भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३१ भाष्यप्रकाशः। चैतन्यदीप्ता' इति । अत्र चित्रत्यादिमिश्रतुर्भिः क्रमेण जगतो विचित्राकारे जडत्वे मोहा- त्मकत्वे संख्याकृते आनन्त्ये तुच्छत्वे च तत्स्वभावो हेतुत्वेनोक्तः । अङ्कुरेष्वपि गुण- भिन्नेत्यनेन तदङ्कुरभूतानां गुणानामपि प्रत्येकं संघातत्वं नानाप्रकारकव्यष्टिप्रस्तारप्रयो- जकत्वायोक्तम् । एतावदुपादानतानिर्वाहकं सर्वत्र ब्रह्मविष्णुशिवरूपिणीति सृष्ट्यादित्रि- विधकर्तृत्वनिर्वाहकम् । तच्च रूपत्रयं नास्याः, किं त्वेतद्रूपत्रयमस्यां ब्रह्मण इति बोधनाय चैतन्यदीप्तेत्युक्तम् । तदेतन्निगमयति 'तस्मादात्मन एव त्रैविध्यं योनित्वमपि' इति । यस्यादियमाभासाधारभूता माया चैतन्यदीप्त्यैव ब्रह्मादित्रिरूपवती तस्मादात्मन एव त्रैविध्यम् । आभासाभास्रयोः समानाकारत्वस्यैवानुभवात् । अत्र त्रैरूप्यमिति वक्तव्ये त्रैविध्यमिति यदुक्तं तेनाविद्यायामपि देवमनुष्यासुरभेदभिन्नत्रिविधजीवप्रयोजकं रूपमप्यात्मन एवेति बोधितम् । यस्याच्च चैतन्यदीप्त्या दर्शयित्र्येव, न तु कर्त्री, तस्माद् योनित्वं निमित्तकारणत्व- मप्यात्मन एवेति । तथा चाभासनिमित्तत्वं जगन्निर्माणृत्वं च शुद्धस्यैव साकारस्येति बोधितम् । रश्मिः । जीवतुल्यतापादकत्वात्पूर्वोक्तमायावृत्तान्तः कथमिति प्रश्नः । चतुर्भिरिति विशेषणैः । विचित्रेति सदसती, तमोरूपा, योगमाया चेति माया त्रिधा, तास्वाधिदैविकी यदा तदा चित्रा योगमाया, चित्रा- पदस्य सुभद्रावाचकत्वात् विचित्रा चैतन्यदीप्तत्वात् । विचित्राकारे विरुद्धधर्मातिरिक्तविरुद्धधर्मैर्वि- चित्राकारेऽतिगोप्येर्थे आधिदैविकविशिष्टाकारे । संख्येति बहुत्वसंख्याकृते । बह्वङ्कुरेति श्रुतेः न परममहत्परिमाणकृते । जडत्व इति । स्वभाव इति तस्याः परिणामो जगत् यतः स्वभावः । स्वभावः परिणामहेतुः । उक्त इति चित्रादिपदेनोक्तः । यदि चित्रस्वभावो न स्यात् । विचित्राकारं जगन्न स्यात् । सुदृढेति क्षेत्रस्थांक्षीनि जडानि न भवेयुर्यदि सुदृढस्वभावो न भवेदिति जडत्वे सुदृढ- पदेन स्वभाव उक्तः, अतिगोप्यार्थे शोभना दृढा । सेवोपयोगो दृढसंहननाङ्गस्य सांख्य उक्तः । न च 'न यत्र माया'इति मायानिषेधः । चैतन्यदीप्तत्वान्निषेधो न भविष्यति । कृष्णावतारसमये वा योज्या । बह्वङ्कुरेति क्षेत्रेषु जगद्रूपेष्वित्युक्तत्वादबह्वोऽङ्कुरा मोहादिरूपा नवोद्भिदो यस्याः । अति- गोप्यार्थे नवीनभावा ज्ञेयाः । यदि बह्वङ्कुरस्वभावो न स्यात् मोहादिविशिष्टं न स्यात् जगत् इति मोहात्मकत्वे बह्वङ्कुरापदेन स्वभाव उक्तः । स्वयं गुणभिन्नेति क्षेत्रेषु गुणा भिन्नाः बह्वङ्कुरात्वात् । अन्यथा मायायाः कृत्स्नप्रसक्तिः स्यात् । यदि स्वयं गुणभिन्नस्वभावो न स्यात् । मायोच्छेदभिया जगद्गुणुवन्न स्यात् । अत आनन्त्ये स्वयं गुणभिन्नपदेन स्वभाव उक्तः । तुच्छत्वं पञ्चमं पूर्वमुक्तप्रयोजनम् । यदि तुच्छस्वभावो न स्यात् जगत्तुच्छं न स्यादिति तुच्छत्वे पूर्वश्रुत्युक्ततुच्छपदेन स्वभाव उक्तः । जगद्गुण- वन्न स्यादित्युक्तयुक्त्या जगद्गुणवदिति सिद्धं तत् । मायाङ्कुरजगत्सु अङ्कुरावशिष्टेस्तेषु चाहेत्याशये- नाहुः अङ्कुरेष्विति । तदङ्कुरेति मायाया जगतश्च नवोद्भिद्गतानाम् । प्रत्येकमिति सत्त्वादीनां प्रत्येकं विष्ण्वादिसंघातत्वम् । नानेति सात्त्विकासात्त्विकादिभेदेन नानाप्रकारका व्यष्टिदेहप्रस्तारास्तेषां प्रयोजकत्वायोक्तम्, कारणत्वाय तु मूलरूपसृष्टपञ्चमहाभूतादि । चैतन्यदीप्तेति ब्रह्मगुणेन चैतन्येन दीप्तेति ब्रह्मादिरूपवतीत्यर्थः । तस्मादिति सदाभासाधारत्वात् । एवकारस्तु 'सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास धत्ते । स्थित्यादये हरिविरञ्चिहरेति संज्ञा' इति वाक्यात् । अनुभवादिति । चन्द्रादिद्वैताभासः तिर्यग्दृष्टेः समदृष्टिविषयः । न तु कर्त्रीति । इदं ब्रह्मविष्णुशिव- विष्णुविषयम् । तेनोलाघयेत्यस्य दर्शयित्वेति व्याख्यानमविरुद्धम् । बोधितमिति । तेन माया च 1099

३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० १ अ० ४ सू० ६. भाष्यप्रकाशः। तदेतद् व्युत्पादयन् पूर्वमाभासयोर्वैलक्षण्यमाह 'अभिमन्ता जीवो नियन्तेश्वरः' इति । तयोरुभयो- राभासत्वे तुल्यत्वे कथमेवं वैलक्षण्यमित्याशङ्कायां तत्प्रयोजकं रूपमाह 'सर्वाहंमानी हिरण्य- गर्भरूप ईश्वरवद् व्यक्तचैतन्यः सर्वगो हि' इति । हिर्हेतौ । यस्मादयं सर्वाहंमानी सर्वगः समष्टित्त्वादविद्या व्यष्ट्युपाधयो जीवास्तत्तदभिमन्तारः । यस्मादीश्वरवद् व्यक्तचैतन्यस्तस्मात् ते नियन्तारः । यस्मात् त्रिरूपस्तत्तदङ्कुरोपाधयो ब्रह्मादयोऽपि प्रत्येकं तादृशाः । दृष्टान्ती- भूत ईश्वरः को वेत्यत आह 'एष ईश्वरः क्रियाज्ञानात्मा' इति । एष इति प्रक्रान्तः परमात्मा । तथा च तस्य क्रियात्मकत्वात् तत्प्रतिरूपोऽयं सर्वाहंमानी, तस्य ज्ञानात्मकत्वादयं व्यक्त- [

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११

भाष्यप्रकाशः । स्वल्पमिति बोधितम् । एवं कार्यमाभासश्च व्युत्पादितः । तेन कारणत्वमाभासत्वं च दृढी- कृतम् । अतः परं जीवात्मनां मुख्यवृत्त्या प्रणवप्रतिपाद्यत्वं निगमयितुं परमात्मन एवा- वस्थाभेदं क्रियाभेदं चाह 'स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्याऽमूढो मूढ इव व्यवहरन्नास्ते माययैव तस्माद्द्वय एवात्मा' इति । तथा च यः स्रष्टा स एवांशेन प्रविश्य द्विधा व्यवहरति मायया, न तु द्विधा भवतीति मूलविचारे स एवायं स्वस्य रूपं प्रणवप्रतिपाद्यतां च नानुसंधत्ते, किं त्वस्ति तदभिन्न इत्यर्थः । एतदेवाद्वायत्वं दृढीकर्तुं द्वादशस्वरूपलक्षणान्याह 'सन्मात्रो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभुरद्वय आनन्दः परः प्रत्यगेकरसः प्रमाणैरैतैरवगतः' इति । अत्राभास- स्यापि प्रत्यक्त्वात् तद्व्यवच्छेदार्थमेकरसपदम् । अयमेव च मुख्यो हेतुः । एतेन परत्वे सिद्धे

