अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1187, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ११ एतेन योगः प्रत्युक्तः ॥ ३ ॥ (२-१-३) सांख्यस्मृतिनिराकरणेन योगस्मृतिरपि निराकृता द्रष्टव्या । योगस्य वैदिकत्वशङ्कया भेदेन निराकरणम् ॥ ३ ॥ इति द्वितीयाध्याये प्रथमपादे तृतीयं योगप्रत्युक्त्यधिकरणम् ॥ ३ ॥ भाष्यप्रकाशः । रामानुजाचार्यास्तु, इतरेषामतिप्रामाणिकानां मन्वादीनां कपिलदृष्टप्रकारेण तत्त्वानुप- लब्धेः श्रुतिविरुद्धा कपिलोपलब्धिर्भ्रान्तिमूलेति व्याकुर्वन्ति । तन्मयानुपदमेव पाद्मवचनोप- दर्शनेन व्युत्पादितम् ॥ २ ॥ इति द्वितीयमितरेषामित्यधिकरणम् ॥ २ ॥ एतेन योगः प्रत्युक्तः ॥ ३ ॥ एतेनेतिपदोक्तमतिदेशं व्याकुर्वन्ति सांख्येत्यादि । योगस्मृतिः पातञ्जलदर्शनं, हिरण्यगर्भस्मृतिश्च, सापि प्रकृतिस्वातन्त्र्यांशे भेदांशे सोपाधि- रश्मिः । सांख्योपपादने तात्पर्याभावात् । 'यद्वा तद्वा तदुच्छित्तिः पुरुषार्थस्तदुच्छित्तिः पुरुषार्थः' इति सूत्रेण तदुच्छित्तौ तात्पर्यात् । तदुच्छित्तिः स्वस्वामिभावस्योच्छित्तिः । 'द्वयोरकतरस्य वा औदासीन्यमपवर्गः' इति सूत्रान्तरात् । तदंश इति । सांख्यरीतिकमहदादिखरूपे । नित्यानुमेयेति तथा च न श्रुतिविरोधो नापि विकल्प इति भावः । मन्वादिषु नित्यानुमेयश्रुतिमूलकत्वम् । अत्र तु शिवाविष्टकपिलसांख्य- वित्त्व्यकरणाङ्गमूलम् । व्युत्पादितमिति व्यवस्थाया इत्यर्थः । अन्याचार्यमते तूक्तभाष्योक्तार्थः । माध्वास्तु इतरेषां तासु स्मृतिषूक्तानां फलानां प्रत्यक्षतोऽनुपलब्धेरप्रामाण्यं तासामुक्तम् । बशब्देन भागो- पलब्धिरङ्गीकृतेति भाष्येण फलार्थकभितरपदमाहुः । फलानामGroupलव्धत्वे तु नेयमनया । सांख्य- युक्तिभिः संकोचोऽस्ति न वेति संशयः । युक्त्या श्रुतिविधिनिषेधपरिहारादत्र पादे इति पृथग्विचारः । संको- चोऽस्तीति तावत्प्राप्तं सांख्ययुक्तीनां निरवकाशत्वेन प्रबलत्वात् । अत्र सिद्धान्तोऽभिधीयते । तदुक्त- युक्तीनामप्रयोजकत्वम् । प्रकृतिव्यतिरिक्तानां महदादीनां लोके वेदे चानुपलम्भादिति अत्रापि समन्वयो विषयः । सांख्यस्मृत्या संकोचाभावेऽपि युक्त्या, युक्त्येति भाष्यादत्र श्रुतिविप्रतिषेधपरिहारः । सांख्य- प्रकृतिप्रसङ्गादन्येषामनुपलब्धिसक्ता इंति विषयवाक्यप्रतिषेधकपुराणाघोषेपकसांख्यस्मृतिप्रसङ्गसङ्गत्या- त्मकसंबन्धेन श्रुतिविप्रतिषेधपरिहारः, अतो नाभ्यासः ॥ २ ॥ इति द्वितीयमितरेषामित्यधिकरणम् ॥ २ ॥ एतेन योगः प्रत्युक्तः ॥ ३ ॥ एतेनेत्यस्य सांख्योक्तदूषणनिचयेनेत्यर्थो न संभवति योगे करणत्वानुपपत्तेः । यत्तु 'एकं सांख्यं च योगं च यः पश्यति स पश्यति' इति तत्त्वतिदेशकं वाक्यम् । अत एतेनेत्यस्यातिदेशकवाक्यादतिदेशेनेत्यर्थः । तथा चातिदिष्टेन सांख्यदूषणनिराकरणेन योगः प्रत्युक्त इति सूत्रार्थः । अतिदेशमिति असादृश्यशङ्काविषये योगे सांख्यसादृश्यप्रतिपादनरूपम् । न तु 'अन्यत्रैव प्रतीतायाः कृत्स्नाया धर्मसंततेः । अन्यत्र कार्यतः प्राप्तावतिदेशः स कथ्यते' इति पूर्वतन्त्रीयातिदेशस्य विकृतिविषयत्वात् । योगस्य सांख्यविकृतित्वाभावात् । योगस्मृतिनिराकरणं सं- कोचयन्ति योगस्मृतिरिति । 'अथ योगानुशासनम्' इत्यादियोगस्मृतिः पातञ्जलदर्शनम् । तत्रैव 'पूर्वेषामपि गुरुः कालेनानवच्छेदात्' इति सूत्रे गुरुर्भवा च तस्य स्मृतिः वैखानसमतप्रसिद्धा । प्रकृतीति । आदिपदेन प्रकृतिः समवायिनी पुरुषो निमित्तमित्यंशः । भेदांश इति ध्यानं योगः, ध्येयो बालेशश्चेति भेदो रामानुजभाष्येऽस्ति । सोपाधिकेति । 'क्लेशकर्मविपाकाशयैरपरामृष्टः 1081