भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 117, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 117

३० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ भाष्यप्रकाशः । प्रकाशमानत्वेऽपि निलीयचक्षुरादिवत् प्रकाशकत्वे तत्फलस्यैवैतत्फलस्यैव स्वयम्प्रकाशताया आस्थेयतयाऽस्य जडत्वापत्तिः । पूर्वज्ञानफलस्यैतस्य जडत्वे एतज्ज्ञानफलस्याग्रिमस्यापि जडत्वा- पत्तिः । परंपराङ्गीकारेऽनवस्था जगदान्ध्यापत्तिश्चेत्यतः फलरूपा संवित् स्वयंप्रकाशाऽभ्युपे- तव्या, न तु निलीयचक्षुरादिवत् प्रकाशिका । ततश्च स्वयंप्रकाशत्वस्यैव चेतनत्वेन तदाश्र- यतया प्रकाशमानस्यात्मनो विषयत्वेन जडत्वापत्तिस्तदवस्था । नचार्थात्मानौ विना केवलायाः संविदः प्रकाशाभावात् संविदर्थात्मानौ परस्परप्रकाशकत्वमेवेति परतःप्रकाशत्वमेव चेतनत्वम्, ततश्च संवित्तुल्यत्वाभावादात्मनोऽपि जडत्वमिति शङ्क्यम् । तथा सत्यर्थस्यापि चेतनत्वापत्तेः । अथ संविदर्थात्