रश्मिः । तर्ह्यन्यख्यातिलागोऽख्यातिश्चापद्येतेति चेत् । 'द्व्यचश्चन्दसि' इति विकारे मयड् भवतु । तेन शुक्त्युपादान- त्वं रजते शुक्ताविदं रजतमित्यत्र क्वचित्सुबोधिन्युक्तं सिद्धम् । ईश्वरोणुव्यापकत्वविशिष्टः जीवा- स्त्वणव इत्यल्पा इति नार्थो मायादिवैशिष्ट्याज्जीवानामिलाहुः तेनेति । स्वल्पमिति व्याख्याना- त्सुः । तथा च सुतरामल्पं सर्वधर्मजातम् । एवमिति कार्यं भगवत्कृतम् । आभासो मायाकृतः । दृढीति प्रक्रान्ते दृढीकतम् । जीवात्मनामिति सर्वे जीवा इत्यनेन स्मृतानामुपेक्षानर्हत्वात्सङ्क- सङ्गल्या जीवनिरूपणप्राप्तजीवात्मनाम् । परमात्मन इति । मण्डूकोपनिषदि 'ॐमित्येकाक्षरं इदं सर्वं तस्योपव्याख्यानम्' इत्युपसंहारार्थाय एवकारः । अवस्थाभेदः कार्यावस्थया भेदः क्रियाभेदः प्रवेशभेदः तावाह स वा इति । ब्रह्मणस्तुरीयं रूपमुक्तम् । शिवस्य तुरीयं त्वं शैवाचार्यमते । विष्णोराह श्रुतिः । स महतः स्रष्टा । वै निश्चयेन । चरणादिरूपः । अन्यथा- क्षरात्सृष्टिनिरूपकमुण्डकविरोधः । एवमपादस्तूरीयः । 'विष्णोस्तु त्रीणि रूपाणि' इति वाक्यात् । तत्समानयोगक्षेमत्वात्तुरीयः परः पुरुषः । भूतानि पञ्चमहाभूतानि स्थूलदेहस्थानापन्नानि । इन्द्रियाणि सूक्ष्मदेहस्थानापन्नानि । तदुभयरूपं विराजम् । देवताः खराडपि इन्द्रियदेवताः । कोशा आनन्दमयाधिकरणे उपपादिताः । अमूढ इति । जगत्कर्त्री शक्तिः सदानन्दस्य न व्यामोहिका तस्याभिच्छक्तित्वात् । व्यवहरन्निति कृष्णभजनातिरिक्तं कुर्वाणः । मूढपदेन 'अयमेव महामोहो हीदमेव प्रतारणम् । यत्कृष्णं न भजेत्प्राज्ञः शास्त्राभ्यासपरः कृती' । तदर्थं घटो भिन्नः पटो भिन्नः ब्रह्म भिन्नं प्रतिमा भिन्ना जगद्भिन्नं ईश्वरो भिन्न इति व्यवहरन् । उभयत्र हेतुः माययेति । मोहिका भेदजनिका मायेति भजनश्रुत्या 'भक्तिरहस्सभजनम्' इत्याद्यया । 'यया मत्तयेश्वरे मनः' इति भागवतेन च विरोधाद् द्वैतविरोधाच्च । तस्मादिति मोहभेदादीनां मायिकत्वात्तश्च 'कार्यकारण- योरैक्यमर्पणं पटतन्तुवत्' तस्मात् । द्विधेति 'द्वौ सुपर्णो' सृष्टसृज्यरूपे वा महत्स्रष्ट्रब्रह्माण्डरूपौ विष्णू वा । मायया भेदकया तमोरूपया । अमूढो मूढ इति मोहादिरूपमायासंबंधः । द्विधेति अंशी द्विधा न भवति । स एवायमिति परमात्मैवायं जीवः । ननु तस्य त्वमिति विग्रहे 'तत्त्वमसि' इत्यत्र कृते कथमभेद इति चेन्न । कार्यकारणवत्त्वैक्यमर्शनार्थमभेद इति । अस्येति जीवस्य । निरञ्जनान्तं जीवस्वरूपम् । विभुत्वं परममहत्परिमाणवत्त्वं तच्च साधनैर्मुक्तस्य रूपम् । अद्वयो ज्ञानमार्गे । आनन्दो भक्तिमार्गे जीवन्मुक्तौ च । परः पुष्टिमार्गे । प्रत्यगेकरसः सर्वा- त्मभावे । प्रति प्रतिनिधिमञ्चतीति प्रत्यङ् । भगवद्रूपो भगवन्तं गच्छति पूजयति च । एकरसः प्रचुररसः । प्रचुरभजनानन्दानुभावुकः । एतैरिति शब्दैः । एकरसपदमिति । तेन लक्षणेषु द्वादशत्वं

५ प्र० सू० २० 1101

१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ४ सू० ६ . भाष्यप्रकाशः। तत आनन्दत्व इत्येवं द्वादशलक्षणफलसिद्धौ निष्प्रत्यूहं परमात्माभेदसिद्ध्या प्रणवप्रतिपाद्य- त्वं निगमितं भवतीति । एवं सजातीयद्वैते निराकृतेऽपि जगतोऽविद्यायाश्च विद्यमान- त्वाद् विजातीयद्वैतापत्त्या शुद्धाद्वैतसिद्धौ जीवोऽपि नित्यभिन्न एवाङ्गीकार्यः स्यादित्या- शङ्कां निवारयितुं जगतोऽविद्यायाश्च सद्रूपत्वेन ब्रह्माभेदमाह 'सत्तामात्रं हीदं सर्वं सदेव पुरस्तात् सिद्धं हि ब्रह्म न ह्यत्र किंचनानुभूयते नाविद्यानुभवात्मनि स्वप्रकाशे सर्वसाक्षि- ण्यविक्रियेऽद्वये' इति । हि यतो हेतोः सत्तामात्रमिदं सर्वं सृष्टिपूर्वकाले सदेव । यथा पृथुबुध्नोदराद्याकारा वस्तुतो मृद्धर्मा इति घटादयो मृन्मात्रत्वान्मृदेव, तथा सति हि नि- श्चयेन विकारस्य व्यवहारार्थतया वस्तुतः सदात्मकत्वाद् ब्रह्मत्वं सिद्धम् । हि यतो हेतोर्यत् सविक्रियं तदादावन्ते चाविक्रियम् । अत एतस्य सत आद्यन्तावस्थाविचारे यत् किमपि कार्यमविद्या च तत् सत्त्वेनैवानुभूयते, न तु प्रतिनियतेन तेन तेन रूपेणातो विजातीय- द्वैतस्याप्यभावाच्छुद्धाद्वैतसिद्धिरित्यर्थः । तदेतत् स्वयमनुभवँस्तानप्युपदिशति 'पश्यतेहापि रश्मिः। व्यवस्थापितम् । प्रत्यक् चासावेकरस इति । अन्यथा स्वरूपलक्षणेषु प्रत्यक्पदं पठितं स्यात् । अयमेवेति प्रत्यगेकरस एव । एकरसस्य ब्रह्मत्वं प्रसिद्धम् । हेतुरिति विशेष्यस्य हेतुगर्भत्वात् । हेतुर्मुख्यवृत्त्या प्रणवप्रतिपाद्यत्वे । विपरीतक्रमेणाहुः एतेनेति । प्रयोजनं तु पाठक्रमोक्त एव । आनन्दत्व इति सिद्ध इति पूर्वेणान्वयः । एवं सजातीयेति मुख्यया वृत्त्या प्रणवप्रति- पाद्यत्वेन साजात्यं तेनाभेदेऽद्वैतं विवक्षितम् । अविद्याया इति विद्याविरुद्धा संपत् । अतो जगतो- विद्यायाश्चासत्त्वं भावनामात्रतो विषया नाशाच्च निरूपणीयमतः सद्रूपत्वं तेनेत्यर्थः । सत्ता- मात्रमिति । चिदानन्दावग्रे वक्तव्यौ । चिदानन्दयोः प्रच्छन्नत्वात् । अत उक्तम्, इदमिति । इदमस्तु प्रत्यक्षगे रूपमिति युक्तम् । सदेवेत्येवकारेण प्रच्छन्नव्यवच्छेदः । वस्तुतो मृद्धर्मा इति । ननु तन्तुकपालादिधर्मा न तु मृद्धर्माः । मृदित्युपलक्षणं ज्ञेयम् । घटादय इत्यग्रे उक्तेः मृदादि- धर्मा इति चेन्न । तन्तुकपालादिधर्मत्वे 'यदेकमव्यक्तमनन्तरूपम्' इत्युक्तब्रह्मरूपत्वत्यागापत्तेः । एवं तु तन्तुकपालाद्याकारा घटाद्याकाराश्चेश्वरस्येति 'मृत्तिकेत्येव सत्यम्' इति श्रुतेः सत्यधर्मा इत्यर्थः । घटाद्यभेदोपादानाय मृत्त्वेनोपादानमतो वस्तुप्राप्य प्रत्यक्षाश्च मृद्धर्माः । सिद्धं हि इत्यादिश्रुतिं विवृण्वन्ति तथा सति इति । वस्तुत इति भेदत्यागेन । न ह्यत्र इत्यादिश्रुतिं विवृण्वन्ति हि यत इति । सविक्रियमिति जगत् । अविक्रियमिति अव्यक्तरूपम् । 'अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनानि' इति वाक्यात् । आद्यन्तावस्थेति । तेनाविचार- दशायामेतद्गतसदासत्त्वेन प्रतीतावपि न क्षतिरिति बोधितम् । अविद्या चेति । मायाविद्ययोस्तु मायाचिदंशस्य शक्तिरिति जगत्स्वभावात्तु विद्यायाश्चासत्त्वाभावाच्च सत्त्वेनानुभवनिरूपणं प्रास- ङ्गिकमित्यविद्यामात्रग्रहणम् । सत्त्वेनैवेति । प्रच्छन्नचिदानन्दव्यवच्छेदक एवकारः । 'मनसैवानुद्रष्टव्यम्' इति श्रुत्याहुः न तु प्रतीति । तेन तेनेति घटत्वादिरूपेण । स्वगतद्वैतस्यानन्दचिद्धनमन्तरासंभवा- द्ब्रह्मवादमुपदिदेशेत्याहुः तदेतदिति । स्वयं ब्रह्मा । तान् शुद्धाभेदजिज्ञासून् देवान् उप- दिशतीति वेदान्तव्याख्यानत्वाद्भोगमात्रं दिश अतिसर्जने अतिसर्जनं दानम्, उपददाति । पश्यत 1102

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३५

भाष्यप्रकाशः। सन्मात्रमसदन्यत्' इति । इहापि जडमोहात्मके जगत्यपि अन्यत्त्वेन प्रतीयमानं यज्जडादि- रूपत्वं तदसत् । अतस्तदनादृत्य सर्वं सन्मात्रं पश्येदित्यर्थः । ननु जडादिरूपताप्याकारादि- वदसि औत्पत्तिकी प्रतीयत इति कथं सन्मात्रत्वमवधारणीयमित्याकाङ्क्षायां तदवधारण- प्रकारमाह 'सत्यं हीत्थं पुरस्तादयोनि स्वात्मस्थमानन्दचिद्धनं सिद्धं ह्यसिद्धं तत्' इति । हि यतो हेतोः सत्यं सद्रस्तु, पुरस्तात् सृष्टिपूर्वकाले, इत्थं सर्वाकारम्, अयोनि अजन्यं, स्वात्मस्थं स्वप्रतिष्ठम्, आनन्दचिद्धनम् आनन्दचिदाकारमेव सिद्धम् । हि अतो हेतो- र्निश्चयेन वा तज्जडमोहात्मकत्वमसिद्धम् । तथा चेदानीं जडादिरूपताया औत्पत्तिकत्वेन प्रतीयमानत्वेऽप्यविद्याभिभवविरहदशायामप्रतीतेरान्तरालिकमेव

