अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1204, कुल 2600 में से
संदर्भ में पढ़ें३० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० १ अ० ४ सू० ६. भाष्यप्रकाशः। जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति' इति । अत्र च वटस्थानापन्नानि क्षेत्राण्यनेकत्वस्थानापन्नं परिपूर्णत्वं स्वाव्यतिरिक्तत्वं तूभयत्रापि समानम् । उत्पादनस्थाने परस्मै प्रदर्शनम् । तत्र पूर्णसंस्थितिस्थाने द्वयोराभासेन करणं स्वस्य द्विधाभवनं चेति विशेषः । तथा सति जगद्रूपेषु क्षेत्रेषु जडत्वं मोहात्मकत्वमनन्तत्वं तुच्छत्वं च यद् भासते तत् तेषामेतद्व्यतिरिक्तत्वादेतदीयम् । किं च क्षेत्रप्रदर्शनोत्तरं द्वयोराभासेन करणोक्त्या आभासभूतयोर्जीवेशयोर्न द्रष्टृत्वं किं तु परमात्मन एवोभयद्रष्टृत्वम् । स्वद्वैधीभावोक्त्या च द्विविधाभासाधारत्वं बोधितम् । इयं च परमात्मनः सकाशाद्भित्यनिवृत्तेति न तदुपाधिः, किं तु जले चन्द्रकिरणवदविभक्त एव योऽशोऽस्यां प्रविशति त