अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 115, कुल 2600 में से
संदर्भ में पढ़ें२८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ न हि स्वबुद्ध्या वेदार्थं परिकल्प्य तदर्थं विचारः कर्तुं शक्यः । भाष्यप्रकाशः । वाचः स्त्रवन्ति हि' इतिन्यायेनान्यदेव बुद्ध्येतेति । एतदेव विभजते न हीत्यादि । अयमर्थः । भवान् हि श्रुतीनामनुपचरितार्थत्वाय दर्शनान्तरे आत्मगमकत्वेन स्वीकृतस्याहंप्रत्ययस्य प्रादे- शिकग्राहकत्वं प्रदर्श्य तस्याविद्याख्योपाध्यवच्छिन्नात्मग्राहकत्वेन भ्रमत्वं च प्रदर्श्य तेन तन्नि- श्चयाभावात् कर्तृत्वभोक्तृत्वार्थशेषोऽपि तस्य भ्रमत्वं साधयितुं चिदेकरसात्मनो ज्ञानाविषयत्वं च साधयितुमध्यासभाष्यसूचितां विषयत्वेन जडत्वेन व्याप्तिमङ्गीकृत्यैवमाह । अहंधियौ प्रकाश- रश्मिः । 'भूय एव मा भगवान् विज्ञापयतु' इति पुत्रेण श्वेतकेतुना पृष्ट आरुणिः 'तथा सोम्ये