६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ५ सू० ७. असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥ ( २-१-५ ) श्रुतौ कारणत्वेनासदुक्तमितिचेन्न प्रतिषेधार्थमेव वचनम् । कथमसतः सञ्जा- भाष्यप्रकाशः। ब्रह्माभेदाय प्रतिपादितम् । अविद्याया अनुज्ञायामान्तर्भावश्च प्रतिपादितः । तत् सर्वं मत्कृत- नृसिंहतापनीयदीपिकातोऽवगन्तव्यम् । अत्र प्रयोजनाभावान्नोच्यते । इदमत्र प्रसङ्गादुक्तम् । माध्वास्तु, 'न विलक्षणत्वात्' इति सूत्रं पठित्वा ततो, 'दृश्यते तु' इति सूत्रं पठन्ति । द्विसूत्रमधिकरणं चाहुः । श्रुतेस्तदनुसारिस्मृतेश्च न पाशुपतादिस्मृतिवदप्रामाण्यम् । कुतः विलक्षणत्वात् । नित्यत्वेन पुरुषाजन्यतया तद्वैलक्षण्यात् । अस्य वेदस्य तथात्वं नित्यत्वं च शब्दात् 'वाचा विरूपनित्यया' इत्यादिरूपात् स्वतःप्रामाण्याच्च । अन्यथाऽनवस्थितेरिति चार्थमाहुः । ततोऽभिमानिव्यपदेशसूत्रं पठित्वा, 'दृश्यते च'इत्यधिकं सूत्रं पठन्ति । तदपि सूत्र- द्वयात्मकमधिकरणान्तरमित्याहुः । तत्रापि, वेदः प्रमाणं न, मृदब्रवीदित्यादौ प्रत्यक्षविरुद्ध- वादित्वादिति पूर्वपक्षनिरासं तुना कृत्वा, मृदब्रवीदित्यादिषु तदभिमानिव्यपदेशस्तासां वि- शेषानुगतिम्यां सामर्थ्यव्यापकत्वाभ्यामङ्गीक्रियतेऽतो न प्रत्यक्षविरोधः । तासां सामर्थ्यं च महद्भिर्दृश्यतेऽतः प्रत्यक्षविरोधाभावान्न श्रुतिप्रामाण्यभङ्ग इत्यर्थं चाहुः ॥ ६ ॥ इति चतुर्थं विलक्षणत्वाधिकरणम् ॥ ४ ॥ असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥ पूर्वाधिकरणेन श्रुतौ युक्तिविरोधं परिहृत्य समाकर्षकसूत्रोक्तसार्थस्योपष्टम्भार्थं श्रुत्यन्तरे पुनर्विप्रतिषेधान्तरमाशङ्क्य समाधत्ते अस- दित्यादि । तद् व्याकुर्वन्ति श्रुतावित्यादि । 'असद्वा इदमग्र आसीत्' इति श्रुतावसतः सकाशात् सृष्टिरुच्यते । असच्च सद्भिन्नम्, अभावो वा अलीकं वा । अतस्तदेव कारण- रश्मिः । एतयोरन्यतररूपं विकल्प्यरूपम् । तद्भिन्नं रूपमविकल्परूपं तस्य भावस्तत्त्वम् । अविद्यापि पूर्व- मुक्तेति चेत्तत्राहूः अविद्याया इति । अनुज्ञायामदृश्येऽन्तर्भावः सत्त्वेनानुभवादित्यर्थः । असङ्गतत्वं वारयन्ति स्म इदमत्र प्रसङ्गादिति । उक्तमिति । एवमत्र जगन्नित्यत्वानित्यत्वप्रति- पादकयोः श्रुत्योः स्मृत्योश्च मिथो विरोधाभाव उक्तः भ्रान्तसत्यत्वाभावाय । सूत्रांशं व्याकुर्वन्ति अस्य वेदस्येति । अनवेति प्रमाणानामिति शेषः । तेन दृश्यते च इत्यपि व्याख्यातम् । अत्रापि समन्वयो विषयः । तत्र सच्चिदानन्दानां कारणत्वोक्त्या चेतनं कारणं न वेति संशयः । चेतनं ब्रह्म जगदुपादानं न जगतो जडत्वेन ब्रह्मणस्तद्वैलक्षण्यादिति प्राप्तेऽभिधीयते कार्य- कारणयोर्वैलक्षण्यस्य गोमयवृश्चिकादौ दर्शनात् सदंशस्य कार्यकारणयोस्तुल्यत्वेन सालक्षण्याच्च न ब्रह्मणोकारणत्वमिति । द्वितीयसूत्रार्थमाहुः तास्तमिति । आहुरिति । वेदप्रामाण्यं स्वमते प्रतितन्त्रसिद्धं नात्र विषयः ॥ ६ ॥ इति चतुर्थं विलक्षणत्वाधिकरणम् ॥ ४ ॥ असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥ समाधत्त इति । तेन प्रसङ्गः सङ्गतिः पादार्थलक्षणाव्याप्तिश्च परिहृता । विषयोऽसद्वेत्यादिश्रुतिः । असतः कारणत्वमुत सत इति संशयः । सद्भिन्नमिति सत्त्वावच्छिन्नप्रतियोगिताकभेदवत् । अभावोऽत्यन्ताभावः । अलीकं मिथ्या खपुष्पादि । 1104

'ध'! Wait, what is after 'र्या'? Is there a 'त्'? Ah, look at the gap between that word and 'कार्यानुत्पादापत्तिः'. Wait, there is NO 'त्'! It is "वैधर्म्यात्"? But wait, in Sanskrit, ablative can be "वैधर्म्यात्", why would it be "वैधर्म्या"? Could it be "वैधर्म्येण"? No, it has an 'ा' matra. Wait, could it be "वैधर्म्यात्कार्यानुत्पादापत्तिः" where 'त्' is just before 'का'? Look at the space: there is a letter there! Wait, is it a letter or space? Let's zoom in a lot on line 20: "तेषां वै... " Let's read the whole sentence: "अत आत्मनामनेकत्वापत्त्या तेषां वैधर्म्यात् कार्यानुत्पादापत्तिः । अत्र नव्यैः प्रागभावः खण्डितः" Yes, philosophically: if atman-s are many, and due to their vaidharmya (difference in adrishta/attributes), there would be non-production of effects. Wait, look at the letters: ते - ष - ा - ं [space] व - ै - ध - र् - म् - य - ा - त् [space] क - ा - र् - य - ा - न - ु - त् - प - ा

Here is the line-by-line transcription of the Sanskrit text from the page:

३८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ५ सू० ७. चेनेति । कार्यस्य वा पूर्वप्रतिषेधो ब्रह्मकारणत्वाय ॥ ७ ॥ भाष्यप्रकाशः। नोक्तः । अत्र त्वसभिषेधे हेतुरुक्तः सोन्यत्राप्युभेयः । तत्तत्प्रतिषेधावधारणाणां वाक्यानां तत्रैवोदाहृतत्वादिति । एवं स्वमतेन व्याख्याय प्रस्थानान्तरीयव्याख्यानसंग्रहायाहुः कार्य- स्येत्यादि । वाशब्दोऽनादरबोधनाय । एतत्कार्थस्य असद्व्यपदेशसूत्रे प्रपञ्चनीयत्वादिति । उक्तश्रुतौ, इदं कार्यमुत्पत्तेः पूर्वमसदासीदित्युच्यते । तथा च कार्यस्योत्पत्तेः पूर्वकाले सत्ता- प्रतिषेधो ब्रह्मकारणत्वबोधनायेति सत्कार्यवादः श्रुतिविप्रतिषिद्ध इति चेन्न । कुतः, प्रति- षेधमात्रत्वात् । असद्वेति वाक्यस्य कार्यावस्थानिषेधावधारकत्वात् । न ह्ययं निषेधः प्रागुत्पत्तेः कार्यसत्तां निषेद्धुं शक्नोति । इदानीमपि कार्यस्य कारणात्मनैवात्मलाभात् प्रागप्युत्पत्तेस्त- दात्मत्वस्य बाधाभावेन कार्यत्वे परिदृश्यमानं यदागन्तुकं स्थूलं रूपं तन्निषेधावधारकत्वात् । तथा च न सत्कार्यवादः श्रुतिविप्रतिषिद्ध इत्यर्थः । न च कार्यगतस्य व्यवहार्यरूपस्या- गन्तुकत्वे तस्य पूर्वमसत्त्वात् तद्दृष्टान्तेनासत्कार्यवादः पुनः प्रसज्यत इति वाच्यम् । कारणे तस्यापि सत्त्वात् । न च तादृशव्यवहारापत्तिस्तीति वाच्यम् । तादृशभगवदिच्छाभावा- दुपपत्तेः । न च तादृशेच्छाभावे मानाभावः । इच्छायाः कार्यकोशेयत्वेन कार्याभावानु- भवस्यैव तत्र मानत्वात् । इदं यथा तथा विद्वन्मण्डनीयाविर्भावतिरोभाववादविवरणे निपुण- तरमुपपादितमिति नात्र प्रपञ्च्यते । इदं चात्र वैषम्यनैर्घृण्यसूत्रवत् 'परप्रसिद्ध्या परो बोधनीयः' रश्मिः । हेतुः । अन्यत्रेति 'समाकर्षात्' 'असद्व्यपदेशात्' इत्यधिकरणयोः । तत्रैवेति सूत्रभाष्य एव । उदाहृतत्वादिति । यथा समाधिकरणे सर्वशब्दवाच्यत्वात्, तथा च भाष्यम् 'सर्वशब्दवाच्यत्वं तु सिद्धं ब्रह्मणः' इति । असद्व्यपदेशाधिकरणे 'असन्नेव स भवति असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः' इति तदग्रे 'असद्वा इदमग्र आसीत्' इति तैत्तिरीये इत्युदाहृतम् । प्रस्थानेति प्रस्थानान्तरं शांकरभाष्यप्रमेयं विद्वन्मण्डनप्रमेयं चेत्युभयं तदीयेत्यर्थः । व्याख्यानेति स्वोदितशंकराचार्योदितव्याख्यानस वैषम्यनैर्घृण्यसूत्रभाष्यवत् सङ्ग्रहाय । तत्रापि यो विशेषस्तं वक्तुं सूत्रार्थं प्रस्थानान्तरीयपक्ष आहुः उक्तश्रुताविति । ब्रह्मकारणत्वेति कारणस्य कार्य- नियतपूर्ववर्तित्वात् । सत्कार्यवाद इति सत्त्वं द्विविधं व्यावहारिकं पारमार्थं च तत्र व्यावहारिकं सोपाधि जन्यजगन्निष्ठम् । श्रुतीति तृतीयासमासः । कार्यावस्थेति यथा घटे ध्वस्ते मृदः कार्यावस्था नास्तीति, तथा चायं विशेषस्तैर्विवर्तत्वस्वीकारात् । अयमिति प्रतियोगिज्ञानरहितः । निषेद्धुमिति निषेधस्य प्रतियोगिज्ञानसापेक्षत्वादिति भावः । कारणात्मनेति यथा कटकं सुवर्णमिति सुवर्णात्मना कार्यस्यात्मलाभः । कारणानन्यत्वात्कार्यस्य । एवकारः स्वातन्त्र्यव्यवच्छेदकः। स्थूलमिति व्यवहार्यम् । तद्दृष्टान्तेनेति । सोपाधिकसमवायिकं जगत् असत् कृतकत्वात् आगन्तु- कस्थूलकार्यवदित्यनुमानम् । सत्त्वादिति । एतावत्पर्यन्तं शंकरभाष्योक्तं स्ववचोमिरुपनिबद्धम् । परंतु परप्रसिद्ध्या परो बोधनीय इत्यत्र बोधनीयांशस्य स्वकीयत्वात्स्वकीयविद्वन्मण्डनोक्तं किंचिदाहुः न च तादृशेति । पूर्वस्मिन्पक्षे 'समाकर्षात्' इत्यधिकरणोक्तेरुक्तविशेषेपीतरप्रयोजनाभावान्द द्वितीयस्यानुपादेयत्वात् । 'वैषम्यनैर्घृण्य' सूत्रे वस्तुतस्तु आत्मसृष्टेर्वैषम्यनैर्घृण्यसंभावनैव नास्तीत्यादिना पूर्वग्रन्थस्य वादिबोधनार्थत्वोक्तेरत्रापि तथाल्याय पक्षान्तरं वक्तुमाहुः इदं चेति । परेति । यथा सुखिनो दुःखिनश्च कुर्वन् विषमो निर्घृणश्च भवेदिति शङ्कमानं बोधयितुं तादृशकर्मानुरोधेन सुखदुःखे प्रयच्छतीत्युक्तम् । तथात्रासद्दित्यादिश्रुत्या सत्कारणतां शङ्कमानं प्रति प्रतिषेधार्थमेव 1106

