अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1191, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १७ भाष्यप्रकाशः । स्वविवक्षितस्मृतेः समूलत्वबोधनेन तत्स्मृतिप्रामाण्ये निराकृते श्रुतिविप्रतिषेधं युक्त्या प्रदर्श्य प्रत्यवतिष्ठन्तं युक्त्या निराकर्तुमधिकरणान्तरमारभते । तत्र मास्तु सांख्यादिस्मृत्या सम- न्वयस्य बाधस्तथापि तदीयेन तर्केण बाधो भविष्यतीति पूर्वपक्षमाह सूत्रद्वयेन । तद् व्या- कुर्वन्ति बाधक इत्यादि । सांख्यस्मृत्या समन्वयबाधाभावेपि तदीयतकैण बाधो भवति न वेति संशये समन्वयबाधकोयं तर्क इत्यर्थः । तर्कस्वरूपं तु, खोत्प्रेक्षिता युक्तिस्तर्क इति तर्काप्रतिष्ठानसूत्रे वक्तव्यम् । ननु पूर्वतन्त्रे वेदस्य परानपेक्षं प्रामाण्यं व्यासमतानुसारेण जैमिनिना औत्पत्तिकसूत्रे स्थापितमिति तर्कनिमित्तकस्याक्षेपस्य कोत्रावकाश इति चेदित्थम्, तत्र हि'अव्यतिरेकश्चार्थेनुपलब्धे' इत्यनेन साध्यविषय एव तथात्वमिति प्रतीतेः । सिद्धविषये वेदान्ते, मन्तव्य इति द्रष्टव्यवाक्यैकदेशदर्शनाद् युक्तिभिरनुचिन्तनस्य च मननपदार्थत्वादत्र तर्कसापेक्षितत्वादस्त्यवकाश इति । सूत्रं व्याचक्षते अस्येत्यादि । अचेतनत्वमन्येषामपि विलक्षणधर्माणामुपलक्षकम् । कारणपदं चांशित्वस्य । अत्र च, नेति साध्यनिर्देशः । तथा च पूर्वोक्तं चेतनं निर्दोषं ब्रह्म न जगदुपादानम् । जगद्विलक्षणत्वात् । यद् यद्विलक्षणं तन्न तदु- पादानम् । घटविलक्षणतन्तुवदिति । तथा, ब्रह्म न जीवानाम् अंशिभूतम् । जीवविलक्षणत्वात् । यद् यद्विलक्षणं तन्न तदंशिभूतम् । रूप्यखण्डविलक्षणसुवर्णवदिति । वैलक्षण्यं च, ब्रह्मण- श्वेतनस्य ज्ञानात्मकस्य शुद्धस्य शब्दात् प्रमितस्य, जाड्यमोहात्मकत्वतुच्छत्वादिविशिष्टाज्जगतः रश्मिः । स्मृतित्वेन तुल्यबलम् । स्वविवक्षितेति कृष्णवाक्यानुसारेण शास्त्रार्थस्य शुद्धब्रह्मवादत्वात्स्ववि- वक्षितस्मृतिर्गीतास्मृतिः तस्याः स्मृतेर्व्याससूत्रमूलत्वबोधनेन । तेषां सांख्यानां सांख्यादिस्मृतीनां प्रामाण्ये मुख्यशङ्के निराकृते । श्रुतीति । नन्वस्तु गीतास्मृत्या 'सदेव सोम्येदमग्र आसीत्' इत्यादौ 'यतो वा इमानि'इत्यादौ चोक्तत्रिसूच्याऽभिन्ननिमित्तोपादानत्वम् । गीतेतरस्मृतीनां मुख्ये वेदान्तशास्त्रेऽप्रामाण्यात् । परं तु अभिन्ननिमित्तोपादानत्वं कार्यापेक्षं कार्यं तु जडमिति न तद्विलक्षणे- भिन्ननिमित्तोपादानत्वापेक्षाऽतस्तदर्थं स्मृतिप्रामाण्यखण्डनं मुख्यशङ्केऽपि नेति उक्तश्रुत्योरभिन्ननिमित्तो- पादानांशे श्रुतिविप्रतिषेधस्तम् । समन्वयस्येति ब्रह्मण्यभिन्ननिमित्तोपादानप्रतिपादकत्वेन समन्वयस्य । तर्क इति पूर्वपक्षरूपः । उपोद्धातोध्यायसङ्गतिः । सामान्यविशेषभावः । अधि- करणानां प्रसङ्गः । सांख्येन योगस्मरणात् तदनु तद्युक्तिस्मरणात् । 'स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः' । औत्पत्तिकेति 'औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात्' इति सूत्रं पूर्वमीमांसायां व्याकृतम् । तर्कनिमित्तेति परो यस्तर्कस्तन्निमित्तस्य, परसापेक्ष्यसंपादकस्येत्यर्थः । अनुपलब्ध इति भूते भाविनि चार्थे इति तर्कपादपक्षेर्थः तयोः साध्यत्वम् । विधिपादपक्षे तु सत्संप्रयोगेऽग्निहोत्रादिरूपेऽनुपलब्धेऽनधिगतार्थ- गन्तृत्वरूपे प्रमाणप्रमित इत्यर्थः । तत्रापि तयोः साध्यत्वम् । एवं च साध्यविषये । एवकारस्तु न हि सिद्धमनुपलब्धं भवतीति । तथात्वमिति परानपेक्षं प्रामाण्यम् । द्रष्टव्यवाक्येति 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रुतिवाक्यैकदेशदर्शनात् । विलक्षणेति तान् स्वयमेवाग्रे वक्ष्यन्ति । सूत्रार्थमाहुः अत्र चेति । भाष्ये चेतनं जिज्ञासासूत्रादनुवृत्तं ब्रह्मेत्याहुः चेतनमिति । चेतनमित्यस्य व्याख्यानं निर्दोषं ब्रह्मेति । अयं पक्षः, नेति जगदुपादानत्वाभाववत्, इदं साध्यम् । उपलक्षितधर्मानाहुः जाड्येति । आदिपदेन मन्दत्वादि ३ ब्र० सू० २० THE ASIATIC SOCIETY KOLKATA 85207 6.9.85