भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1139, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1139

९९० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० ९ सू० २८ रश्मिः । ण्यम्व इवेमाधाना भगव इति आसामङ्गेकां भिन्धीति भिन्ना भगव इति किमत्र पश्यसीति न किंच- न भगव इति तं होवाच यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्यैषोम्निग्न एष महान्न्य- ग्रोघस्तिष्ठतीति जगतः पूर्वावस्थायां दृष्टान्तः । अथ किंचनाणुपदश्रवणात् शून्यस्वभावाद्युक्तकारणवादा भ्रान्त्या प्रतीयन्ते तत्रैतासां तात्पर्यमस्ति न वेति संदेहोऽस्तीति पूर्वपक्षस्तन्मेदं सूत्रं प्रवर्तते । एतेनेति प्रधाननिराकरणे हेतूनां शब्दत्वादचेतनत्वैकविज्ञानं प्रतिज्ञाद्यनुपपत्तीनामण्वादिपक्षसाम्येन सर्वे शून्यादिकारणवादा निराकृतत्वेन व्याख्याता इत्याहुः एतेनेत्यस्य स्वसमतानुगुणार्यानाहुः ॥ २८ ॥ इति नवमाधिकरणम् ॥ ९ ॥ इति श्रीविद्वन्मण्डनश्रीविठ्ठलेश्वरैर्यनिस्तसमस्तान्तरायेण श्रीगिरि- धारात्मजश्रीदामोदराङ्घ्रीयेण श्रीगोविन्दरायपौत्रेण पूर्णनेत्रा श्रीविठ्ठलरायभ्रात्रीयश्रीगोकुलोत्सवात्मजगोपेश्वरेण कृते भाष्यप्रकाशरश्मौ प्रथमाध्यायस्य तुरीयः पादः संपूर्णतामगमत् ॥ १ ॥ ४ ॥ ॥ प्रथमाध्यायः समाप्तः ॥ राग—प्रभाते. पूरणपुरुषोत्तम ब्रजनाथ । दिनदयाळ भक्तजनवत्सल सबगुण जिनके हाथ ॥ १ ॥ श्रीवल्लभके पक्षपातनैं इनबिन जनम अकाज । सुरश्याम तिहारे हित यातैं कीजे सकलसमाज ॥ २ ॥ [ मङ्गलकृत्तिः ] (ग्रन्थकारः समाप्ती हस्ताक्षरेण लिखति) एतावतो ग्रन्थस्य श्लोकानां संख्या (१०९००) दशसहस्रनवशतमुच्यते, अस्य ग्रन्थस्य (अस्मिन् प्रकरणे) षट्दशसहस्रश्लोकसंख्याह । द्विशतपञ्चदश पत्राणि ॥ शुभं भवतु ॥ ॥ श्रीविठ्ठलेश्वरो जयति ॥ ३८८ पत्राणि १२ शोषपत्राणि=पत्राणि ४०० । पत्र ४ सों पत्र २२ तांई नहि हे भाग्यै संपूर्ण हे. 1042