अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1123, कुल 2600 में से
संदर्भ में पढ़ें९७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० ८ सू० २३ भाष्यप्रकाशः। सतीत्यभिप्रायेण । तदग्रे च यदुपदिष्टं तत् सर्वं मूलकारणस्य कार्यद्वारा परिचायनार्थम् । अतः सर्वस्य ब्रह्मैव समवायिकारणमिति सर्वं सुस्थम् । ननु जगतो ब्रह्मरूपेण सत्यत्वे तस्मिन् रश्मिः। तत्र नखनिकृन्तनस्यात्यन्त्यत्वं चिन्त्यमतो यत्र कुत्रचिद्भगवन् ज्ञात इत्यादिभाष्योक्ताभिप्राय एवेति ज्ञेयम् । शिष्यस्य श्वेतकेतोर्विश्वासायारुणिना पित्रोक्तम् । यतः श्वेतकेतुः पित्राज्ञया सर्वान्वेदानधीत्यानूचानमानी स्तब्ध इति तदधिकारेण विश्वासः । मूलकारणे इन्द्रजालकर्तरि । एवं च समवायिनिरूपणे प्रकृतेनाकाङ्क्षितनिमित्तनिरूपणं जातमित्यर्थान्तरस्यनिग्रहस्थानं परिहर्तुं वाचारम्भण- त्वार्थमुपक्रान्तं 'उत तमादेशः' स उपसंहारे एवं५सोम्य स आदेशो भवतीत्यनूदितस्तस्य सर्वस्य तस्याप्येतत्तस्य 'सदेव सोम्येदमग्र आसीत्' इत्यादेः अभिप्रायमाहुः एतदग्रे चेति, उपदिष्टम् । 'एवं सोम्य स बादेशो भवतीति सर्वं च सदेव सोम्येदमग्र आसीत्' इत्यादि । आ समाप्ति । तत्र यत्किंचित्पूर्वं व्याख्यातमन्यट्टीकायामस्ति । समवायीति अतो न निग्रहस्थानमितिभावः । प्रकृता- नाकाङ्क्षिताभिधानस्यार्थान्तररूपनिग्रहस्थानत्वात् । उपदेशेषु विशेषोपि भाति टीकानुगुणमेव । 'सर्व- वादानवसरं नानावादानुरोधि यत्' इतिनिबन्धाट्टीकोक्तसंदेहापनुत्तये उपदेशान्तरावतरणात् । पूर्वोप- देशे परदेवतौक्ता सा मध्वानाम् । तेषां भाष्ये श्रुतिस्मृत्युदाहरणेन विशेषानुपलम्भात् । द्वितीयोपदेशो विज्ञानेन्द्रभिक्षुसंमतकः 'यथा मधु मधुकृतो निस्तिष्ठन्ति' इति श्रुतिः तदीयग्रन्थेषु दृश्यते इति । तृतीयोऽवान्तरकारणादिविषयकः चतुर्थोऽवान्तरकारणादिविषयकः । नमामि यमुनामहंमित्याचार्याः । सर्वं जहाति सर्वः शुष्यतीति श्रुतेः । 'आपमापामपः सर्वा' इत्यारणे । जैमिन्याचार्यविषयकः वृक्षसौष- प्तियोपयुक्तत्वात् तस्याश्च वेदस्यादौ सत्त्वात् । पञ्चमः जीवब्रह्मवादविषय इति शंकरभाष्यविषयः । 'तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' इत्यष्टपदात्मकोपदेशात् । षष्ठो भेदाभेदविषयको भास्कराचार्य- मतकः । यद्येषा लवणमुदके अवाधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद यथा विलीनमेवेति श्रुतेः । लवणं न समुद्ररूपं जलं । जलं न लवणमिति भेदाभेदौ । सप्तमः समाधिः साधारणः । पण्डितो मेधावीति तस्याधिकारबोधनात् 'आचार्यवान् पुरुषो वेद' इति श्रुतिकथनाच्च । 'यावन्न विमोक्ष्येऽथ संपत्स्ये' इति श्रुतिः । सर्वभाष्यप्रसिद्धत्वाच्च तस्या अत्र सत्त्वात् । अष्टमो रामानुजशैवाज्ञानवाद- विषयकः तस्या यावन्न वाङ्मनसि संपद्यते इत्यादिना संपत्त्युक्तेः संपत्तेश्चिदचिद्विशिष्टेष्वे संभवः । अथ न जानातीति श्रुत्या अद्वैतमज्ञानवादश्च । नवमः श्रीवल्लभाचार्याणामुपदेशः 'ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' इत्येकादशपदात्मकः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दह्यते अथ मुच्यते इति स्वरूपलक्षणोक्तेः सत्येनेत्युपलक्षणं ज्ञानानन्तयोः अतोऽक्षरमन्त्रे कृष्णोर्यः सदानन्दरूपः शब्दभिदिति सच्चिदानन्दः श्रीः श्रेष्ठमितलक्ष्म्याः 'श्रीश्च ते लक्ष्मीश्च पत्न्यौ' इति श्रुतेः । 'शरणं विहितं मुमुक्षोर्वै शरणमनुव्रजेत्' इति । महाराजत्वात् अस्मिन् गृहे समागते शरणमार्गग्राहके च, सगृहे भक्तिमार्गी । ममेति विशेषः । अमुकस्यर्मण 1026