अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1122, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९७१
भाष्यप्रकाशः ।
भेदकमस्त्रीणि रूपाणीत्येव सत्यमनागन्तुकानारोपितं रूपमिति बोध्यम् । इदं च मूलकारण- स्यात्यन्तपरोक्षत्वादन्त्यकार्यापेक्षया शिष्यविभासायोक्तम् । तच्च मूलकारणे ब्रह्मण्येव पर्यव-
रश्मिः ।
भेदकं यथा कटकादीनामवस्था न कारणात्सुवर्णात् कार्यं कटकादेर्भेदकं कटकं सुवर्णमिति प्रतीतेः । तथा तेभ्यः पदार्थेभ्यो वा यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात् । तद्वच्च भेदकम् । वाचारम्भणत्वात् । अत इति व्यवहारदशायां भेदकस्य जातिरूपस्यासाधारणधर्मस्य ब्रह्मप्रकृतिगुणरूपस्य विवक्षणात् । अनागन्तुकेति । कारणताशक्तिः प्रकृतिरिति रामानुजभाष्येऽद्वैतांशे । विशिष्टांशे चिज्जडसमुदायः प्रपञ्चः प्रकृतिः । अत्र रोहितादिरूपाणां स्वरूपं मधुप्रपाठके पञ्चमे उक्तम् । अमृतानीत्यतो घटपटादि