अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1193, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १९ भाष्यप्रकाशः । सूत्रे अस्येतिपदं देहलीदीपकवदग्रेऽपि संबध्यते । तथात्वं च विलक्षणत्वम् । ननु विलक्षणत्वस्य प्रत्यक्षसिद्धत्वात् तेन हेतुना ब्रह्मणो जगत्कारणत्वे जगतश्च तत्कार्यत्वे दूषिते किमिति शब्देन विलक्षणत्वसाधनमित्याशङ्कायामाहुः प्रत्यक्षस्येत्यादि । प्रत्यक्षस्य भ्रान्तित्वं मन्यमानस्य सांख्यैकदेशिनस्तादृशं वेदान्तिनं प्रति स्वमतोपष्टम्भकमिदं विलक्षणत्वस्य श्रौतत्वबोधकं वचनं चेतनाचेतनविभागस्य श्रुतावपि दर्शितत्वादित्यर्थकम् । तथा चायं तर्कादिरप्रामाणिकः, श्रुति- विरुद्धत्वात्, बाध्रतर्कादिवदित्यप्रामाण्यसाधने, प्रामाणिकः श्रुतितात्पर्यगोचरत्वात् सत्तर्कादिव- दिति प्रतिसाधनेन तस्याभासीकरणार्थमेतत्कथनमिति भावः । रामानुजाचार्यास्तु जीवे ब्रह्मवैलक्षण्यबोधनायापि श्रुतिमाहुः 'स