भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1119, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1119

९७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० ८ सू० २३ भाष्यप्रकाशः । भेदानादर एव सामान्यलक्षणानादरगमकः । यथा बहुसुवर्णाकाङ्क्षायां कटककुण्डलकलशभृङ्गा- रादिव्यक्त्यनादरस्तथेत्यर्थः । एतदेवैकादशस्कन्धे भगवताप्युक्तम् । 'यथा सुवर्णं सुकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्मयस्य । तदेव मध्ये व्यवह्रियमाणं नानापदेशैरहमस्य तद्वत् ॥ न यत् पुरस्तादुत यन्न पश्चान्मध्येऽपि तन्न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद्यत् तदेव तत्स्यादिति मे मनीषा' ॥ इति । यत् परेण भूतं यच्च परेण प्रसिद्धं तत्तदेव स्यादित्यर्थः । अंशे कार्यत्वाभावात् प्रसिद्धमिति पृथग्व्यपदेशः । एवमष्टमस्कन्धेऽपि । 'यथा हिरण्यं बहुधा समीयते नृभिः क्रियाभिर्व्यवहारवर्त्मसु । एवं वचोभिर्भगवानधोक्षजो व्याख्यायते लौकिकवैदिकैर्जनैः' ॥ इति । एतेनाकारादिभेदकृत एव तत्तल्लौकिकवैदिकव्यवहारभेदो, न वस्तुभेदकृतः । यथा कलशरूपेण सुवर्णेन जलाहरणादिकं, कटककुण्डलादिरूपेण तेन हस्तकर्णादिशोभनमिति । एतेनैव फलभेदोऽपि व्याख्यातः । अन्यच्च तत्रैवाऽमृतमन्थने ब्रह्मस्तुतौ- 'त्वय्यग्र आसीत् त्वयि मध्य आसीत् त्वय्यन्त आसीदिदमात्मतन्त्रे । त्वमादिरन्तो जगतोऽस्य मध्यं घटस्य मृत्स्नेव परः परस्मात्' ॥ इति । कुत्सितत्वादिभानं तु दोषदृशामेव, न ब्रह्मविदाम् । यथा स्वप्ने पुरुषस्य । प्रसिद्धं तद् ऋषभदेवादिषु । तस्माद् भगवतः समवायित्वमप्रत्यूहम् । ननु यदि विकारस्य वाचारम्भणत्वं तदैतेन रश्मिः । 'सर्वभूतेषु येनैकं भावमव्ययमीक्षते' । 'अविभक्तं च भूतेषु तज्ज्ञानं विद्धि सात्त्विकम्' ॥ इति सत्त्वं वा प्रत्यासत्तिः 'सत्त्वात्संजायते ज्ञानम्' इति वाक्यात् । अधिकारभेदेन ननु भक्तिसत्त्वयोः प्रत्यासत्तित्वं न प्रसिद्धं इति चेन्न ज्ञानलक्षणप्रत्यासत्तेः प्रसिद्धत्वात् भक्तिर्ज्ञानं सत्त्वं ज्ञानं अतः सामान्यलक्षणानादर इत्यर्थः । यथेति बहु सुवर्णमित्यत्र सुकृतमित्येव तस्याका- ङ्क्षायां तत्तद्व्यक्तित्वेनानादरः किं तु सुवर्णत्वेन कटकादिकं सुवर्णमिति प्रत्येति तद्वत् 'भृङ्गारः कनकालुका' इति कोशः । सुकृतमिति विशेषणं कार्यात्मनावस्थितमित्यर्थकं योग्यत्वाय । असुकृतस्य पुरस्तात्साधनाभावात् । अस्येति जगतः । कारणताग्राहकान्वयमुक्त्वा व्यतिरेकबोधकं वाक्यमाहुः न यदिति । प्रसिद्धमिति । अंशत्वेन प्रसिद्धमकार्यम् । अष्टमेति । द्वादशस्कन्ध इत्यपि पाठः । क्रियाभिरिति जलाहरणादिरूपाभिः तत्तदाकारवचनानुकूलाभिर्वा । वचोभिरिति घटपटादि- रूपाभिः । अजः शब्दान्नोंकारः । एतेनेति दृष्टान्ते फलभेदेनैव दार्ष्टान्तिक इत्यर्थः । मृत्पिण्डेन सर्वं मृण्मयमिति श्रुत्यनुकूलवाक्यान्तरमाहुः अन्यथेति । विकारस्येति षड्भावविकारस्य । 1022

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1119, कुल 2600 में से · BharatKosha