सा - [?] - द्वी - ति or म्प्र - ती - ति? Wait, line 4 says: "तस्या असाधुत्वमत्र प्रतिपाद्यते"! Line 15: "आहोस्विदसाधुत्वम्"! Line 19: "सृष्टेरसाधुत्वप्रतिषेधमात्रत्वादिति"! Now line 22: "एवं चासती आत्मसृष्टेरसाध्वीति फलितम्"! Look at the letters: अ (a) सा (sā) ध्वी (dhvī) - look at ध joined with व, with dirgha ī: ध्वी! ति (ti)! It is definitely "असाध्वीति" (asādhvīti)! Because 'सती' vs 'असती', so 'साध्वी' vs 'असाध्वी'! "एवं चासती आत्मसृष्टेरसाध्वीति फलितम्"! And then: "तदेतदुक्तं वस्तुतस्त्वित्यारभ्य युक्तत्वादित्यन्तेन ।"

Let's read line 23: अत्रानृतमित्यान्तरकालिकसृष्टिवाती नृसिंहतापिनये च । सा तु न मायाद्वारा सृष्टिवाती । Wait, "सृष्टिवाती" or "सृष्टिवार्ता"? Look at the repha above ता: it is वार्ता! And in line 23: "अत्रानृतमित्यान्तर

४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ५ सू० ८. अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ८ ॥ पूर्वपक्षमाह । अपीतिर्लयः । कार्यस्य कारणलये तद्वत् प्रसङ्गः । स्थौल्य- सावयवत्वपरिच्छिन्नत्वाशुद्धत्वादिधर्मसंबन्धावश्यकत्वादसमञ्जसं ब्रह्मकारण- वचनम् ॥ ८ ॥ भाष्यप्रकाशः। नात्र मत्कल्पनेति बोध्यम् । तथा सत्यस्मिन् पक्षे प्रतिषेधमात्रत्वादित्यस्य साधुत्वप्रतिषेध- मात्रत्वादित्यर्थः संगृहीतो बोध्यः । तथा चासच्छब्दस्य स्वार्थाभ्यावनं यदि नेष्यते तदापि छान्दोग्ये असत्पदस निषेध्यपरत्वम् । तैत्तिरीये तु प्रपञ्चस्थूलावस्थाभावबोधनपरम् । प्रपञ्च- विशेषासाधुताबोधनपरत्वं वा । अतः समाकर्षणानङ्गीकारेऽपि न ब्रह्मकारणताविरोध इत्यर्थः । रामानुजाचार्यास्तु, न विलक्षणेति सूत्रोक्तयुक्त्या जगतो ब्रह्मवैलक्षण्ये ब्रह्मणोपि जग- द्वैलक्षण्यात् तत उत्पन्नस्य जगतो द्रव्यान्तरत्वादसत एवोत्पत्तिः प्रसज्यत इत्येवमस्मिन् सूत्रे असदिति चेदिति भागेनाशङ्क्य, न प्रतिषेधमात्रत्वादिति भागेन परिहरति । 'दृश्यते तु' इत्यस्य पूर्वसूत्रस्य कार्यकारणयोः सालक्षण्यनियमनिषेधमात्रपरत्वान्न कार्यस्य कारणाद् द्रव्यान्तरत्वम् । कृमिगोमक्ष्योरिव वैलक्षण्याभावात् कुण्डलहिरण्ययोरिव द्रव्यैक्यसत्त्वादित्यर्थमाहुः ॥ ७ ॥ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ८ ॥ पूर्वसूत्रेणासत्कारणवादं परिहृत्य श्रुत्यवि- रोधस्थापनाद् ब्रह्मकारणवादे स्थिरीकृते पुनस्तत्र युक्त्या प्रत्यवतिष्ठत इत्याशयेन सूत्रमवतारयन्ति पूर्वपक्षमाहेति । तथा च नेदमसद्वादनिरसकं सिद्धान्तसूत्रमित्यर्थः । व्याकुर्वन्ति अपीतिरि- त्यादि । असमञ्जसमिति सर्वज्ञत्वशुद्धत्वादिविघटकत्वेनायुक्तम् ॥ ८ ॥ रश्मिः। सत्यसृष्ट्युत्तरकालीनः मायामनोमयत्वात् स्वाप्निकैन्द्रजालिकवत् । वचसेत्यादि इदमुक्तं 'शब्द इति चेन्नान्तः प्रभववात्प्रत्यक्षानुमानाभ्याम्' इत्यत्र । पुष्टिमित्यादि 'तदात्मानᳪस्वयमकुरुत' इति । फलाध्यायेति । 'जगद्व्यापारवर्जं प्रकरणादसंनिहितत्वाच्च' इति सूत्रे 'लीलायाः कालमायाव्यतीतत्वेन प्राकृतं जगदितरम्' इति भाष्येण ब्रह्मत्वप्राकृतत्वाभ्यां जगद्भेदे उक्त इत्यर्थः । आहुरिति । श्लोकं समन्वयसूत्रसिद्धम् । माध्वास्तु श्रौतमसन्मतमत्र निषिध्यते इत्याहुः । तत्र 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इति दोषः । भास्करभाष्ये तु शब्दस्पर्शादिहीनाद्ब्रह्मणः शब्दस्पर्शा- दिमत्कार्यं जायत इत्यादि रामानुजाचार्यवदाहुः । इदं सूत्रमिति वक्ष्यन्ति । 'रश्मौ' त्वधिकरणं रचितम् । अन्येप्यत्राधिकरणं रचयन्ति । 'असद्वा इदमग्र आसीत्' इत्यादिश्रुत्या समन्वयो बाध्यते न वेति संशये असतः कारणत्वोक्त्या सतो ब्रह्मणः कारणत्वासंभवात् ब्रह्मकारणताबोधकश्रुतीनां ब्रह्मणि समन्वयो बाध्यत इति पूर्वपक्षे 'कथमसतः सजायेत' इत्यादिश्रुत्या पूर्वोक्तवचनस्य निषेधार्थ- कत्वात्समन्वयो न बाध्यत इति सिद्धमिति । अन्ये पुनर्न विलक्षणत्वाधिकरणं 'एतेन शिष्टापरिग्रह' सूत्रं मर्यादीकृत्याङ्गीकुर्वन्ति ॥ ७ ॥ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥८॥ पूर्वसूत्रेणेति सूत्रेणासूत्रात्मकाधिकरणेन वा । सूत्रमिति सूत्रमधिकरणाङ्गं सूत्रं वा । असद्भावेति । असत्कारणवादो निराकृतोपि तदा स्थिरो भवेद्यदा ब्रह्मकारणवादः समञ्जसः स्यान्न त्वेवमित्येवं ब्रह्मकारणप्रतिपादकश्रुतिषु ब्रह्मकारणवचनं समञ्जसमाहोस्विदसमञ्जसमिति संशये पूर्वपक्षसूत्रं न तु सिद्धान्तसूत्रमित्यर्थः ॥ ८ ॥ १. निर्भयराममहाः । २. शांकराः । 1108

यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी पाठ प्रस्तुत है:

