अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1202, कुल 2600 में से
संदर्भ में पढ़ें९८ | श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ४ सू० ६. भाष्यप्रकाशः। सकाशाद्विवृत्तापि सा मूढैरज्ञानिभिरात्मैव दृष्टा आत्मभेदात्मकं विक्षेपमुत्पादयन्त्येवेयं दृष्टा । अतो भेदसेवासापि जडत्वादिविशिष्टस्य व्यञ्जिका सती, अस्य जगतः साङ्ख्यरीतिकसिद्ध- त्वनैयायिकादिरीतिकसिद्धत्वाभ्यां मीमांसकप्रतिपन्नस्वतन्त्रत्वमायावादिप्रतिपन्नास्वतन्त्रत्वेन च रश्मिः। आत्मभेदात्मकमित्यादि । एतेन सत्त्वतमोभ्यामनपहतं रजो विक्षेपशक्तिः स विक्षेपो न विवक्षितः । आत्मनोऽभिन्नाक्षरस्य जीवजडभेदानां व्युच्चरितानां संबन्धरूपभेदानामपि आत्मानः रूपाणि येन कालकृतमायाधर्मक्षोभरूपविक्षेपेण स आत्मभेदात्मकस्तम् । एवकारतात्पर्यार्थपूर्वकमाहुः उत्पाद्- यन्तीत्यादिना । ज्ञानकाशा एव । इत्थं वमतीत्येवकारः यौगिकार्थः । रूढार्थकमाहुः एवेति । अवधारणं रूढार्थः । दृष्टपदालम्बमाहुः इयमिति । दर्शनं प्रत्यक्षम् । इदमस्तु प्रत्यक्षभेदरूपमिति । अस्येति जगतः, आत्मसृष्टिव्यतिरिक्तस्य । व्यञ्जिकेति सर्वरूपभगवत्संबन्धात्सर्वप्रतिकृतिरूपेत्यर्थः । मूलरूपोपरि संचायकरूपेति यावत् । तदेतत् 'सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः' इत्यस्य सुबोधिन्यां स्फुटम्, तत्रापि 'अवस्थितेरिति काशकृत्स्नः' इति मतमत्र सिद्धं भविष्यतीत्युक्त्वोक्तम् । अस्येति श्रौतमिदं व्याख्येयं पदम् । सत्त्वमसत्त्वं च दर्शायतीत्यनयोपनिषदन्तरोक्ता सदसती माया स्मारिता । सती सात्त्विकी । असती तामसी । पदार्थसत्त्वदर्शिका सती । उत्तरकालिकबाधेनासती । राजसी त्वग्रे वक्तव्या । हेतुपूर्वकं व्याकुर्वन्ति । अत्रान्यख्यातिर्न । ज्ञानकाशा यतो माया न तु स्वरूपलक्षणलक्षिता । अतो यां कांचिद् ख्यातिमाहुः साङ्ख्यरीतिकेति । साङ्ख्यरीतिरेव रीतिर्यस्य सिद्धत्वस्य । अयमर्थः । तमोरूपा मायेत्युक्तं तमःकार्यं भ्रमः स च ब्रह्मप्रकारकब्रह्मविशेष्यकज्ञाने ब्रह्मविदामपि घटत्वादिकारकं ज्ञानं जायते तच्च तदभाववति तत्प्रकारकत्वाद् भ्रमः । इयमन्यख्यातिर्न । बुद्धेः ख्यातिः सा, माया तु करणमिति । अतो ग्रहस्मरणात्मिका ख्यातिः । अतः शुक्तौ रजतवत् ब्रह्मणि संचायकजगद्रूपो भ्रमः । स च ब्रह्मग्रहः घटत्वादिस्मरणमिति सांख्यरीतिकं सिद्धत्वम् । अनेन सत्त्वम् । अन्यथा खपुष्पमपि स्मरेत् । ननु तर्हि घटादिज्ञानवद्ब्रह्मविदामपि भ्रमो न निवर्तेत तत्तद्विशेषदर्शनेपीत्यत आहुः नैयायिकेति । नैयायिकादिरीतिरेव रीतिर्यस्यासिद्धत्वस्य । आदिपदेन मायावादी । अयमर्थः । विशेषदर्शनेन ब्रह्मविदां घटत्वादिस्मरणनिवृत्तिः विषयाऽविद्या- नाशात् । ब्रह्मत्वप्रकारकब्रह्मविशेष्यकज्ञानात् । 'सर्वं खल्विदं ब्रह्म' इति श्रुतेः । तथा चासिद्धत्वं घटत्वादीनामन्यथाख्यातेः । अन्यप्रकारस्तु न तिष्ठति बहुकालम् । अनिर्वचनीयान्यथाख्यातेर- सिद्धत्वं सुज्ञेयम् । अतो विशेषदर्शनेन निवर्तेतामित्यर्थः । अनेनासत्त्वम् । अन्यथा न निवर्तेत । कार्यविषय उक्त्वा मायाविषय आहुः मीमांसकेति । स्वसिद्धान्ते माया स्वतन्त्रा कर्तृरूपा, अस्वतन्त्रा कार्यरूपा बहिः क्षिप्ता बुद्धिः, तयोर्द्वंद्वे समाहारः । यदाहुः ख्यातिवादे पुरुषोत्तमाः । 'यन्मायया बहिः क्षिप्ता ख्यायते बुद्धिरर्थवत्' इति । 'स्वतन्त्रः कर्ता' इति पाणिनीयसूत्रात्कर्त्री । माययेत्युक्त्वा स्वतन्त्रा । बुद्धिस्त्वस्वतन्त्रा, कर्मत्वात् । अग्रे उभयोः समाहारः । अयं भ्रमो मूलरूपे संभवति मूलरूपोपरि संचायरूपे अग्रेपि स्वतन्त्रास्वतन्त्रत्वेनेत्येव । तथाहि मीमांसका हि जीवानां भेदं वदन्त एकमीश्वरं न मन्यन्ते । कर्मातिरिक्तस्य तस्याभावं च । तन्नु वेदान्तेऽविद्यया कृतमवीर्यवत्तरं भवति । अतोत्र स्वतन्त्रं कर्म । प्रवाहतानादित्वात् । अविद्यावत्कृतत्वान्माया । 'धर्मः प्रोज्झितकैतवोत्र' इत्यत्र सुबोधिन्यां द्रष्टव्यम् । एतदुक्तं मीमांसकप्रतिपन्नस्वतन्त्रत्वेनेन ग्रन्थेन । मायावादीति । 1096