अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1188, कुल 2600 में से
संदर्भ में पढ़ें१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० २ सू० १ . भाष्यप्रकाशः। केश्वररूपांशे च निराकृतेत्यर्थः । पृथक्तया निराकरणप्रयोजनमाहुः वैदिकत्वशङ्कये- ति श्वेताश्वतरोपनिषदि, 'त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिवेश्य' इति 'पृथ्व्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते, न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्' इत्यादिमन्त्रार्थसंवादाद् वैदिकत्वशङ्कया । इदं चातिदेश- सूत्रम् । अतिदेशश्चात्रासादृश्याशङ्कायां सादृश्यप्रतिपादनरूपः । तेनात्रैवं संशयादिकं बोध्यम् । योगस्मृतावपीश्वरस्वाम्युपगमान्मोक्षसाधनतया वेदान्तविहितयोगस्याभिधानाद् वक्तुर्हिरण्य- गर्भस्य वेदवेदान्तप्रवर्तनेऽधिकृतत्वात् तद्वाक्यस्य सर्वेषां पूज्यत्वात् पतञ्जलेरपि तथात्वात् त