भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1120, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1120

भाष्यप्रकाश-रश्मि-परिवृंहितम्। १७१ मिति। अलीकत्वनिराकरणाय च मृत्तिकेत्येव सत्यमिति। ब्रह्मत्वेनैव जगतः सत्यत्वं, नान्यथेति। सामान्यलक्षणप्रत्यासत्तिनिराकरणं च स्पष्टमेवाग्रे त्रीणि रूपाणीत्यत्र करिष्यति। अतो ब्रह्मरूपेण सत्यस्य जगतो ब्रह्मैव समवायिकारणम्। भाष्यप्रकाशः। वाक्येन ब्रह्मणो विवर्तोपादानत्वमुपगम्य प्रपञ्चस्यालीकत्वमेवाद्रियतां तावताऽप्येकविज्ञानेन सर्वविज्ञानसिद्धेरित्यत आहुः अलीकत्वेत्यादि। नान्यथेति न प्रतिनियतेन घटादिरूपेण, न वा जातिरूपेण नाप्यवान्तरोपादानरूपेण। तेषां रूपाणां व्यवहारमात्रार्थत्वादित्यर्थः। एतेन सिद्धान्ते प्रतिनियतरूपेण जगतः सत्यत्वाभावो न तु सत्यत्वेन रूपेण जगदभाव इति बोधितम्। ननु यदि ब्रह्मत्वेनैव जगतः सत्यत्वं तदा तेन रूपेण सामान्यलक्षणैवाद्रियतां, को दोष इत्यत आहुः सामान्येत्यादि। स्पष्टमिति अग्न्यादिविद्युदन्तेषु तेज इत्येव सत्यमित्यकथनात् त्रिवृत्करणस्य रश्मिः। विवर्तेति उपादानविषमसत्ताकोऽन्यथाभावो विवर्तः। सर्वति सर्वस्यानिर्वचनीयान्यथाख्याति- रूपत्वेपि विशेषदर्शनात्पूर्वं सर्वमस्त्येवेति न निर्विषयकं ज्ञानम्। व्यवहारे वयं भाट्टा इति वदतां जातिरूपसर्वत्वे शक्तिः। तेन सामान्यलक्षणा प्रत्यासत्तिः। अलीकत्वेत्यादीति। भाष्ये। मृत्तिकात्र। यत्र कञ्चिद्भगवान् ज्ञातः इत्यादिभाष्यात् ब्रह्मविज्ञानविषयिणी आद्या ब्रह्मापहाय एतत्साग्रहणं ब्रह्मरूपत्वस्थापनाय। भाष्ये। ब्रह्मत्वेनैवेति शुक्तौ रजतं शुक्तित्वेन न भासते परिणामे तु रजतस्थानीयं जगद्ब्रह्मत्वेन भासते इति न प्रच्छन्नबौद्धत्वम्। एवकारव्यावर्त्यमाहुः नान्यथेति। प्रकृते। न प्रतीति जगत्वेन षड्भावविकारेणेत्यर्थः। सत्यत्वेनेति जगतः पारमार्थिकेन रूपेण। तदुक्तं पद्यद्वयेन 'सत इदमुत्थितम्' इत्यनेन 'न यदिदमग्र आस' इत्यनेन च। तत्र कारिके 'सद्बुद्ध्या सर्वथा सद्भिर्न सेव्यमखिलं जगत्। भ्रान्त्या सद्बुद्धिरत्रेति सन्तं कृष्णं भजेद्बुधः'॥ इति पूर्वपक्षे। द्वितीये तु। 'खपुष्पादिसमत्वाद्वि मिथ्याभूतं जगद्यतः। अधिष्ठानाच्च सद्भानं तं कृष्णं नियतं भजेत्'॥ इति। ब्रह्मत्वेनेति नतु सत्यत्वेनाव्यवहितत्वेपि जगत्वसमानाधिकरणसत्यत्वश्लोककारि- काभ्यामभावात्। समन्वयाधिकरणोक्तसत्यत्वं तु वर्तत एव ब्रह्मलक्षणान्तर्गतम्। अग्न्यादित्येति चन्द्रमा नोक्तः सामान्यलक्षणप्रत्यासत्तिनिराकरणप्रस्तावात् चन्द्रमस्त्वं न सत्यत्वं किं तु ब्रह्मत्वेनैव जगतः सत्यत्वमित्यादिभाष्योक्तब्रह्मत्वाभिन्नमतो न सामान्यलक्षणप्रत्यासत्तिनिराकरणप्रस्तावेन तदुक्तिः। न च ब्रह्मत्वमेव सामान्यलक्षणप्रत्यासत्तिरस्त्विति शङ्क्यम्। अवान्तरजातिलक्षणप्रत्यासत्ति- निराकरणप्रस्तावात् तस्य सामान्यत्वे द्वैतप्रसङ्गाच्च। तेज इति यथा मृत्तिकेत्येव सत्यमित्यवान्तरो- पादाने सत्यत्वं तद्वदकथनात्। तथा च श्रुतिः 'सदेव सोम्येदमग्र आसीत्' इत्यादि। प्रतिज्ञातमेक- विज्ञानेन सर्वविज्ञानं देवतासु प्रवृत्तिनिमित्तत्वायोच्या 'तत्तेजोऽसृजत' 'तत्तेज ऐक्षत' इति। त्रिवृत्करणस्येति यथा तु खलु सोम्येमास्तिस्रो देवताः त्रिवृत्त्रिवृदेकैकका भवति इति तन्मे विजानीह हीति' 'यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं 1023