अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1205, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३१ भाष्यप्रकाशः। चैतन्यदीप्ता' इति । अत्र चित्रत्यादिमिश्रतुर्भिः क्रमेण जगतो विचित्राकारे जडत्वे मोहा- त्मकत्वे संख्याकृते आनन्त्ये तुच्छत्वे च तत्स्वभावो हेतुत्वेनोक्तः । अङ्कुरेष्वपि गुण- भिन्नेत्यनेन तदङ्कुरभूतानां गुणानामपि प्रत्येकं संघातत्वं नानाप्रकारकव्यष्टिप्रस्तारप्रयो- जकत्वायोक्तम् । एतावदुपादानतानिर्वाहकं सर्वत्र ब्रह्मविष्णुशिवरूपिणीति सृष्ट्यादित्रि- विधकर्तृत्वनिर्वाहकम् । तच्च रूपत्रयं नास्याः, किं त्वेतद्रूपत्रयमस्यां ब्रह्मण इति बोधनाय चैतन्यदीप्तेत्युक्तम् । तदेतन्निगमयति 'तस्मादात्मन एव त्रैविध्यं योनित्वमपि' इति । यस्यादियमाभासाधारभूता माया चैतन्यदीप्त्यैव ब्रह्मादित्रिरूपवती तस्मादात्मन एव त्रैविध्यम् । आभासाभास्रयोः समानाकारत्वस्यैवानुभवात् । अत्र त्रैरूप्यमिति वक्तव्ये त्रैविध्यमिति यदुक्तं तेनाविद्यायामपि देवमनुष्यासुरभेदभिन्नत्रिविधजीवप्रयोजकं रूपमप्यात्मन एवेति बोधितम् । यस्याच्च चैतन्यदीप्त्या दर्शयित्र्येव, न तु कर्त्री, तस्माद् योनित्वं निमित्तकारणत्व- मप्यात्मन एवेति । तथा चाभासनिमित्तत्वं जगन्निर्माणृत्वं च शुद्धस्यैव साकारस्येति बोधितम् । रश्मिः । जीवतुल्यतापादकत्वात्पूर्वोक्तमायावृत्तान्तः कथमिति प्रश्नः । चतुर्भिरिति विशेषणैः । विचित्रेति सदसती, तमोरूपा, योगमाया चेति माया त्रिधा, तास्वाधिदैविकी यदा तदा चित्रा योगमाया, चित्रा- पदस्य सुभद्रावाचकत्वात् विचित्रा चैतन्यदीप्तत्वात् । विचित्राकारे विरुद्धधर्मातिरिक्तविरुद्धधर्मैर्वि- चित्राकारेऽतिगोप्येर्थे आधिदैविकविशिष्टाकारे । संख्येति बहुत्वसंख्याकृते । बह्वङ्कुरेति श्रुतेः न परममहत्परिमाणकृते । जडत्व इति । स्वभाव इति तस्याः परिणामो जगत् यतः स्वभावः । स्वभावः परिणामहेतुः । उक्त इति चित्रादिपदेनोक्तः । यदि चित्रस्वभावो न स्यात् । विचित्राकारं जगन्न स्यात् । सुदृढेति क्षेत्रस्थांक्षीनि जडानि न भवेयुर्यदि सुदृढस्वभावो न भवेदिति जडत्वे सुदृढ- पदेन स्वभाव उक्तः, अतिगोप्यार्थे शोभना दृढा । सेवोपयोगो दृढसंहननाङ्गस्य सांख्य उक्तः । न च 'न यत्र माया'इति मायानिषेधः । चैतन्यदीप्तत्वान्निषेधो न भविष्यति । कृष्णावतारसमये वा योज्या । बह्वङ्कुरेति क्षेत्रेषु जगद्रूपेष्वित्युक्तत्वादबह्वोऽङ्कुरा मोहादिरूपा नवोद्भिदो यस्याः । अति- गोप्यार्थे नवीनभावा ज्ञेयाः । यदि बह्वङ्कुरस्वभावो न स्यात् मोहादिविशिष्टं न स्यात् जगत् इति मोहात्मकत्वे बह्वङ्कुरापदेन स्वभाव उक्तः । स्वयं गुणभिन्नेति क्षेत्रेषु गुणा भिन्नाः बह्वङ्कुरात्वात् । अन्यथा मायायाः कृत्स्नप्रसक्तिः स्यात् । यदि स्वयं गुणभिन्नस्वभावो न स्यात् । मायोच्छेदभिया जगद्गुणुवन्न स्यात् । अत आनन्त्ये स्वयं गुणभिन्नपदेन स्वभाव उक्तः । तुच्छत्वं पञ्चमं पूर्वमुक्तप्रयोजनम् । यदि तुच्छस्वभावो न स्यात् जगत्तुच्छं न स्यादिति तुच्छत्वे पूर्वश्रुत्युक्ततुच्छपदेन स्वभाव उक्तः । जगद्गुण- वन्न स्यादित्युक्तयुक्त्या जगद्गुणवदिति सिद्धं तत् । मायाङ्कुरजगत्सु अङ्कुरावशिष्टेस्तेषु चाहेत्याशये- नाहुः अङ्कुरेष्विति । तदङ्कुरेति मायाया जगतश्च नवोद्भिद्गतानाम् । प्रत्येकमिति सत्त्वादीनां प्रत्येकं विष्ण्वादिसंघातत्वम् । नानेति सात्त्विकासात्त्विकादिभेदेन नानाप्रकारका व्यष्टिदेहप्रस्तारास्तेषां प्रयोजकत्वायोक्तम्, कारणत्वाय तु मूलरूपसृष्टपञ्चमहाभूतादि । चैतन्यदीप्तेति ब्रह्मगुणेन चैतन्येन दीप्तेति ब्रह्मादिरूपवतीत्यर्थः । तस्मादिति सदाभासाधारत्वात् । एवकारस्तु 'सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास धत्ते । स्थित्यादये हरिविरञ्चिहरेति संज्ञा' इति वाक्यात् । अनुभवादिति । चन्द्रादिद्वैताभासः तिर्यग्दृष्टेः समदृष्टिविषयः । न तु कर्त्रीति । इदं ब्रह्मविष्णुशिव- विष्णुविषयम् । तेनोलाघयेत्यस्य दर्शयित्वेति व्याख्यानमविरुद्धम् । बोधितमिति । तेन माया च 1099