भाष्यप्रकाश-रश्मि-परिवृंहितम्। ४१ न तु दृष्टान्तभावात् ॥ ९ ॥ नैवास्मदीये दर्शने किंचिदसामञ्जस्यमस्तीति तुशब्देन परिहरति । स्वपक्ष- स्थापनपरपक्षनिराकरणयोर्विद्यमानत्वान्न तु वचनम् । तत उत्पन्नस्य तत्र लये न कार्यावस्थाधर्मसंबन्धः शरावरुचकादिषु प्रसिद्धः । भवतां परं न दृष्टा- न्तोऽस्ति ॥ ९ ॥ स्वपक्षदोषाच्च ॥ १० ॥ स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः । निर्विशेषात् प्रधानात् भाष्यप्रकाशः। न तु दृष्टान्तभावात् ॥ ९ ॥ परिहारसूत्रमिदम् । व्याकुर्वन्ति नैवेत्यादि । न तु वचनमिति न तु इति पदद्वयकथनम् । लये नेत्यत्र, लये इति पदच्छेदः । अयमर्थः । ब्रह्मकारणवादे ये दोषाः कार्यप्रलयावस्थामादाय भवता प्रदर्शितास्ते कस्य कार्यस्य कस्मिन् कारणे लये दृष्टा अत्रापाद्यन्ते । लौकिक इति त्वत्सङ्गतम् । शरावादीनां मृदि लये परमाणु- भावापत्तौ स्थौल्यसावयवत्वाद्यदर्शनात् । महापृथिवीरूपत्वे च परिच्छिन्नत्वाशुद्धत्वाद्यदर्शनात् । रुचककटकादीनां च सुवर्णे लये तददर्शनात् । प्रत्युत तैजसानां भाण्डानां मद्यादिसंबन्धेन दुष्टत्वेभिसंबन्धात् तत्स्र्याकारस्य नाशनेन पुनः पूर्वभावसंपत्तौ निर्दोषता स्मर्यते । 'तैजसानां रेतोविण्मूत्रासृक्कुणपादिभिश्चाण्डालसूतिकोदक्यापतितादिभिश्चिरमुपहतानामावर्तनम्' इति । एवं मार्तिकानामपि मृद्भावे । 'वातोद्धृतं रजः शुचि' इति । अतो लोकविचारेऽस्माकं दृष्टान्ताः सन्ति, न भवतामिति ॥ ९ ॥ स्वपक्षदोषाच्च ॥ १० ॥ अथ शास्त्रीये कारणे दृष्टा इत्युच्यते तर्हि स्वगृहमन्वेषयित्वा ततो वक्तव्यम् । तवापि निर्विशेषात् प्रधानात् सविशेषस्य शब्दादिमत उत्पत्तेः कार्य- रश्मिः। न तु दृष्टान्तभावात् ॥ ९ ॥ पदद्वयेति । स्वपक्षस्थापनं नञर्थः । ननु पूर्वपक्षत्वाव- च्छिन्नप्रतियोगिकाभावो नञर्थः । न तु पूर्वपक्षत्वावच्छिन्नतादात्म्यसंबन्धावच्छिन्नप्रतियोगिताको भेदोपि । स स्वपक्षस्थापनेपीति स्वपक्षस्थापनं भेदः तमोवन्न भावप्रतीतिर्नाधिका । भाष्ये स्व- पक्षस्थापनं पूर्वपक्षभेदरूपं क्रियते इति । द्वितीयार्थः स्पष्टः । तथा च युक्त्या श्रुतिविप्रतिषेधपरिहारे सिद्धान्तनिरूपणम् । स्वपक्षस्थापनपूर्वकपरपक्षनिराकरणस्य निरूपणत्वात् गदाधर्याम् । अन्यत्र तु नकारमात्रप्रयोगे स्वपक्षस्थापनमात्रम् । पदद्वयमित्यत्र शक्तं पदम्, न तु सुप्तिङन्तं पदम्, सुपां सुलुका लुप्तत्वेन तन्निमित्ताङ्गकार्यस्याभावात् । रुचकेति रुचकं कण्ठभूषणम् । आदिपदेन कुण्डलम् । चकारेण दार्वीयाणां तक्षणाद्यावर्तनम् । कुणपः शवः । आदिशब्देन मेदः । उदक्या रजस्वला स्त्री । पतितः अतिनिषिद्धकर्मकर्ता । आदिशब्देन महापराधिनो गुरुनिन्दकादयः अपराधिनिरूपणे प्रसिद्धाः । शुचीति तदावर्तितानां शुचित्वम् । दृष्टान्ता इति तैजसदार्वीयमार्तिकाः । भवतामिति असत्कारणवादिनाम् ॥ ९ ॥ स्वपक्षदोषाच्च ॥ १० ॥ एवं लौकिककारणे लये दृष्टान् दोषान्निवार्याथेति भिन्नप्रक्रमेण शास्त्रीये दृष्टान् वितण्डया वारयन्ति स्म अथेति । दृष्टा इति दोषा दृष्टा अत्रापाद्यन्ते । निर्वि- शेषादित्यादिभाष्यं विवृण्वन्ति तवापीति प्रतिवादिनोपि । तस्योत्पत्तिरिति भाष्यं विवृण्वन्ति ६ ब्र० सू० २० 1109

४२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ५ सू० १०. सविशेषस्य कार्यता । तस्योत्पत्तिः । लये तद्धर्मसम्बन्धः असत्कार्यवादप्रसङ्गः । तथैव कार्योत्पत्तौ कारणाभावेन नियमाभावः । भावे वा मुक्तानामपि पुनर्- बन्धप्रसङ्गः ॥ १० ॥ भाष्यप्रकाशः । कारणयोर्विलक्षणत्वम्, कार्यस्योत्पत्तिर्न कारणस्येत्यपि । एवं विलक्षणकार्योत्पत्तावुत्पत्तेः पूर्वं तस्य वैलक्षण्याभावादसत्कार्यवादप्रसङ्गः । सद्भावे च लयेऽपि कार्यधर्मसंबन्ध इति तद्रूपप्रसङ्गः । किंच, सर्वेषामन्तिमकार्यपर्यन्तानां कार्याणां कारणे सत्त्वेन, एतदनन्तरमेतदुत्पत्स्यत इति तथैव कार्योत्पत्तौ तत्क्रमनियामककारणाभावेन क्रमनियमाभावः । अथ नियामककारणमन्तरेणैव नियमोऽभ्युपगम्यते तदा आकस्मिकवादप्रसङ्गः । अथ तत्रापि कारणसत्ताऽभ्युपगम्यते तदोत्पाद- नियामककारणसद्भावे तेनोत्पत्तिः कार्यैवेति मुक्तानामपि पुनर्बन्धप्रसङ्गः । कारणस्य साधारणत्वादिति । तदेतदुक्तं स्वपक्षे चैत इत्यादिना । तथा च दोषसाम्यान्न पर्यनुयोग उचित इत्यर्थः । यद्यपि प्रतिबन्देरनुत्तरत्वादिदं नोत्तरं तथापि पूर्वसूत्रेण निरस्तत्वाद् वादिनो बर्बरत्वनिवृत्तये उक्तं ज्ञेयम् । रश्मिः। कार्यस्येति । इत्यपीति सांख्यानां यथा प्रकृतिपुरुषयोरन्यत्सर्वमनित्यमिति तद्वत् । किंच लये धर्मसंबन्धाभावोपि दोषः इति, भाष्यार्थसमुच्चयेपिः । असत्कार्यत्यादिभाष्यं विवृण्वन्ति एवं विलक्षणेति । लय इत्यादिभाष्यं विवृण्वन्ति सद्भाव इति । तद्रूपश्वेति असत्- स्तद्धर्मवत्त्वप्रसङ्गः । तथैवेत्यादिभाष्यं विवृण्वन्ति किंचेत्यादिना । भाष्ये दोषा विवृता इति स्वयमध्येकदोषमाहुः अथ नियामकेति । आकस्मिकेति चक्रचीवराद्यनन्तरं घटादिः तत्त- द्बीजावापानन्तरं तत्तद्वृक्षायुत्पत्तिरिति क्रमनियमाभावेना कस्मादेव दृष्टकार्योत्पत्तिः । तंत्र युक्ति- र्वटबीजादश्वत्थः स्यादिति कुतो न दृष्ट इति । अस्माकं तु 'नासतो विद्यते भावः' इति वाक्यम् । भावे वेत्यादिभाष्यं विवृण्वन्ति स्म अथ तत्रापीति । कार्येष्वपीत्यर्थः । कारणानां तत्त्वानां सत्ता 'नासतः' इति वाक्यादभ्युपगम्यते । बन्धेति । तत्र हेतुः कारणस्येति । उत्पत्ति- कारणस्य मुक्तामुक्तसाधारणत्वात् । न च मायानाशरूपोत्पत्तिप्रतिबन्धकसत्त्वान्न तत्प्रसङ्ग इति वाच्यम् । औडुलोमिमतेपि चिति लयान्मायासात्त्वात् । चिच्छक्तिर्मियेति द्वितीयमवमाध्यायसुबो- धिन्याम् । न च . सापि नहेति वाच्यम् । शक्तिस्वविरोधात् । न च मोक्षे निःशक्तिः सेति वाच्यम् । 'न विप्रणाशः सर्वेषां कर्मणामिति निश्चयः । कर्मजानि शरीराणि तथैवाकृतयो नृप' इति सात्त्विकादिकर्मद्वारा मायासात्त्वात् । मम तु क्रीडावशगेच्छाभावात्र बन्धः । चिक्री- डिषायां तु जयविजयवद्बन्धो भवत्येवं । प्रतिबन्देरिति शंकरमिश्रकृतखण्डने । तुल्यो दोषः प्रतिबन्दिः । बन्दमते सर्वधातुभ्य इन्जितीन्, तस्येत्यर्थः । तर्हि अस्माकमपीमे दृष्टान्ताः सन्तु इति स्वीकुर्वन्तं प्रति तदभिप्रायमाहुः यद्यपीति । 'स्वमतदोषवंतापि' इति सूत्रेण परमते दोषेषु दत्तेषु 'न तु' इति सूत्रेणोद्भूतेषु नोत्तरत्वम् । 'यत्रोभयोः समो दोषः परिहारश्च तत्समः । नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे' इति 'तर्काप्रतिष्ठान'सूत्रेण ज्ञातम् । अतः 'स्वपक्षदोषाच्च' इत्यनेनो- भयपक्षदोषस्फुरणेन 'न तु' इति सूत्रवैय्यर्थ्यापातादिदं सूत्रं नोत्तरम् । तथापि व्यासप्रामाण्यं सूत्रं न पर्यनुयोगाईमिति पूर्वसूत्रेण निरस्तत्वात् । बर्बरत्वं प्राकृतत्वम् । 'बर्बरः प्राकृतो जनः' इति उणादिद्वितीयपादे उक्तत्वात्तन्निवृत्तये । युक्त्या श्रुतिविप्रतिषेधपरिहारे व्याससूत्रादधिकव्याहारे 1110

