अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1203, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २९ भाष्यप्रकाशः । सत्त्वमसत्त्वं च दर्शयतीति तयैवायं भेदवादादिप्रतिपन्नजगद्रूपोऽपि भ्रम इत्यर्थः । ततो ननु तस्याः कथमेवं जगद्रूपो भेदरूपश्च परिणाम इत्याकाङ्क्षायामुभयं दृष्टान्तेनाह 'सैषा वटबीजसामान्यवदनेकवटशक्तिरेकैव' इति । तथा च सामर्थ्येनैकस्या अनेकविधः परिणाम इत्यर्थः । अत्रापि कश्चिदर्थोऽतिगोप्य इति विशेषबोधनाय दृष्टान्तं व्याकृत्य दार्शन्तिके केन- चिदंशेन योजयति 'तद्यथा वटबीजसामान्यमेकमनेकान् स्वान्यतिरिक्तान् वटान् स्वबीजानुत्पाद्य तत्र तत्र पूर्णं संतिष्ठत्येवमेवैषा माया स्वान्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा रश्मिः । सोपाधिके कर्तृत्वात्साऽस्वतन्त्रा । एतादृशस्वतन्त्रास्वतन्त्रत्वसमाहारः मूलरूपोपरि संशायरूपेति । सत्त्वमित्यादि कार्यरूपेऽसिद्धत्वेन मायारूपे स्वतन्त्रास्वतन्त्रत्वेन सत्त्वं दर्शयति । कार्यरूपेऽसि- द्धत्वेन मायारूपे स्वतन्त्रास्वतन्त्रत्वेनासत्त्वं दर्शयतीत्यर्थः । करणत्वं मत्वाहुः तयैवेति । षष्ठ्यतो मायाभेदो वारितः । मायान्तरव्यवच्छेदक एवकार इति । भेदवादो नैयायिकादीनाम् । आदि- पदेन संसारः । तदादिप्रतिपन्नः जगत्प्रतिनिधितया प्राप्तः । प्रसिद्धजगति रूपमस्य भेदसंसारादि- ज्ञानरूपभ्रमस्य । अपिशब्देन मूलरूपोपरि संशयकभ्रमस्य समुच्चयः । अस्याः शक्तित्वेनोप- स्थितौ सदानन्दस्य जगत्कर्त्री शक्तिर्द्वितीयस्कन्धनवमाध्याये उक्ता तद्व्यावृत्त्यर्थमग्रिमग्रन्थमवतारयन्ति ततो नन्विति । वटबीजेति । तेन चिदंशशक्तिर्व्यामोहिका मायेत्युक्तम् । वटः शस्रः शिवः चित्, 'वेदः शिवः शिवो वेदः' इति वाक्यात् । 'नाम चिद्विवक्तन'इत्यृग्वेदे । वटबीजयोः सामान्यम् । 'वटान् स्वबीजान्' इति वक्ष्यमाणश्रुतेः, तद्वत् । 'नित्यमेकमनेकानुगतं सामान्यम्' इति सामान्यलक्षणादनेकवटशक्तिरेकैव । व्यामोहिका चिदंशस्य शक्तिरिति वटरूपशङ्करश्चिद्रूप उक्तः । सामर्थ्येनेति दृष्टान्तसामर्थ्येन । अत्रापीति व्यञ्जकेतिश्रुतिवदत्रापि । अतिगोप्य इति 'भक्तिरहस्यभजनं तदिहामुत्र फलभोगनैराश्येन....मनःकल्पनमेतदेव च नैःकर्म्यम्' इति पाठे न तु भक्ति- रस भजनमिति पाठे तदैव 'उत्कर्षश्चापि वैराग्ये हरेरपि हरिर्यदि' इत्युक्तः । ननु शृङ्गारो भगवान् सहि- कर्तेति चेन्न । इच्छासृष्टिः शृङ्गारः प्राज्ञ इति न किंचिदेतत् । अयमपि गोप्यः । तद्विद एव जानन्ति यतः । तदुक्तं 'स्वरूपलाभाञ्ज परं विषेते' इति 'सोऽश्नुते सर्वान्कामान्' इति च । सायुज्यमोक्षरूपत्वा- द्भगवतः । जीवानामात्मनां चाक्षरात्मकत्वात् । पुरुषोत्तमसाम्यत्वात् । अदृश्यत्वाधिकरणोक्तः 'केभाः स्त्रियोऽवनचरीः' इत्यत्र निरूपितमित्यलम् । वटबीजसामान्येति योजयति तद्यथेति । पूर्णमिति वटत्वं बीजत्वमेकं नित्यमेकानुगतमिति पूर्णम् । वतिप्रत्ययार्थं योजयति एवमेवेति । अनेकवटत्वस्या अर्थ एषा मायेति । यथा सामान्यमात्मा वैयाकरणमत एवं मायात्मरूपा ज्ञानकाशा यतः । परिपूर्णानीति परीति मूलरूपम् । पूर्णानीति सामान्यज्ञानापन्नमायाविशिष्टानि । क्षेत्राणि शरीराणि । दर्शयित्वेत्याधुनिकमायाविवत् । ईशदेहे ईशं तमोरूपा तमोपिहातारं करोति । जीवं स्वस्या उपाधिसन्निर्वाहायाणुबहुरूपमनेकं व्यापकं बृहदारण्यकोक्तं क्रोधमयं करोति । तमोरूपत्वा- देव । क्रोधमयोऽक्रोधमय इति बृहदारण्यके शान्तोपि जीवः 'शान्तं शिवं चतुर्थं मन्यन्ते' इति शान्तः 1097