अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1124, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम्। ९७५ देहात्मबुद्धिस्तु सत्यां विकारबुद्धौ दोषः । श्रुतिसामर्थ्यं प्रमाणमित्युक्तम् । तस्माद् ब्रह्मैव समवायिकारणं, न प्रकृतिः ॥ २३ ॥ भाष्यप्रकाशः । ब्रह्मधर्मविरुद्धधर्माभ्यासो न स्याद्, देहादेरप्यात्मत्वेन सत्यता स्यात् । तथा सति देहात्मबुद्धे- र्दोषत्वमप्यपेयात् । तत्तद्भाविद्यनिवर्तकशास्त्रवैयर्थ्यमापद्येतेत्यतो जगन्मिथ्यात्वमेव साधीय इत्यत आहुः देहात्मेत्यादि । वस्तुविचारेण जगतो ब्रह्मरूपत्वेऽपीदानीं बहुजन्माभ्यस्त- विकारबुद्धेरनिवृत्तत्वात् तस्यां सत्यां या देहात्मबुद्धिः सा देहाभिन्नत्वेनात्मावगाहिनी, न त्वात्मा- भिन्नत्वेन देहावगाहिनी । आत्मस्वरूपस्याज्ञातत्वादतो दोषरूपैवेति न कोपि जगतो ब्रह्मरूपत्वे पूर्वोक्तो दोष इत्यर्थः । नन्वेवं व्यवस्थया देहात्मबुद्धेर्दोषत्वे किं मानमित्याकाङ्क्षायां पूर्वोक्तं स्मारयन्ति श्रुतीत्यादि । श्रुतिसामर्थ्यमिति । दृष्टान्ते हि कार्यत्वन्यकारेण कारणात्मकत्व- मुपदिष्टं, न तु तत्पुरस्कारेण । किंच । कारणात्मना कार्यज्ञानमभिसंहितं, न तु कार्या- त्मना कारणज्ञानम् । अतस्तत्सामर्थ्यमेव तादृशव्यवस्थायां प्रमाणमित्यर्थः । सिद्धमाहुः तस्मा- दित्यादि ॥ २३ ॥ रश्मिः। इति । ब्रह्मधर्मेति । ब्रह्मधर्मा अपहतपाप्मत्वव्यापकत्वादयः तद्विरुद्धाः पापिलाव्यापकत्वादयः तेषां त्वभ्यास एवातस्मिंस्तत्वारोपात् । देहात्मबुद्धेरिति अहं स्थूल इत्यादिरव देहात्मबुद्धिः । तत्तन्वेति सार्वविभक्तिकस्तसिः देहात्मबुद्धेर्दोषत्वापाये । अविद्या पञ्चपर्वा देहाभ्यासः प्राणाभ्या- सोन्तःकरणाभ्यास इन्द्रियाभ्यास इति तन्निवर्तकं शास्त्रं पञ्चपर्वविद्याबोधकम् । 'वैराग्यं सांख्या- योगौ च तपो भक्तिश्च केशवे' इति पञ्चपर्वाणि तद्बोधकं शास्त्रं 'त्रय्या चोपनिषद्भिश्च सांख्ययोगैश्च सात्वतैः उपगीयमानमाहात्म्यम्' इतिवाक्यात् षट् शास्त्राणि । जगन्मिथ्यात्वमिति । शुक्तिकारजतवत् न त्ववान्तरकारणमृत्पिण्डादिदृष्टान्तेन ब्रह्मत्वेन । विकारेति षड्भावविकारबुद्धेः । आत्मावगाहिनीति व्यतिरिक्तस्यात्मनो दर्शनादिति हेतुः । अज्ञातत्वादिति तथाच विशिष्टज्ञाने विशेषणज्ञानस्य कारणत्वात् विशेषणस्यात्मरूपत्वात् । पूर्वोक्त इति आभासोक्तः । तत्पुरस्कारे- णोति । तत्सामर्थ्यमिति श्रुतेः सामर्थ्यम् शब्दव्यापारः तदपि प्रमाणं श्रुतिसंबन्धात् श्रुतिकृतिः प्रमाणं तत्संबन्धात्कृतिस्तथेति तृतीयस्कन्धपद्यस्य यतो भवद्विधमित्यस्य कारिकायाम् । तादृशेति दोषो दृश्यते यत्र व्यवस्थायां प्रमाणं समर्था श्रुतिः प्रमाणं व्यापारानाविद्ययाप्रमाणात्वाभावात् करणाभावेन प्रमाणलक्षणाप्रसक्तेः । तस्मादित्यादीति । तस्मात् । अर्धजरतीयनोयव्यवस्थापन- पक्षाभावात् ॥ २३ ॥ १. सर्वषादरजीबो यः स प्रमाणमिहोच्यते । तत्संबन्धात्कृतिस्तस्य प्रमाणं वाक्यमेव च ॥ 1027 भाग० ३।२३।२० श्लोकस्येयं कारिका ।