an avagraha in अस्यानुपयोगात् in line 32? Line 32: स्थापितमस्थानुपयोगात् । -> wait, स्थापितमस्या or स्थापितमस्थानु? Look at line 32: "स्थापितमस्थानुपयोगात्" or "स्थापितमप्यस्यानुपयोगात्" or "स्थापितमस्थानुपयोगात्"? Wait! Look at the letters: स् - थ - ा - प - ि - त - म - स - थ् - य - ा - न् - ु - प - य - ो - ग - ा - त् Wait, look at line 9: "परिहारसंभवेऽस्यानुपयोगादिति" In line 32: it explains "अस्यानुपयोगात्"! So in line 32, it quotes: "अस्थानुपयोगात्" or "अस्यानुपयोगात्"? Look at the characters: 'स्थापितमस्या-' wait! Is it 'मस्या'? Look at the cluster: स + य = स्य! There is no थ! It's स्य! Wait, look at: "स्थापितमप्यस्यानुपयोगात्" or "स्थापितमस्थानुपयोगात्"? Let's look at line 32, first word: "स्थापितमस्थानुपयोगात्" vs "स्थापितमप्यस्यानुपयोगात्": Letters: स् (s) थ (tha) ा (a

: Line 4: "असतः सकाशाज्जगत्युत्पत्तावुपेतार्यां प्रलये असन्मात्रा-" Wait, look at the letters between 'ज्जगत्युत्पत्तौ' and 'प्रलये': व - ु - प - े - त - ा - य - ां with a repha? Wait, why would there be a repha? "उपेतायां"? Look at line 4 above 'यां': it has a repha-like curl. Could it be a misprint in the book "उपेतार्यां"? Yes, old prints sometimes have typographical errors like that. We should faithfully transcribe what's there, but wait, is it 'उपेतायां' where the curl is just the anusvara? In Devanagari font of this book, anusvara is often a dot, but here there's a slant like repha: 'उपेतार्यां'.

Line 5: वशेषः प्रसज्येत । कार्यनाशे कारणमात्रावशेषनियमात् । अतोऽसमञ्जसमन्मतमिति । दृष्टान्त- Wait, "अतोऽसमञ्जसमन्मतमिति" - wait, could it be "अतोऽसमञ्जसमस्मन्मतमिति"? In Madhva's commentary on this sutra: Does Madhva say: "अतोऽसमञ्जसं तन्मतमिति"? Yes, Madhva Bhashya on 2.1.9: "

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४५ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥ ११ ॥ वेदोक्तेऽर्थे शुष्कतर्केण प्रत्यवस्थानमयुक्तम् । तर्कस्याप्रतिष्ठानात् । तर्को नाम खोत्प्रेक्षिता युक्तिः । सा एकोक्ता नान्यैरङ्गीक्रियते । स्वतन्त्राणामृषीणां मति- भाष्यप्रकाशः। माहुः । तत्रापि विनाशत्वस्य नानुमानत्वम् । न सदवशेषः । जलविनाशवदिति दृष्टान्तेन हेतोः साधारणत्वादिति । भिक्षुस्तु यथा असतः सदुत्पत्तिर्न संभवति तथा सतोऽपि सदुत्पत्तिर्न संभवति । कुतः । अपीतौ कारणवत् कार्यस्यापि विद्यमानत्वप्रसङ्गादिति पूर्वपक्षम्, 'अपीतौ' सूत्रे व्याख्याय, 'न तु' इति सूत्रे सतः सदुत्पत्तौ मृद्घटादेर्दृष्टान्तस्य विद्यमानत्वादिति सिद्धान्तं व्याचख्यौ । तदपि शिथिलम् । सतो मृदादेरविद्यमानस्यैव घटादेरुत्पत्तिदर्शनेन सतः सदुत्पत्तेरुपपादन- सापेक्षत्वादिति ॥ १० ॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥ ११ ॥ सूत्रा- क्षरैरेव सांख्योक्त्या किंचिदाशङ्क्य परिहरतीत्याशयेन सूत्रं पठित्वा व्याचक्षते वेदोक्त इत्यादि वेदोक्तेऽर्थे शुष्कतर्कैः कार्यवैलक्षण्यकार्यधर्मवत्त्वप्रसङ्गादिभिः प्रत्यवस्थानमयुक्तम् । कुतः तर्कस्याप्रतिष्ठानात् । तर्को नाम खोत्प्रेक्षिता युक्तिः । सा एकोक्ता नान्यैरङ्गी- क्रियते । वक्तृभिश्चार्यायां तत्तदुक्तास्तर्काः परस्परमाभासीक्रियन्ते । स्वतन्त्राणामृषीणां रश्मिः। भावस्तत्प्रतियोगिघटादिरप्रतियोगिपरमाणुसंबन्ध इति । साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साध्य- नाव्यापकत्वम् । तदित्थम् । साधनं सदवशेषत्वं तद्वती प्रकृतिः तन्निष्ठो योऽत्यन्ताभावः परमाणु- संबन्धाभावस्तत्प्रतियोगित्वं परमाणुसंबन्ध इति । न सदवशेष इति । न सदवशेषः विना- शत्वात् जलविनाशवदित्येव । हेतोरिति साधारणत्वं साध्यसाधकत्वम् । अप्रयोजकत्वं विरुद्धत्व- मिति यावत् । 'साध्याभावव्याप्तो हेतुर्विरुद्धः' इति तलक्षणात् । भिक्षुस्त्विति भगवान्भिक्षुः । अविद्यमानस्यैवेति । 'नासतो विद्यते भावः' इत्युक्तयुक्त्या श्रुतिविप्रतिषेधपरिहारेऽप्रवृत्तिरिति । न हि दृष्टेऽनुपपन्नं नाम व्याघातादेकत्वात् । भास्कराचार्यास्तु भेदाभेदार्थमुक्तप्रकारेणाहुः पुस्तक- मशुद्धमित्युपरम्यतेऽस्माभिः ॥ १० ॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥११॥ सांख्यो- क्त्येति वक्ष्यमाणश्वेताश्वतरश्रुत्यनुगृहीततर्काक्षरैः सांख्योक्तिः । पठित्वेति सर्वभाष्यसंग्रहा कण्ठोक्तत्वेपि पठित्वा । चिकीर्षितस्य मुख्यत्वादन्धथा तर्कनिरूपणे 'तर्क' सूत्रे प्रतीकमात्रं विष्कृतं स्यात् । वेदोक्तेऽर्थ इति ब्रह्मणः समवायित्वे । प्रत्यवेति प्रतिकूलमवस्थानम् । स्वोत्प्रेक्षितेति । ननु वेदान्ते खोत्प्रेक्षायाः किं प्रयोजनमिति चेन्न । 'तर्को मीमांसया युतः' इति श्रीमदाचार्योक्तेः प्रथमाध्यायमीमांसानन्तरं तर्कस्य खोत्प्रेक्षितयुक्त्यात्मकस्य युक्तत्वात् । न चामीमांसाप्रसङ्गोऽस्तेति वाच्यम् । वक्ष्यमाण 'मत्वा' इत्यनेन 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यः' इति श्रुत्या च युक्तिभिरनुचिन्तनरूपमननस्य विधानाऽस्मार्थस्य मीमांसात्वात् । वक्तृभिरित्याचार्यैर्मिश्रैश्च । 1113

