अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 119, कुल 2600 में से
संदर्भ में पढ़ें३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ भाष्यप्रकाशः । तदसङ्गतम् । विषयत्वेन जडत्वेन व्याप्तेः प्रत्यक्षबाधितत्वात् । आत्मनश्चेतनत्वस्योभय- संमतत्वात्, तस्य च प्रत्यग्वित्तिवेद्यत्वात्, प्रत्यग्वित्तिगोचरत्वेन विषयत्वस्य व्यापकत्या जड- त्वेन विषयत्वेन व्याप्तेरेव प्रत्यक्षसिद्धत्वाच्च । नच प्रत्यग्वित्तेर्भिदेकरसात्ममात्रग्राहकत्वात्तदवि- षयत्वमेवेति वाच्यम् । तेन रूपेणाविषयत्वेऽपि प्रत्यक्त्यादिना रूपान्तरेण विषयत्वात् । अन्यथा विषयाभावेन तद्वित्तिलोपप्रसङ्गात् । 'सन्मात्रो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभु- रद्वय आनन्दः परः प्रत्यग्रसः प्रमाणैरेतैरवगतः' इति तापनीये प्रत्यक्त्वस्यापि तत्प्रमाणत्वेनैव श्रवणाच्च । नच तत्राहंकारस्यैव विषयत्वं, नात्मन इति वाच्यम् । न्यायादिमते आत्मन एव तथा मानात् । सांख्यादिमते च तस्य जडत्वेन तस्यां प्रतीतावहंत्वचैतन्ययोः सामानाधिक- रण्याभानप्रसङ्गात् । भासमाने च सामानाधिकरण्ये तस्यामहंकारविषयताया निवृत्तत्वात् प्रत्य- रश्मिः । तिव्याप्तिनिरासाय स्वात्यन्ताभाववतीति । शुक्ताविदंत्वारच्छेदेन रजतसंसर्गकालेऽत्यन्ताभावोऽस्तीति नाव्याप्तिरिति व्याख्यानम् । नच बन्धस्य ज्ञाननिवृत्त्येऽध्यासवर्णना व्यर्थेव नित्यस्यापि नाशसंभ- वादिति वाच्यम् । पापादेः श्रद्धा नियमादिसंपृक्तज्ञानानामनाश्यत्वेन ज्ञानमात्रनाश्यबन्धेष्वत्र मूल- सैवामूलत्वादिति । तदेतन्निरस्यति वेदार्थभूतात्मत्वेनात्मनो विचारक्तः तदसङ्गतमिति । प्रत्यग्वित्तीति । तथा च यदि विषयत्वं जडत्वं निवृत्तसामानाधिकरणं स्यात् प्रत्यग्वित्तौ विषये जीवे जडत्वं भायात्, यतो न भाति ततो हि प्रत्यक्षबाधिता सेत्यर्थः । विषयत्वमपि साधारणो हेतु- रित्याहुः प्रत्यग्वित्तिगोचरत्वे चेति । आत्मन इत्यर्थः । एवेति 'व्याप्यस्य वचनं पूर्वं व्याप- कस्य ततः परम्' इति ह्यभिलापात् । व्याप्तेरिति सा च नियतधर्मसाहित्ये उभयोरेकतरस्य वा व्याप्ति- रिति सांख्यप्रवचनसूत्राद्धेतोर्नियतसामानाधिकरण्यरूपता तदेव व्यापकसामानाधिकरण्यमिति व्याप्तेः स्वरूपं मुक्तावल्यामित्यलमतिप्रसङ्गेन । विशेषस्तु प्रस्थानरत्नाकरे उपपादितः । हेतोः साधारणतां वारयन् शङ्कते न चेति । विषयत्वरूपहेतावपि विषयत्वमेवेति साध्यवदन्यवृत्तित्वाभावाच्च सा- धारणत्वं विषयत्वरूपहेताविति भावः । अविषयत्वमेवेति साध्यवदन्यवृत्तित्वाभावात् न साधा- रणता इति भावः । तत्प्रमाणत्वेनेति प्रमापयति विषयत्वेन प्रमां जनयतीति प्रमाणं प्रत्य- क्षादि । नन्वादिस्त्वाह्युः । आत्मविशेष्यकप्रमाप्रकारत्वेनेत्यर्थः । प्रमीयतेऽनेन प्रत्यक्त्वेनेति करणत्वो- पचारो वा । यद्वा, तस्याः प्रत्यग्वित्तेः प्रमाणत्वेन प्रत्यक्त्वस्य शब्दस्य श्रवणादित्यर्थः । प्रत्यग्वि- त्तिलोपशङ्कां पराकरोति न च तत्राहमिति । अध्यासस्योक्तत्वाच्च 'प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकारविमूढात्मा कर्ताहमिति मन्यते' ॥ इतिवाक्योक्तत्वान्निम्बार्काचार्यसंमतत्वादेवेकारः । न्यायादिमत इति । अध्यक्षो विशेष- गुणयोगत इति न्यायमतम् । आदिपदेन शांकरमते माध्वमते च । तथा च निम्बार्कमंतं न्यायादितर्कहृतं मध्वाचार्यानाभिमतं चेति निम्बार्कमतं सांप्रतं निर्बलमिति नेति भावः । तस्येति अहंकारस्येत्यर्थः । सामानाधिकरण्येत्यादि । ननु चैतन्यसामानाधिकरण्ये किं मानमिति चेन्न 32