भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 116, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 116

श्यमानस्यात्मनो ज्ञानान्तरविषयत्वेन जडत्वापत्तिः । सर्वार्थवित्तिषु प्रकाशाश्रयत्वेन सिद्ध- स्यात्मनो घटमहं जानामीत्यादौ विषयत्वायोगात् । चैत्रो ग्रामं गच्छतीत्यादौ क्रियाफलस्य संयोगस्योभयनिष्ठत्वेऽपि ग्रामादौ परसमवेतक्रियाफलशालित्वस्य कर्मत्वेन स्वसमवेतक्रियाफल- शालिन आत्मनः परत्वाभावेन आत्मानमहं जानामीत्यादौ ज्ञानविषयस्यात्मनः कर्मलक्षणा- नाक्रान्ततया कर्मत्वायोगात् । तस्य कर्तृभेदाङ्गीकारे कर्मभूतस्य तस्यानात्मत्वप्रसङ्गः । अप्रका- शमानत्वस्यैव जडत्वेन स्वस्मिन्प्रकाशमानस्यापि जडत्वापत्तिः । अनुभवबलेन कर्मकर्तृविरोधे परिहृते सिद्धे चाभेदे प्रकाशाश्रयरूपकर्तृत्वेनैव प्रकाशत इत्यङ्गीकारेऽपि यस्मिन्नर्थात्मानौ प्रका- शेते तस्य ज्ञानरूपप्रकाशस्य स्वयमप्रकाशमानतया जडत्वे विषयाप्रकाशकत्वप्रसङ्गः । तस्या- रश्मिः । तस्यानर्थस्य प्रहाणेन संहैकीकृतसर्वार्थजातस्य वाचकभाष्यस्य नयतीति जघन्यत्वात् । अध्यास- भाष्यसूचितमिति भाष्यप्रकाशात् । एवं च काकेभ्यो दधि रक्ष्यतामित्यत्र दध्युपघातकत्वस्य काकेषु सत्त्वाद्गङ्गात्मनः इति काव्यप्रकाशस्य वरवारणसेत्यत्र समासान्तरस्य सत्त्वाच्छब्दप्राप्यध्यासभाष्ये तादृशारम्भत्वसत्त्वेपि अवगमयितुमित्यनेन ज्ञानबोधनेपि जडमिथ्यात्वादिपदसमभिव्याहारेणानुमिति- सूचनादयु(म)मिति । विशिष्टत्वसत्त्वमयीति तेन रूपेणाध्यासभाष्यानुमितिविशिष्टे लक्षणा तादृशभाष्येऽनुमितिविशिष्टायां व्याप्तौ चानुमितिसत्त्वादिति । एवमिति अवधारितमाहेत्यर्थः । तमाह अहंवित्ताविति अहं ब्रह्मास्मीत्याकारिकायामित्यर्थः । जडत्वापत्तिरिति आत्मा जडो विषयत्वात् घटवदित्यनुमानेन तथात्वापत्तिरित्यर्थः । प्रथमान्तानीमानि पदानित्यतः फलभूता संवित् स्वयंप्रकाशाभ्युपेतव्येनेनानुपपत्तिः । स्वप्रकाशकं घटमहं जानामीत्याकारकं च सर्वमेव ज्ञानं घटादिकमिव स्वात्मानं स्वाधिकरणमात्मानं च गोचरीकुर्वत् त्रिपुटीप्रत्यक्षतां प्रथापयति । मितिमातृमेयविषयत्वात् खस्येति । प्राभाकरमतमाक्षिपन्ति सर्वार्थेति । अहं घटं जानामि घट- ज्ञानो घटं ज्ञातवान् ज्ञातो घट इत्येवंरूपासु घटविषयकज्ञानाश्रयोऽहमित्यादिबोधात् प्रकाशाश्र- यत्वेन सिद्धस्येत्यर्थः । विषयत्वायोगादिति । स्वर्गमिच्छतीत्यादौ कर्तुस्तथात्वादर्शनान्नेत्यर्थः । नैयायिकादीनाक्षिपति चैत्र इति । उभयनिष्ठत्वेपीति कर्तृकर्मनिष्ठत्वेपीत्यर्थः । तथाच क्रिया- फलशालित्वस्य कर्मलक्षणस्यातिव्याप्तत्वमिति भावः । तन्निवृत्तये परसमवेतविशेषणविशिष्टलक्षण- मित्याह ग्रामादाविति । तथाप्यसमित्याह स्वसमवेतेति । परत्वाभावेनेति । कर्मभू- तात्मास्मदर्थाख्यस्यात्मनोरैक्यादित्यर्थः । ननु 'आत्मानमात्मना वेत्सि' इतिवदुपपद्यतामित्यत आह तस्येति । अनात्मत्वप्रसङ्ग इति जीवबहुत्वाङ्गीकारस्य नियौक्तिकत्वेनानात्मप्रसङ्ग इत्यर्थः । जडत्वापत्तिरूपं तत्फलमाह अप्रकाशेति । स्वस्मिन्निति । स्वविषयकप्रकाशकर्तृत्वाभावेनापि । अनुभवबलेनेति प्रमाणीभूतेनेत्यर्थः । प्रकाशात इति । कर्मापीति शेषः । यस्मिन्निति अहं जीव इत्यस्मिन् बुद्ध्याद्युपाधिप्रकारकात्मविशेष्यके ज्ञाने इत्यर्थः । स्वयमिति अर्थरूपविषय-