भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1121, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1121

च बोधनात् त्रीणि रूपाणीत्येव सत्यमिति सावधारणं कथनाच्च स्पष्टम् । तेन, अपागादग्नेरग्नि- त्वमित्यादेरयमर्थः । यदग्न्यादौ रोहितादिगुणं रूपमाकारत्रयं तदनागन्तुकस्वरूपविचारे अत्रि- वृत्कृतानां तेजोऽब्बन्नानामेव, न तु त्रिवृत्कृतसाम्यादेः कार्यस्य । त्रिवृत्करणात् प्रागपि सत्त्वात् । अतस्त्रिवृत्करणोत्तरमागन्तुकमग्नित्वादिकम्, अनागन्तुकस्वरूपविचारे अनागन्तुकानानारोपितरूपेणा- पागात्, अग्न्यादेः सकाशादपगतम् । यतोऽग्नित्वादिकं वाचारम्भणमवस्तुरूपत्वाद्वाग्भ्यादीनां तेभ्यो वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् । यदादित्यस्य रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादादित्यादित्यत्वम् । वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् । यच्चन्द्रमसो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागान्न- न्द्राच्चन्द्रत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् । यदिद्युतो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यमित्येवमित्यर्थः । तेन रूपत्रयं प्रवृत्तिनिमित्तमित्युक्तम् । अत्र पूर्वाङ्गे निरुक्ते त्रिदेवतापक्षः चतुर्थश्चन्द्रमाः तासामपि ब्रह्मत्वेन भानं न वा । मुण्डकेपि क्षरात्सर्वे आत्मानो व्युच्चरन्तीत्यवताराणां जीवजडभिन्नत्वं न व्युच्चरणश्रावणाच्च तेषामपि जगत्त्वेन सत्यत्वं नान्यथेति प्राप्तं तत्र कृष्णाय देवकीपुत्रायेति छान्दोग्ये 'यज्ञेन यज्ञमयजन्त देवाः' इति यज्ञनारायणवाराहविषये महानारायणे तदादौ जगत्त्वेन सत्यत्वं बाधितं तदर्थं निरुक्ते अग्निः स्वाहाकृतिनामसु पठितस्तेन राधाग्निः । आत्मा पुरुषविधब्राह्मणोक्तस्तस्मै स्वाहाकृतिः पशुरूपायः अग्निः पशुरासीत्तेनायजन्तेति पञ्चमाष्टकसमासिकश्रुतेस्तेन प्रथमं तत्कथा । तदत्रादित्यः पशुरासीत्तेनायजन्त इत्यादित्यः कृष्णः 'कृष्णद्युमणिः' इति वाक्यात् तत्र कृष्णे वक्तव्ये प्रकृतिश्च राधारूपापि स्वाहाकृतिः । रामकृष्णयोः प्रकृतिपुरुषयोः सत्त्वेपि वायुः पशुरासीत्तेनायजन्तेत्यत्र विद्युदुक्ता वायोरग्निरिति श्रुतेः । कार्यात्मत्वेन विद्युदुक्ता 'विद्युद्ब्रह्मेत्याहुः' इति बृहदारण्यकात् । तत्राप्यग्नित्वादीनामपायनं चन्द्रमस्त्वं कृष्णे वर्तते इति त्रयाणां रूपाणामसत्यत्वे शरदादौ रूपत्रयमुपमार्थोपमर्दकमावेन प्रसिद्धम् । अत एव प्रकृतेः सत्त्वरजस्तमसां ते गुणाः । न च द्वैतापत्तिः 'प्रणवत्वेन प्रकृतित्वं वदन्ति ब्रह्मवादिनः' इति श्रुतेः तस्या गुणाः न द्वैतापादकाः । 'प्रकृतिमगन्' इति वाक्यात् । प्रकृतिः स्वरूपमित्युक्तम् । तेन रूपत्रयं प्रकृत्यवस्थितिष्ठा । 'आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनुः । शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः' ॥ इति । त्रिवृत्करणोदाहरणश्रुत्यर्थमाहुः तेनेति । रोहितादीति । रोहितादयो गुणा यत्रेति बहुव्रीहिः । आकारत्रयमिति जगतो ब्रह्मत्वेन सत्यत्वे सति सामान्याभावे प्रवृत्तिनिमित्तमाकृतित्रयम् । अत्रिवृदिति कारणभूतानां 'तत्तेजो सृजत' 'तत्तेज ऐक्षत' 'बहु स्याम् प्रजायेयेति' 'तदपोऽसृजत' 'ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहि' । इति 'ता अन्नमसृजन्त' इति श्रुत्युक्तानामित्यर्थः । कार्यस्येति सत्कार्यस्यात्रिवृत्कृतसाम्यादेरित्यर्थः । अनागन्तुकेति अनागन्तुकानि अत्रिवृत्कृता- ग्न्यादिरूपाणि रोहितादीनि तेषां विचारे तन्नियतरूपेणानागन्तुकानानारोपितरूपेण । विस्ताररूपमाहुः यन्न इति वाचारम्भणं वाग्भ्याजेनारम्यते । अवस्त्वेति षड्भावविकाररूपत्वात् । तेभ्यः स्वकारणेभ्योः

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1121, कुल 2600 में से · BharatKosha