४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० १ अ० ५ सू० ११. भेदाद् वस्तुनो द्वैरूप्यासम्भवान्नियमकाभावाच्च । अतो न तर्कस्य प्रतिष्ठा । पूर्वपक्षिणः परिहारः । अप्यन्यथानुमेयमितिचेत् । एवमपि अन्यथा वयमनुमास्यामहे। यथा नाप्रतिष्ठादोषो भविष्यति । न हि कोऽपि तर्कः प्रतिष्ठितो नास्तीति वक्तुं शक्यते । व्यवहारोच्छेदप्रसङ्गात् । 'आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः' ॥ इति स्मृतेः ॥ सावद्यतर्कपरिहारेण निरवद्यस्तर्कः प्रतिपत्तव्यो भवतीतिचेद्, एवमप्य- विमोक्षप्रसङ्गः । ब्रह्मवादिनो निरवद्यतर्कसद्भावेऽपि प्रकृतिवादिनस्तर्कस्य दोषा- विमोक्षप्रसङ्गः । मूलनियमाभावाद् वैमल्यस्य विद्यमानत्वात् ॥ ११ ॥ इति द्वितीयाध्याये प्रथमपादे पञ्चममसत्प्रतिषेधाधिकरणम् ॥ ५ ॥ भाष्यप्रकाशः। मतिभेदात् । विवादविषयस्यैकस्य वस्तुनो युक्तिमात्रेण द्वैरूप्यस्यासंभवात् । लोकस्य वैचित्र्येणोभयोर्वा दिनोर्दृष्टान्तसौलभ्ये एकतरयुक्तिनियामकस्य हेतोरभावाच्च । अतो मह- र्ष्युक्तत्वाद्धेतोर्न तर्कस्य प्रतिष्ठा। पूर्वपक्षिणः परिहारस्तस्मादित्यस्मान् प्रतिब्रवीषि तदा अप्यन्यथानुमेयमितिचेद् एवमपि वयमन्यथानुमास्यामहे, यथा तर्काप्रतिष्ठादोषो न भवति । तत्र हेतुः न हीत्यादि । तत्रापि हेतुद्वयं व्यवहारेत्यादि स्मृतेरित्यन्तम् । तेन सिद्धं तु, सावद्येत्यादि चेदित्यन्तम् । तथा च, प्रधानं जगदुपादानकारणम् । तत्स- लक्षणत्वात् पटसल्लक्षणतन्तुवदित्यनुमानं निरवद्यम् । 'प्रधानाज्जगजायते' इति सांख्यसूत्रो- क्तश्रुत्या, 'यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः' इति श्वेताश्वतरश्रुत्या चानुगृहीत- त्वादिति चेदेवं सांख्योक्तमनूद्य परिहरन्ति एवमपीत्यादिना । तथा च त्वया या श्वेताश्वतर- श्रुतिस्तर्कानुग्राहकतयोक्ता सा प्रकरणावरुद्धा । तत्र हि प्रथमेऽध्याये, 'भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्' इति भोक्तृभोग्ययोरपि ब्रह्मत्वश्रावणेन भोग्यस्य प्रधानस्य ब्रह्मरूपत्वेनैव सिद्धत्वात् । पञ्चमाध्याये च, 'तद् वेदगुह्योपनिषत्सु गूढं तद् ब्रह्मा वेदते ब्रह्म- योनिम्' इति ब्रह्मण एव योनित्वश्रावणात् । एवं, 'प्रधानाज्जगजायते' इत्यत्रापि प्रधानं ब्रह्मकार्य- मेव बोध्यम् । संदिग्धस्य वाक्यस्याप्यसंदिग्धेनैव निर्णयस्य युक्तत्वात् । इदं च, 'योनिश्च हि रश्मिः। वस्तुन इत्यादिभाष्यं विवृण्वन्ति विवादेति । वस्तुन इति धर्मादेर्ब्रह्मणश्च । नियमके- त्यादिभाष्यं विवृण्वन्ति स्म लोकस्येति । अत इत्यादिभाष्यं विवृण्वन्ति अत इति, प्रतिष्ठेति प्रतिष्ठानम्, तस्मात्पूर्वपक्षिणः परिहारः पूर्वसूत्रोक्ततुल्यदोषरूपः इत्यस्मान्प्रति ब्रवीषीत्यर्थः । यद्वा । तर्काप्रतिष्ठानं अतति व्याप्नोतीति तर्काप्रतिष्ठानात् । कोऽततीत्यत्राहुर पूर्वपक्षिणः परिहार इति भाष्ये । अप्यन्यथानुमेयमिति सूत्रांशविवरणभाष्यं विवृण्वन्ति स्म तदाप्यन्यथेति अस्माभिः । तत्रापीत्यादेर्विवरणं क्रियते एवमपीति । वयमिति प्रतिवादिनः । गुह्योपनिष- त्स्विति कृष्णोपनिषदादिषु । 'गूढं ब्रह्मणि वाङ्मये' इति वाक्याद् गूढमिति कृष्णाख्यम् । वेदत इति छान्दसं वेत्तीत्यर्थः । संदिग्धस्येति 'तदात्मानं स्वयमकुरुत' इति श्रुत्या संदिग्धस्य प्रधानकारण- 1114

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४७ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥ (२-१-६) सांख्यमतैकस्य वैदिकप्रत्यासन्नतत्वात् केषाञ्चिच्छिष्टानां परिग्रहोप्यस्ति । अणुमायाकारणवादास्तु सर्वथा न शिष्टैः परिगृह्यन्त इति तेषां तर्काः पूर्वोक्त- भाष्यप्रकाशः। गीयते' इति प्रथमाध्याय एव दत्तोत्तरम् । अतः प्रकृतिवादिनो मूलनियमाद्यभावात् तत्तर्क- स्याप्रतिष्ठादोषान्नविमोक्षस्यैव प्रसङ्ग इत्यर्थः । रामानुजाचार्यास्तु, 'तर्काप्रतिष्ठानादपि'इति सूत्रं भिन्नं कुर्वन्ति । तदा लापनसौकर्यं गुणः । हेतोः सिद्धान्तकोटिप्रवेशात् । तथापि पूर्वसूत्रस्थचकारवैयर्थ्यं दोषः । चकारार्थस्यात्रत्य 'अपि'शब्देन संग्रहादिति ॥ ११ ॥ इति पञ्चममसत्प्रतिषेधाधिकरणम् ॥ ५ ॥ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥ तर्काप्रतिष्ठानदोषमन्येष्वपि बोधयंस्तत्रापि परिहारमतिदिशति एतेनेत्यादि । तद् व्याचक्षते सांख्येत्यादि । पूर्वोक्त- रश्मिः। बोधकस्य 'प्रधानाज्जगज्जायते' इति श्रुतिवाक्यस्य 'भोक्ता भोग्यम्' इति 'तद्धेदं' इति वाक्याभ्यां निर्णययोग्यत्वादित्यर्थः । चकारेति । अयमर्थः । 'मात्रालाघवे वैयाकरणाः पुत्रोत्सवं मन्यन्ते' इति चकारोन्‍यार्थसमुच्चायकोपि न वक्तव्योपिशब्देन चारितार्थ्यादिति । अन्यानि तु भाष्याणि नातिविरुद्धानीति नोक्तानि । शांकरभाष्ये चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेति सिद्धम् । तत्र प्रकृतिः ओंकार इति शब्दार्थाभेदः । माया न प्रकृतिर्नापि तत्र प्रतिबिम्बः । न चैवं जगत्कर्त्री शक्तिः सदानन्दस्य न सच्चिदानन्दस्येति वाच्यम् । नवीनभावजनकत्वादिकथनात्तच्छ्रितायाः ग्रहणात् । अतः शुद्धा चित् कारणम् । रामानुजमतमुक्तम् । माध्वमते तु 'तर्काप्रतिष्ठाने' मोक्षतर्काप्रतिष्ठाने मोक्षाभावप्रसङ्गः । स्वमते तु विशब्दात्प्रकृतिवादिन इत्यादिग्रन्थोधिकः । भास्कराचार्यमते प्रधानकारणत्वमाशङ्क्य एवमपि प्रधानकारणत्वेप्यनवस्थादोषान्निर्मोक्षस्तर्काणामतः श्रुतिमूलमेव जगद्धि जीवधारणमिति स्थितमित्याहुः । तत्र तर्कमोचने मननश्रुतिविरोधः । तत्रैव 'यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेवमन्य आत्मानं विद्वान्ब्रह्मामृतोमृतम्' इति श्रूयते । अत्र पञ्चमहाभूतानां ब्रह्मत्वं प्रपद्ये इत्युक्तोर्थः प्रतीयते । पञ्च ब्रह्माणि एकं स्वरूपलक्षणेन लक्षितमिति श्रुतिविप्रतिषेधस्तस्य परिहारः शिष्टापरिग्रहात् पञ्चत्वस्य । शिष्टापरिग्रहस्तु 'तं एवम् अन्ये इति पदच्छेदस्यापि संभवात् । अत एव 'न संख्योपसंग्रह'सूत्रे भाष्ये सांख्यमतसंख्यावारकत्वेनैव व्याख्याता श्रुतिः । न च शारीरकमीमांसायां शारीरब्राह्मणोक्तं शिष्टापरिगृहीतमिति प्रवक्तुं शक्यमिति वाच्यम् । गीतात्रयोदशाध्याये 'क्षेत्रज्ञं चापि मां विद्धि' इत्युक्तं ज्ञेयमप्युक्तम् । तत्र क्षेत्रज्ञं चापीति पक्षः शिष्टापरिगृहीत इति गीतोपबृंहणात्तदुपढौकनेन ब्रह्मवादौचित्यात् । अत्र समन्वयो विषयः सदसतोः कारणतोक्त्या विसंवादात्कार्यप्रतिपादकानां समन्वयोस्ति न वेति संशयः नास्तीति पूर्वपक्षेभिधीयते । अस्तीति सिद्धान्तः । श्रुतिविरोधपरिहारात् ॥ ११ ॥ इति पञ्चममसत्प्रतिषेधाधिकरणम् ॥ ५ ॥ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥ बोधयन्निति सूत्रकृत् । अति- दिशतीति निरस्ता इत्यनुक्त्वा व्याख्याता इत्युक्त्यातिदिशति । व्याख्यानाभावे सर्ववादानवसरत्वं न तु नानावादानुरोधित्वं स्यात् । भाष्येनिरस्तपरिग्रहशब्दाभ्यां सिद्धार्थमाहुः यद्यपीति । औलूक इति 111

An accurate, line-by-line transcription of the Sanskrit text on the page in Markdown format:

४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० ७ सू० १०. न्यायेन सुतरामेव निरस्ता वेदितव्याः ॥ १२ ॥ इति द्वितीयाध्याये प्रथमपादे षष्ठं शिष्टापरिग्रहाधिकरणम् ॥ ६ ॥ भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ॥ १३ ॥ (२-१-७) कारणदोषं परिहृत्य कार्यदोषपरिहारार्थमारम्भः । भोग्यस्य भोक्त्रापत्तिः । भाष्यप्रकाशः। न्यायेनेति मूलनियमाभावपरस्परवैसंमत्यप्रयुक्तेन तर्काप्रतिष्ठानरूपेण न्यायेन । यद्यपि, 'अक्षपाद- प्रणीते च काणादे सांख्ययोगयोः । त्याज्यः श्रुतिविरुद्धोंऽशः श्रुत्येकशरणैर्नृभिः । जैमिनीये च वैयासे न विरोधोऽस्ति कश्चन' इति पराशरोपपुराणवाक्याज्जैमिनीयान्तेषु किंचिदंशविरोधस्तु- त्यस्तथापि गौतमीये, औलूके, मायिके च दर्श

