भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 118, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 118

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३१ भाष्यप्रकाशः । त्त्वार्थात्मभ्यां सहिता । वस्तुतस्तु संविदोऽर्थसहभावोऽपि न नियतः, अतीतानागतस्थले व्यभिचारात् । नच तत्राभाव एव विषय इति वाच्यं, तस्यासत्त्वात् । नच सोऽपि सन्निति वाच्यं, सत्त्वस्य निर्वक्तुमशक्यत्वात् । सत्त्वं हि सत्ताख्यसामान्यं समवायो वा, अर्थक्रियाकारित्वं वा प्रकाशमानत्वं वाऽभ्युपेयम् । तत्र नाद्यौ । सत्तायां सत्तासमवायाभावेन अर्थक्रियाकारित्वेऽर्थ- क्रियाकारित्वाभावेन च तयोरसत्त्वे तद्योगिनोऽप्यसत्त्वसिद्धेः । सत्तान्तराभ्युपगमेऽनवस्थापाताच्च । न तृतीयः । मरुमरीचिकादेरपि तोयाद्यात्मना सत्त्वापातात् । नच मरुमरीचिकादीनां तोयाद्या- त्मना असत्त्वेऽपि स्वरूपेण सत्त्वात् प्रकाशमानत्वं नानुपपन्नमिति वाच्यं तथापि सत्त्वस्य प्रका- शमानत्वातिरिक्तधर्मान्तरत्वेन प्रकाशमानत्वस्य तच्चाभावात् । अथ भावधर्म एव सत्त्वम् । अभावोऽपि भाव एव 'भावान्तरमभावोऽन्यो न कश्चिन्निरूपणात्' इति भावस्यैव भावान्तरा- त्मनाऽभावरूपत्वादिति विभाव्यते । तदापि स भावधर्मः को वा । व्यवहारयोग्यत्वमिति चेत् । को नाम तत्र व्यवहारः । अभिलाप इति चेत् । तद्योग्यत्वस्य खपुष्पेऽपि तुल्यत्वात् । अतोऽ- भावस्य खपुष्पतुल्यत्वेनातीतानागतस्थलेऽर्थवियुक्तैव संवित् । एवमर्थसहभावानियमे सिद्धे यत्र सहभावाभिमानस्तत्राप्यर्थसत्ताया निर्वक्तुमशक्यत्वादर्थस्यानिर्वाच्यत्वमेव । तथैवात्मनो व्याप- कत्वेनाहंप्रत्यये प्रादेशिकत्वस्थूलत्वकृशत्त्वादिना भासमानस्य चन्द्रसद्भावे चन्द्रान्तरवद् भानात् तस्याप्यनिर्वाच्यत्वम् । तच्च सतो बाधाभावादसतश्चाभानात् सत्त्वासत्त्वयोरेकत्र विरोधेन सद- सद्रूपताया अशक्यवचनत्वात् सदसद्विलक्षणत्वमेव । तथाच सति विषयत्वेन भासमानानां मरुमरीचितोयतुल्यत्वात् संविदेव केवला सती सिद्ध्यतीति सैवात्मा । तस्या अविषयत्वेऽपि तत्रैव कर्तृत्वभोक्तृत्वादयोऽद्ध्यस्यन्ते, अप्रत्यक्ष आकाशे मालिन्यवदिति । रश्मिः । त्वम्राधिकत्वेन खपुष्पादिवदनिर्वाच्यत्वं तस्मात् । एवं संविदोऽर्थसहभावं दृष्टं अङ्गीकृत्य तस्याध्यस्तत्वमन्तरेण स्वयंप्रकाशतासंभवात् स्वयमर्थो मिध्येत्युक्तम् । इदानीमर्थाभावेपि संवित्प्रकाश इति मन्यते वस्तुतस्त्विति । न च तत्रेति । घटो भविष्यति, घटो ध्वस्त इत्यादिप्रत्यये इत्यर्थः । अभावोऽस्तीति प्रतीत्याशङ्कय पराकरोति न च सोपीति । सत्तायामिति । अनङ्गीकारादसंभवाच्च । तत्र तयोरभावेन तयोः सत्ताख्यसामान्यसमवायार्थक्रियाकारित्वयोरसत्त्वेन तद्योगिनोऽभावस्याप्यसत्त्वसिद्धिरित्यर्थः । तयोः सत्ता स्वीक्रियत इत्यत आह सत्तान्तरेति । भावान्तरमिति । अभावो भावान्तरम्, नान्यः कश्चित्, अनिरूपणादित्यर्थः । तच्चेति अनि- र्वाच्यमित्यर्थः । सैवात्मेति । श्रुत्युदासीनात्मत्वेन वेदार्थभूतात्मत्वस्वरूपेणामेत्यर्थः । अध्य- स्यन्त इति । परत्र परावभासोऽध्यासः । आरोप्यात्यन्ताभाववत्वं परत्वमधिकरणत्वं त्वलोऽर्थः । अवभास्यते इत्यवभासो रजतादिः । एवं चैकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाववति अवभा- स्यत्वमिति बुद्धिनिष्कर्षः । कपिसंयोगीयत्त्र संयोगेऽतिव्याप्तिवारणायैकावच्छेदेन इति । तस्य स्वसंसृज्यमाने स्वात्यन्ताभाववति इतराभावस्थलेपि स्वस्वाभावयोर्मूलाग्रावच्छेदकभेदेनैकावच्छेदक- त्वाभावात् । पूर्वं स्वाभाववति भूतले पश्चादानीतो घटश्चकास्तीति घटेऽतिव्याप्तिवारणाय स्वसंसृ- ज्यमान इति अभावकाले प्रतियोगिसंसर्गस्य वर्तमानत्वं तदर्थः । मूलावच्छेदेनावभासे गन्धेऽ- 31

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 118, कुल 2600 में से · BharatKosha