अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1194, कुल 2600 में से
संदर्भ में पढ़ें२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ४ सू० ५.
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५ ॥ 'मृदब्रवीत्', 'आपोऽब्रुवन्', 'तत् तेज ऐक्षत', 'ते ह वाचमूचुस्त्वं न उद्गाय' इति । एवमादिश्रुतिभिर्भूतेन्द्रियाणां चेतनत्वं प्रतिपाद्यत इत्याशङ्क्य तुशब्देन निराकरोति, तत्तदभिमानिन्य एव देवतास्तथा वदन्ति । कुतः । वेद एव 'विज्ञानं चाविज्ञानं च'इति चेतनाचेतनविशेषोक्तेः । अनुगतत्वाच्च । 'अग्निर्वाग्
भाष्यप्रकाशः। श्रुत्याप्युक्तम् । किंच । वेदान्तैर्जगतो ब्रह्मोपादानताप्रतिपादननिश्चये घटादीनां चैतन्यशक्ते- र्चैतन्यस्य च तेष्वनुद्भूतसत्ताया निश्चयस्तन्निश्चये च सति वेदान्तैर्जगतो ब्रह्मोपादानताप्रति- पादननिश्चय इत्यन्योन्याश्रयः, तस्मान्न विलक्षणयोः कार्यकारणभाव इत्यप्याहुः ॥ ४ ॥ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५ ॥ ननु किं सालक्षण्यं प्रकृति- विकारयोरभिप्रेतं यदभावाज्जगतो ब्रह्मोपादानत्वासंभवं ब्रूषे । न तावद्धर्मसालक्षण्यम् । मृत्पिण्डघटयोः पिण्डत्वाद्यभावस्य प्रत्यक्षतो निश्चयात् । अथ यत्किंचिद्धर्मसालक्षण्यं तदा तु सत्तया सालक्षण्यं वर्तत एवेति । यदि च येन धर्मेण कारणभूतं वस्तु वस्त्वन्तराद् व्यावृत्तं तेन धर्मेण सालक्षण्यमभिप्रेतम् । तादृशं चात्र चेतनत्वम् । तदभावाच्च जगतः कार्यत्वमिति ब्रूषे, तदा तु, 'मृदब्रवीत्', 'आपोऽब्रुवन्', 'ते ह प्राणा वाचमूचुः', 'ते ह प्राणा अहंश्रेयसे वि- वदमाना ब्रह्माणं जग्मुः' इत्यादिषु मृदादीनां चेतनक्रियाश्रवणात् पुराणेषु नदीसमुद्रादीनामपि चेतनत्वस्मरणाच्च तेष्वपि सालक्षण्यमाश्रयणीयम् । तर्के श्रुत्यनुग्रहसत्त्वात्त्वयापञ्चीकारादित्या- शङ्कायामुत्तरं पठतीत्याशयेन व्याकुर्वन्ति मृदित्यादि । निराकरोतीति पूर्वपक्षी निराकरोति । कुत इति अभिमानिन्यो देवता एवात्राभिप्रेता इति कुतोवगम्यते । विशेषपदं व्याचक्षते वेद एवेत्यादि । तथा च यदि चेतनत्वं सर्वत्राभिप्रेयात्, यदि चोक्तवाक्येष्वभिमानिन्यो देवता अभिप्रेता न स्युस्तदा उक्तश्रुतौ विभागं विशेषरूपं न ब्रूयात् । 'अग्निर्वाग्'इत्यादिनानुप्रवेश-
रश्मिः। अन्योन्याश्रयः स्पष्टः । तस्मादित्यन्योन्याश्रयात् ॥ ४ ॥ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५ ॥ सांख्यसनन्दनाचार्योऽत्र प्रति- भाति 'लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः' इति सांख्यप्रवचनसूत्रात् । प्रकृतेः स्वस्वामिभावादिः लिङ्गशरीरनिमित्तक इति प्रवचनकर्तृत्वात् । श्रीभागवते च श्रुतिगीतायां सनन्दनाचार्यः । सूत्रे च तुना पूर्वसूत्रोक्तनिराकरणमाह । तदेतदभिसंधायाहु