अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1125, कुल 2600 में से
संदर्भ में पढ़ें१७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० ८ सू० २४ अभिध्योपदेशाच्च ॥ २४ ॥ लिङ्गान्तरमाह । सोऽकामयत बहु स्यां प्रजायेयेतीत्यत्र कामनं तस्याभि- ध्यानम् । आप्तकामत्त्वान्न कामना । तदभिध्यानं सृष्टावुपदिश्यते । बहु स्यामिति स्वस्यैव बहुरूपत्वाभिध्यानेन सृष्टं स्वयमेव भवति । सुवर्णस्यानेकरूपत्वं सुवर्ण- प्रकृतिकस्य एव । अध्यासाभावाद् गौणत्वापत्तेश्च । न हि मुख्यं बहुभवनं भाष्यप्रकाशः । अभिध्योपदेशाच्च ॥ २४ ॥ सूत्रमवतारयन्ति । लिङ्गान्तरमाहेति । ननु दृष्टान्ते मृत्ति- केत्येव सत्यमिति कारणे सत्यपदमुक्तम् । अतस्तत्सामर्थ्येन कार्ये मिथ्यात्वमपि प्रमातुं शक्यत इति शङ्कायां प्रपञ्चे विवर्तत्वस्य ब्रह्मणि विवर्तोपादानत्वस्य च निरासाय लिङ्गान्तरमाहेत्यर्थः । अभिध्यानमिति । एवमेवमिदं करिष्यामीत्यालोचनम् । विचार इति यावत् । सुवर्ण- प्रकृतिकस्य इति अंशकार्ययोस्तथात्वे । नन्वभिध्योपदेशोऽपि न ब्रह्मणः समवायित्वसाधकः । योगिकायव्यूहवदपि बहुभवनाभिध्योपपत्तेरित्याशङ्कायामाहुः अध्यासेत्यारभ्य नान्यथेत्य- रश्मिः । अभिध्योपदेशाच्च ॥ २४ ॥ चेति अनुक्तसमुच्चये चकारः । पूर्वपक्षनिरासाय च इत्यसार्थस्य समुच्चायकः । प्रमातुमिति कार्यं मृत्पिण्डादि मिथ्या कृतकत्वात् घटवत् इति । लिङ्गान्तरमिति अर्धजरतीयाभावो लिङ्गम् । अभिध्योपदेशोऽन्यल्लिङ्गमिति अन्यल्लिङ्गं लिङ्गान्तरम् । भाष्ये । कामनमित्यादि कामयेतेत्यस्य विवरणम् । बहु स्यामिति बहुनिष्ठसत्ताऽनुकूलव्यापारोऽ- धीस्तद्विषयिणी कामनात्र कामनं तस्याभिध्यानं 'प्रजायेय' इत्युक्तम् । अभित उच्चनीच- भावेन ध्यानं चिन्तनमुपादानकारणसहितचिन्तनं प्रजायेयेति इत्युक्तप्रजननानुकूलव्यापारो धीरित्येवम् । इत्येवम् । ननु ह्यभिध्यानं परामिध्यानसूत्रोक्तं परस्य भगवतोऽभितो ध्यानं रमणेच्छेति विहाय कुतो धीरिच्छाविषयो लक्षणया व्याख्यात इति चेन्न तदभिध्यानादेवेति सूत्रे तस्य तस्य कार्य- स्योत्पादनार्थं तदभिध्यानं तत्तदात्मकत्वं तेन तद्वान्यत्वमिति भाष्यात् । ननु स्वरूपे प्रकृतिं निवेश्य मुख्यार्थत्यागे को हेतुरत आहुः । आप्तेति आप्तकाम इति श्रुत्यन्तरेणेत्यर्थः । सृष्टाविति सृष्टयर्थमेकोऽहं बहु स्यां प्रजायेयेत्युपदिश्यते । भवतीति न तु शुक्तौ रजतवन्मिथ्या । नापि पूर्वपक्षः । त्वया पूर्वपक्षिणा प्रकृतेर्जडत्वाङ्गीकारादिति भावः । 'क्षीरवच्चेष्टितं प्रधानस्य' इत्यग्रे प्रतिपिपाद्यते । प्रकृते । अंशत्यादि ननु सुवर्णस्य कार्यरूपस्य सुवर्णपिण्डरूपस्य सुवर्ण- प्रकृतिकस्य इत्यर्थ इतिचेन्न दार्ष्टान्तिके सुवर्णस्थानापन्नयोरुक्तेः । अंशाः शकलानि सुवर्णस्य मेध- स्वरूपायां प्रकृतौ भवन्ति जलस्य तु न भवन्ति शकलानि मेदरूपप्रकृत्यभावात् तद्वल्लक्ष्यतेषु स्वरूपभूतप्रकृतिसत्त्वात् तत्संबन्धे जीवत्वं इवार्थे भेदकवत्त्वं च कार्येषु सुवर्णरूपत्ववत् ब्रह्मत्वं इवार्थेभेदकवत्त्वम् । इवशब्दात्त्वेवं स्मर्यते 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' इति ब्रह्मनिरूपणे गीतायाम् । तथात्व इति दार्ष्टान्तिके ब्रह्मप्रकृतिकत्वे ब्रह्मप्रकृतिर्ययोस्तयोर्ब्रह्मकार्ये तथा सुवर्णांशकार्यत्वेन प्रकारेण यथा तथा ब्रह्मांशकार्यत्वेन प्रकारेण तयोर्भावस्तथात्वं तस्मिन् । अध्यासेत्यारभ्येति इह ब्रह्मण इति शेषं पूरयित्वा तत्र हेतुद्वयं योजनीयम् । कायव्यूहे अध्यासोपयोगः । मुख्यमिति समवायिनः स्वस्य विद्यमानत्वे सिंहादिरूपत्वं मल्लसमवायिवत् किंतु स्वस्यैव 1028