अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1195, कुल 2600 में से
संदर्भ में पढ़ेंभूत्वा मुखं प्राविशत्'इत्येवमादिविशेषानुगतिभ्यामभिमानित्वमित्यर्थः । देव- तापदं च श्रुत्यन्तरे ॥ ५ ॥ दृश्यते तु ॥ ६ ॥ परिहरति । तुशब्दः पक्षं व्यावर्तयति । दृश्यते हि कार्यकारणयोर्वैरूप्यम्, भाष्यप्रकाशः। रूपामनुगतिं च न ब्रूयादतस्तथेत्यर्थ इति । विशेषपदस्यार्थान्तरमाहुः देवतापदमित्यादि । 'हन्ताहमिमास्तिस्रो देवताः' इति देवतापर्द तेजोबन्नानां विशेषणं छान्दोग्ये । 'एता ह वै देवता अहंश्रेयसे विवदमानाः' इति कौषीतकिब्राह्मणे च प्राणानां विशेषणमित्यर्थः ॥ ५ ॥ तथा च जगतोऽचेतनत्वेन विलक्षणत्वाद् ब्रह्मोपादेयत्वानुपपत्तेस्तर्कानुगृहीतस्मृत्यनुरोधेन जगतः प्रधानोपादेयत्वं प्रतिपाद्यते । एवं जीवेपि भेद एव प्रतिपाद्यते । नित्यत्वादिकथनात् । ततश्च ईक्षत्यादय उपादानत्वप्रतिपादकाः, पादत्वादयोंशत्वप्रतिपादकाश्च सत्प्रतिपक्षत्वादा- भासाः । तस्मात्, 'कारणत्वेन चाकाशादिषु'इति सूत्रे यद् यथाव्यपदिष्टस्य कारणत्वमुक्तं, तत् प्रत्यक्षविरोधादसङ्गतमित्येवं प्राप्ते सिद्धान्तसूत्रं पठन्ति । दृश्यते तु ॥ ६ ॥ तद् व्याचक्षते तुशब्द इत्यादि । वैरूप्यमिति वैलक्षण्यम् । अत्रायमर्थः । विलक्षणत्वेन ब्रह्मणो जगत्कारणत्वं दूषयतो भवतः, किं कार्यकारणयोः सर्वधर्मैः सारूप्यं विवक्षितम्, उत केनचिद् धर्मेण, अथवा येन धर्मेण कारणं वस्त्वन्तराद् व्यावर्तते तेन धर्मेण । नाद्यः । लोकविरुद्धत्वात्, सर्वांशसारूप्ये कार्यकारणभावहानिप्रसङ्गात्, प्रकृतिगतानां गुणसाम्यत्वसर्वमूलत्वादीनां विकृतिष्वभावेन विलक्षणतया प्रकृतेरपि कारणता- भङ्गप्रसङ्गात्, तत एव ब्रह्मणः कारणत्वसिद्धौ हेतोर्थान्तरसाधकत्वापत्तेश्च । न द्वितीयः । अतिप्रसङ्गापत्तेः, सच्चिदानन्दरूपाद् ब्रह्मणः सदंशाज्जडानां चिदंशाज्जीवानामानन्दांशाद- न्तर्यामिणां व्युच्चरणमिति तत्तत्सारूप्यस्य तत्र तत्र विद्यमानत्वाद् भवदुक्तेर्हेतोः स्वरूपासिद्धे- रश्मिः। इत्यादीना' इति । विशेषणमिति 'तेजोबन्नात्मिका देवताः' इति । इत्यर्थ इति तथा च देवतापद्ं विशेष इत्यर्थः ॥ ५ ॥ सिद्धान्तसूत्रमवतारयन्ति तथा च जगत इति । रामानुजाचार्योक्तजीवब्रह्मवैलक्षण्यमाहुः एवं जीवेपीति । भेद एव विशिष्टाद्वैतत्वात् । सांख्यैकदेशिनां तु उपाधिर्भिद्यते न तद्वानित्युक्तमेव । उपादानेति हेतव इत्यर्थः । ब्रह्म उपादानम्, ईक्षतेः सत्त्वात् सालक्षण्यादिति जीवा अंशाः पादत्वादिति च । सत्प्रतिपक्षा इति नोपादानं विलक्षणत्वात्, ब्रह्म विलक्षणम् विज्ञानमित्या- दिशब्दात्, ब्रह्म नोपादानं क्षीरवदपेक्षितरूपहेत्वन्तरभावाच्चेत्याभासाः । दृश्यते तु ॥ ६ ॥ तेनेति देहादीनां येन धर्मेण वस्त्वन्तराद्व्यावृत्तिस्तेन । किंच चेतनत्वेन । लोकेति सारूप्यस्य भेदनिबन्धनत्वेन घटयोः संभवविषययोरपि वक्तुमशक्यस्य तथात्वात् । 'सागरः सागरोपमः' इत्यादौ सर्वांशसारूप्यमभेदेपि वर्तत इति दूषणन्तरमाहुः सर्वांशेति । तत एवेति विलक्षणत्वादेव । हेतोः विलक्षणत्वस्य । अर्थेति पूर्वसूत्रेणैः कारणत्वाभावः । अर्थान्तरं कारणत्वम् । अतीति द्रव्यत्वपृथिवीत्वादिभिर्घटपटयोरपि तदापत्तेरिति । भवदुक्तेरिति ब्रह्म न 1089