्यान्मुख्ये संभवति गौणकल्पनाया अन्या- य्यत्वात् । चकाराद्, इदं सर्वं यदयमात्मेति कार्यस्य ब्रह्मत्वश्रुतिर्ब्रह्मप्रकृतित्वे संभवति, नान्यथा । अथवा ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’ इति तस्य जगद्रूपत्वेनाभिध्यानमुपदिश्यते । तद् ब्रह्मसमवायित्वे घटत इति चकारात् ‘एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्’ इति ॥ २४ ॥ भाष्यप्रकाशः। न्तम् । ननु योगबलेनाप्यासामाभावेऽपि भगवान् नानाभावं कर्तुं शक्नोति, गौणत्वं ब्रह्मणोऽविकृत- त्वसाधकत्वाददुष्टम् । अतो नेयमभिध्या समवायित्वसाधने लिङ्गं भवितुं शक्नोतीत्याशङ्क्य व्याख्यानान्तरमाहुः अथवेत्यादि । तत्र हि सर्वस्य ब्रह्मत्वे, तज्जलानित्यनेनोत्पत्तिस्थितिलयाधारत्वं हेतुत्वेनोक्त्वा तथाभिध्यानमुपदिश्यते । यदि समवायित्वं नाभिप्रेयाद्धेतुं न वदेदतस्तथेत्यर्थः ॥ २४ ॥ रश्मिः। सिंहादिः । ननु क्षीरवच्चेष्टितं प्रधानसेति सांख्यसूत्राद् अर्धजरतीयन्याय इति चेत्तत्राहुः सर्वभवनेति मुख्ये बहुभवने । गौणेति प्रकृतिगुणसंसर्गवत्त्वादर्धजरतीयकल्पनायाः । सूत्रीय- चकारार्थमाहुः चकारादिति इदं सर्वं चिज्जडात्मकम् । ब्रह्मप्रकृतिकत्व इति जीवेषु ब्रह्मोपादानत्वे प्रकृतिर्वांशभेदके । जडेष्वप्येवम् । नान्यथेति प्रकृत्यंशपरित्यागे प्रकारे । प्रकृते । गौणत्वमिति प्रकृतिगुणसंसर्गवत्त्वम् अविकृतस्य चिन्तामण्यादिवदविकृतत्वं यत्तत्प्रकृतिस्वरूपकत्वे इत्यविकृतत्व- साधकत्ववत् । इयमिति अभित उच्चनीचभावेन चिन्तनं स्वस्य रमणेच्छाविषयम् । अभिध्यान- मित्येकोपासनम् । पराभिध्यानात्तु तिरोहितमित्यत्र यद्व्याख्यातं तत्तु पूर्वव्याख्याने हेतुमिति तज्जलानितीतिपदं हेतुवाचकं हेतुर्वाच्यः । तथेत्यर्थ इति यो यदंशः स तं भजेदिति वाक्यात् समवायित्वम् । इदं ब्रह्मसमवायित्वे घटते इतीति भाष्यस्यार्थः । प्रकृते । किं प्रयोजनमित्याशङ्क्य भाष्ये प्रयोजनमाहुः चकारादिति इयं राजविद्याराजगुह्यनिरूपणेऽस्ति प्रकृतेः स्वरूपत्वे एकत्वं एकं ब्रह्मप्रकृतिरित्यापाततोमातेनेवार्थपृथक्त्वेनाभेदेऽपि अत्र शंकराचार्याः प्रकृतिरुपाधिरिति बहु स्यामिति प्रत्यगात्मविषयत्वाज्जीवरूपेण बहुत्वमित्याहुः । किंच सोऽकामयत इति कर्तृत्वम् । तेन सगुणब्रह्मत्वं द्योतितम् । रामानुजभाष्ये विचित्रचिदचिद्रूपेणाहं बहु स्यामिति विशिष्टाद्वैतम् । माध्वभाष्ये तु ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । महामायेत्यविद्येति नियतिर्मोहिनीति च । प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते’ ॥ इतिवचनात् तदभिध्यैव प्रकृतिशब्देनोच्यते ‘सोऽभिध्या स जूतिः स प्रज्ञा स आनन्दः’ इति श्रुतेरभिध्या च स्वरूपमेव । ‘ध्यायति ध्यानरूपोऽसौ सुखी सुखवतीव च । परमैश्वर्ययोगेन विरुद्धार्थतयोच्यते’ ॥ इति ब्रह्माण्डे । एतद्दूषयन्ति चान्ये भास्करभाष्ये इतश्चोपादानं ‘तदैक्षत बहु स्यां प्रजायेय’ इति बहु भवामीति संकल्पपूर्विका प्रकृतिरभिध्यानमिति प्रकृतिस्तूपधिरित्येवं भाति तन्मते जीवस्य ब्रह्मात्मकत्वात् ॥ २४ ॥

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1126, कुल 2600 में से · BharatKosha