ब्रह्मणो निर्विशेषस्य कारणत्वाद् भोक्तुर्भोग्यत्वम्, भोग्यस्य च भोक्तृत्वमापद्यते । अतो न विभाग इतिचेत् स्याल्लोकवत् । भाष्यप्रकाशः । स्यादिति । भोक्त्रापत्तेरिति भावप्रधानो निर्देशः । भोक्तृत्वापत्तेरित्यर्थः । अत्रैवं बोध्यम् । तैत्तिरीये 'सोऽकामयत' इति चेतनं ब्रह्म प्रकृत्य ततः सृष्टिमुक्त्वा तन्तुन्यायेन तदनुप्रवेशाद् 'विज्ञानं चाविज्ञानं च' इति कार्यविभागो दर्शितः । स युज्यते न वेति संदेहे, स न युज्यते । यतः 'अशब्दमस्पर्शम्' इति 'अस्थूलमनणु' इत्यादिश्रुतिभ्यो लौकिकविशेषरहि- तस्य ब्रह्मणः कारणत्वात् कार्यस्य लयदशायां भोक्तृभोग्यभावकृतपरस्परविभागस्य निवृत्ति- पूर्वकं कारणात्मकतासंपत्तौ सर्वथा तथात्वे जाते ततः पुनरुत्पत्तौ स्थितिदशायां भोक्तु- श्चेतनस्य भोग्यत्वं स्रक्चन्दनादिरूपत्वं भोग्यस्य तस्य भोक्तृत्वं चेतनत्वमापद्येत, रश्मिः । आरम्भशब्दस्य सूत्राधिकरणोभयसापेक्षत्वात्सूत्रारम्भ इत्युक्तावश्यवक्तव्यत्वादधिकरणत्वं विशदयन्ति अत्रैवं बोध्यमिति । चेतनमिति 'ॐ सोऽकामयत' इति श्रुत्योद्धारेण वेदविधानं स्यादत 'ॐ सोऽकामयत' इत्युक्त्या चेतनमित्यर्थः । तन्तुन्यायेनेति पटे तन्तुन्यायेन । ननु तर्हि 'असत्' अधिकरणव्यवधानमिति चेन्न, तस्याः कार्यप्रतिपादकत्वेन कार्यनिरूपक 'भोक्त्रापत्ति'सूत्रविषयत्वात् कारणं निर्वाहकस्सङ्गत्वादसधिकरणेनोक्तत्वावसरसङ्गत्वाय संस्तूयत इति । नन्वत्र शांकरोक्तः जग- त्सर्गादि श्रुतवेदान्तसमन्वयो विषयः, स प्रत्यक्षादिना विरुद्धो न वेति संदेहः कुतो नेति चेन्न श्रुत्यो- र्विप्रतिषेधाभावेन तत्परिहाराभावात् । न च वेदान्ताः श्रुतिः प्रत्यक्षादिश्रुतिर्बृहदारण्यके 'यविदानी द्वौ विवदमानावियातामहमद्राक्षमहमश्रौषमिति य एवं ब्रूयादहमद्राक्षमिति तस्मा एव श्रद्दध्यामः' इत्येवं तयोर्विप्रतिषेधस्तस्य प्रतिषेधमङ्गीकृत्य श्रुतिविप्रतिषेधपरिहारोस्त्विति वाच्यम् । उभयोः प्रत्यक्षत्वेन विप्रतिषेधाभावेन परिहाराविषयत्वात् । अस्थूलमनण्वित्यादीति । आदिशब्देन शारीरब्राह्मणे 'अणुः पन्था विततः पुराणो मा स्पृष्टोऽनु वित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविद उत्क्रम्य स्वर्गं लोक- मितो विमुक्ताः' इत्याद्युक्त्वाग्रे उच्यते । 'यस्यानुवित्तः प्रतिबुद्ध आत्मा अस्मिन्संदेहे गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव' इति । अणुः काठकोक्तमन्त्र यथा ङसः सुः । अणोः पन्थाः यथा भगवन्मार्गः । मां याज्ञवल्क्यम् । येन वित्तो ज्ञातो नु गुरूपसत्तिमनु । प्रतिनिधिरेणुः अणुत्वेन साक्षात्कृतः । संदेहे सम्यग् देहे गहने आध्यात्मिकाद्यनेकार्यसङ्कीर्णत्वा- द्देहे । स प्रविष्टः तस्येति प्रविष्टस्य लोको जीवः स जीवः लोक एव अक्षरत्वात् । याज्ञवल्क्य- मतं गृह्यतेऽग्रे 'यस्मिन् पञ्च पञ्चजना' इति श्रुतिः सा भाष्ये व्याकृता । पञ्च भूतानि पञ्चजना यस्मिन्, यस्मिन् भूते पञ्च प्रजा जनयन्ति ते हृदाकाशश्च प्रतिष्ठित इत्याद्यृषिमतं याज्ञवल्क्यं वा । 'ऋषिभिर्बहुविधा गीतं छन्दोभिर्विविधैः पृथक्' इति गीतायाः । तदग्रे 'यस्मादर्वाक् संवत्सरो अहोभिः परिवर्तते तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्' इति देवानामृषिमतम् । यस्मादग्रे- र्वार्क् संवत्सरः आधिभौतिकः । 'अग्निः संवत्सरः प्रजापतिः' इति संहितातमतं श्रीमदाचार्या- णाम् । 'कालात्मा भगवान् जातः' इति कारिकायाः आयुर्हेनाब्रह्मेनोपासनमृषिमतम् । 'प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः ते निचिक्युर्ब्रह्म पुराणमग्र्यम्' इत्यृषिमतम् । 'मनसैवानुद्रष्टव्यं नेह नानास्ति किंचन' अर्धप्रपाठकः । लौकिकेति प्रक्षालन- पङ्कन्यायविरोधेन लौकिकेति विशेषणम् । आदिपदार्थः श्रुत्यन्तरमतानि यदि तदा न विशेषणं लौकि- केति । तदा भाष्यं निर्विशेषस्य कारणत्वाद् इति यथा श्रुतम् । तथात्व इति स्रक्चन्दनादिरूपत्वे । ७ ब्र० सू० भा० 1117

५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० १ अ० ७ सू० १३. यथा लोके कटककुण्डलादीनां सुवर्णकारणत्वेन सुवर्णानन्यत्वेऽपि न कटकस्य कुण्डलत्वमेवं न भोग्यस्य भोक्तृत्वम् ॥ १३ ॥ इति द्वितीयाध्याये प्रथमपादे सप्तमं भोक्त्रापत्तेरित्यधिकरणम् ॥ ७ ॥ भाष्यप्रकाशः । यथा लोके कटककुण्डलादेरूपमर्देन सुवर्णरूपतापत्तौ पुनःकरणदशायां कटकभागस्य कुण्ड- लत्वं कुण्डलभागस्य कटकत्वं तद्वत् । अतोऽविभागो विज्ञानाऽविज्ञानविभागाभावः । ततश्च, 'ऋतं पिबन्तौ सुकृतस्य' इत्यत्र चेतने भोक्तृत्वं सुकृते भोग्यत्वं यदुच्यते, तद् विप्रतिषेध इत्येवं- चेदित्थमेतेनाशङ्क्य तत्र समाधत्ते स्याल्लोकवदिति । तथा चैवमापादनेऽपि उत्पत्तिदशायां चेतनस्य भोक्तृत्वमचेतनस्य भोग्यत्वमेव । यथा लोके कटकभागस्य कुण्डलत्वेनोत्पत्तौ कुण्डलत्व- मेव, कुण्डलभागस्य कटकत्वेनोत्पत्तौ कटकत्वमेवं विपर्ययापत्तेरभावाद्, भोक्तृभोग्यविभाग- सौकर्यं तद्वदित्यर्थः । अत्र लोकवदिति दृष्टान्तेनेदं बोध्यते । तदुक्तमभ्युपगम्य तदुक्त्या समा- धीयते । अस्माकं तु, 'बहु स्यां प्रजायेय' इतीच्छया बहुभवनस्य प्रकर्षस्य च सिद्धत्वात् पूर्वमेव चेतनाचेतनविभागं कृत्वा तेन तेन रूपेण तत्र तत्र प्रवेश इति न दोषलेश इति । एवमत्र युक्त्या, 'विज्ञानं चाविज्ञानं च' इत्यादिश्रुतौ विभागाभावरूपः कार्यदोषः परिहृतः । प्रलये तु विभागाभावेप्यदोषः । व्यवहाराभावेन तल्लक्षणाभावादिति । भास्कराचार्यास्तु युक्त्या ब्रह्मवादः सांख्यैः पुनराक्षिप्यते तद्दूषणायेदं सूत्रमितीच्छन्ति । यथा फेनतरङ्गादीनां परस्परं विभागः समुद्रादनन्यत्वं चेति दृष्टान्तं चाहुः । शंकराचार्या अप्येवमेवोक्त्वा यद्यपि भोक्ता न ब्रह्मणो विकारः 'तत् सृष्ट्वा तदेवानु प्राविशत्' इति सङ्गरविकृतस्यैव कार्यानुप्रवेशे भोक्तृत्वाश्रवणात् । तथापि कार्यमनुप्रविष्टस्यो- पाधिनिमित्तो विभागः संभवति । यथा घटाद्युपाधिनिमित्त आकाशस्येत्येतदाशयेन सूत्रमित्ये- तावदधिकमाहुः । रश्मिः। एतद्दृष्टान्तेन स्फुटीकुर्वन्तो यथा लोक इति भाष्यं विवृण्वन्ति यथा लोक इति । समा- धत्त इति । भगवानाचार्यः सूत्रकृत् । इत्याहुर्भाष्ये स्याल्लोकवदित्यर्थः । कटकभागस्य । समाधीयत इति । इतीति शेषः । तृतीयाध्यायेऽरूपवत्सूत्रेऽथैकदेशिमतीयत्वेन वक्ष्यमाणत्वात्तदनुकूल- यितुमस्मिन्नपि पूर्वसिद्धं सिद्धान्तमाहुः अस्माकमिति । प्रकर्षस्येति उच्चनीचरूपेण पूर्व- पक्षापेक्षया च । न दोषेति । दोषस्त्वेकदेशिमतीयत्वम् । व्यवहारेति । प्रलये विभाग- व्यवहाराभावेन भोक्तृभोग्ययोर्भोक्तृत्वभोग्यत्वलक्षणाभावात् । बहुभवनियम इति भास्कराचार्यमतमाहुः भास्करेति । आक्षिप्यत इति ब्रह्मणोनन्यत्वाद्भोक्तृभोग्ययोर्विभागः कथम् । भोक्तुर्जीवस्य भोग्यापत्तेर्भोग्यस्य स्वशरीरेन्द्रियविषयलक्षणभोक्त्रापत्तेरपि चैकीभाव इत्याक्षिप्यते ततश्च भेदाभेद- योर्हि सर्वप्रमाणसिद्धवत्कृत्वा विभागोऽविभागो विस्मृतोऽथेदानीमनन्यत्वमसिद्धमिति साध्यते । यथा फेनेति षष्ठ्या भेदः । अनन्यत्वमित्यभेद इति भेदाभेदः । एवमेवेति भेदाभेदवादित्वेप्याक्षेपसाम्याद्ब्रह्ममात्राश्रयत्वादेवमेव । उपाधिनिमित्तेति उपाधिरविद्या । 1118